कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

प्रथमं काण्डम् · नाट्यवर्गः

इति शब्दादिवर्गः

अथ नाट्यवर्गः ।

निषादर्षभगान्धारषड्जमध्यमधैवताः ।पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥ १ ॥
1.7.1
अनुष्टुप्
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ।कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ॥ २ ॥नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः ।स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते ॥
1.7.2
अनुष्टुप्
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी ।विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥
1.7.3
अनुष्टुप्
ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् ।वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥ ४ ॥
1.7.4
अनुष्टुप्
चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः ॥ ५ ॥
1.7.5
अनुष्टुप्
स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् ।
1.7.6
अनुष्टुप्
आनकः पटहोऽस्त्री स्यात्कोणो वीणादिवादनम् ॥ ६ ॥
1.7.6
अनुष्टुप्
वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः ।
1.7.8
अनुष्टुप्
कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७ ॥
1.7.7
अनुष्टुप्
वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः ।मर्दलः पणवोऽन्ये च नर्तकीलासिके समे ॥ ८ ॥
1.7.8
अनुष्टुप्
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ।तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥
1.7.9
अनुष्टुप्
ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने ।
1.7.12
अनुष्टुप्
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥
1.7.10
अनुष्टुप्
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः ।स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ ११ ॥
1.7.11
अनुष्टुप्
भगिनीपतिरावुत्तो भावो विद्वानथावुकः ।जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥
1.7.12
अनुष्टुप्
राजा भट्टारको देवस्तत्सुता भर्तृदारिका ।
1.7.16
अनुष्टुप्
देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १३ ॥
1.7.13
अनुष्टुप्
अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः ।
1.7.18
अनुष्टुप्
अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः ॥ १४ ॥
1.7.14
अनुष्टुप्
अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे ।
1.7.20
अनुष्टुप्
हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति ॥ १५ ॥
1.7.15
अनुष्टुप्
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ ।
1.7.22
अनुष्टुप्
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके ॥ १६ ॥
1.7.16
अनुष्टुप्
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥
1.7.17
अनुष्टुप्
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा ।कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ १८ ॥
1.7.18
अनुष्टुप्
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् ।
1.7.26
अनुष्टुप्
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥
1.7.20
अनुष्टुप्
चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।
1.7.28
अनुष्टुप्
विकारो मानसो भावोऽनुभावो भावबोधकः ॥ २१ ॥
1.7.21
अनुष्टुप्
गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः ।
1.7.30
अनुष्टुप्
दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः ।
1.7.31
अनुष्टुप्
अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥रीढावमाननावज्ञावहेलनमसूर्क्षणम् ।
1.7.32
अनुष्टुप्
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः ॥ २३ ॥
1.7.23
अनुष्टुप्
क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा ।
1.7.34
अनुष्टुप्
अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥
1.7.24
अनुष्टुप्
वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम् ।पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥
1.7.25
अनुष्टुप्
कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ ।
1.7.37
अनुष्टुप्
शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥
1.7.26
अनुष्टुप्
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम् ।इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः ।
1.7.39
अनुष्टुप्
उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा ॥ २८ ॥
1.7.28
अनुष्टुप्
स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे ।
1.7.41
अनुष्टुप्
उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक् ॥ २९ ॥
1.7.29
अनुष्टुप्
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥
1.7.30
अनुष्टुप्
कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ।
1.7.44
अनुष्टुप्
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ॥ ३१ ॥हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ।
1.7.45
अनुष्टुप्
द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२ ॥
1.7.32
अनुष्टुप्
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ।
1.7.47
अनुष्टुप्
घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता ॥ ३३ ॥
1.7.33
अनुष्टुप्
अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ ।स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम् ॥ ३४ ॥
1.7.34
अनुष्टुप्
मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम् ।
1.7.50
अनुष्टुप्
क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥
1.7.35
अनुष्टुप्
विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे ।
1.7.52
अनुष्टुप्
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ ३६ ॥
1.7.36
अनुष्टुप्
तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम् ।
1.7.54
अनुष्टुप्
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः ।कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
1.7.38
अनुष्टुप्