All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भुवःस्कन्धः · नाट्यप्रकाण्डः (1/2)
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमोऽपि च ।धैवतश्च निषादश्च सप्त कण्ठादिजाः स्वराः ॥ १ ॥
2.5.1 · p. 417
अनुष्टुप्
कण्ठोरस्तालुरसनानासाशीर्षसमुद्भवाः ।आस्यात् षड्जोऽपरे कण्ठादृषभो हृदधोभवः ॥ २ ॥
2.5.2 · p. 417
अनुष्टुप्
नासिकोत्थश्च गान्धारो मध्यमो नाभिसंभवः ।उरसः शिरसः कण्ठात्पञ्चमस्य च सम्भवः ॥ ३ ॥
2.5.3 · p. 417
अनुष्टुप्
धैवतोऽपि ललाटोऽत्थो निषादः सर्वसंधिजः ।स्युर्मन्द्रमध्यताराख्या ग्रामाः स्थानस्थितिप्रदाः ॥ ४ ॥
2.5.4 · p. 417
अनुष्टुप्
त्रयः स्वरेषु प्रत्येकं स्युस्ते तेष्वपि मूर्च्छनाः ।सप्तस्वरेषु नन्दत्सु स्वस्वस्थानस्थितेषु च ॥ ५ ॥
2.5.5 · p. 417
अनुष्टुप्
प्रत्येकमूर्छनैकैका ग्रामेष्वेषु प्रजायते ।बोधा लला समाधानी पूरणी चापराजिता ॥ ६ ॥
2.5.6 · p. 417
अनुष्टुप्
विगलिप्ता संयमिनी मृद्वी च भ्रामिताक्षरा ।द्राविता मङ्गला रामा सुखकृज्जयशेखरा ॥ ७ ॥
2.5.7 · p. 417
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
रमणी शोभिता नादा तथा सिभरिजा मता ।नादानूकासिका चण्डा इत्येता एकविंशतिः ॥ ८ ॥
2.5.8 · p. 418
अनुष्टुप्
ताना एकोनपञ्चाशत्तन्नतेन्नकतुन्नकाः ।विज्ञेयाः क्रमशः सर्वे सप्त सप्त स्वरे स्वरे ॥ ९ ॥
2.5.9 · p. 418
अनुष्टुप्
नादान्ता निष्कला गूढा सकला मधुरा पुनः ।कामाङ्गा मदिरा श्यामा तारा चन्द्रानना शुभा ॥ १० ॥
2.5.10 · p. 418
अनुष्टुप्
असंपूर्णा वरा पूर्णा रेजिका वालिकापरा ।प्रसन्नवदना वामा बाला मधुरता तथा ॥ ११ ॥
2.5.11 · p. 418
अनुष्टुप्
द्वाविंशतिस्तु श्रुतय एता ज्ञेयाः स्वरानुगाः ।श्रुतिभिः कियतीभिश्च संयुक्तास्ते स्वराः क्रमात् ॥ १२ ॥
2.5.12 · p. 418
अनुष्टुप्
चतुःश्रुतिस्त्रिश्रुतिश्च द्विश्रुतिश्च स्वरा मताः ।श्रुतिभिर्मूर्छनाभिश्च ग्रामैस्तानैश्च संहिताः ॥ १३ ॥
2.5.13 · p. 418
अनुष्टुप्
समागताः स्वरास्तैस्तु रागा भाषादयः कृताः ।श्रीरागश्च वसन्तश्च भैरवः पञ्चमोऽपि च ॥ १४ ॥
2.5.14 · p. 418
अनुष्टुप्
मेघरागः षष्ठ इह ज्ञेयो नट्टनरायणः ।षट् षड्भार्याः क्रमादेषामासां नामान्यनुक्रमात् ॥ १५ ॥
2.5.15 · p. 418
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
गौडी कोलाहला चापि गान्धारी द्रविडी तथा ।पञ्चमी देवगान्धारी षष्ठी देवलकौशिकी ॥ १६ ॥
2.5.16 · p. 418
अनुष्टुप्
श्रीरागस्य भवन्त्येता वासन्त्यः स्युरतः पराः ।आन्दोली कैशिकी चैव तथा प्रथममञ्जरी ॥ १७ ॥
2.5.17 · p. 419
अनुष्टुप्
गुडेगिरी देवशाखा रामा स्यादथ भैरवी ।विलाडली गुर्जरी च कर्णाटी चापि रक्तिका ॥ १८ ॥
2.5.18 · p. 419
अनुष्टुप्
हंसाऽथ त्रिगुणा स्तम्भतीर्थी चाभीरिका पुनः ।ककुभा च वराडी च सामेरी चाप्यमूरपि ॥ १९ ॥
2.5.19 · p. 419
अनुष्टुप्
मतान्तरे मेघरागभार्याः स्युरथ चापराः ।बंगाला मधुरा चैव कामोदा चोक्षसारिका ॥ २० ॥
2.5.20 · p. 419
अनुष्टुप्
देवगिरी देवपाला स्युरेताः पञ्चमाश्रयाः ।मतान्तरेऽपि पुनस्तोटिकापि च मोटिका ॥ २१ ॥
2.5.21 · p. 419
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 गि (wrong syllable)
नदडुम्बी च मल्हारी सिन्धुमल्हारिकाऽप्यथ ।देवशाखा मालवश्रीर्द्धनाश्रार्दीपकादयः ॥ २२ ॥
2.5.22 · p. 419
अनुष्टुप्
स्वचतुर्जातिसंयुक्ता रागाङ्गानि भवन्त्यमी ।बृहती च पुलंध्री च सैरन्ध्री ललितादयः ॥ २३ ॥
2.5.23 · p. 419
अनुष्टुप्
भाषान्तरामिधा भीमपलाशी प्रमुखा अथ ।वैराटिका वृद्धहंसा तथा सौराष्ट्रिकादयः ॥ २४ ॥
2.5.24 · p. 419
अनुष्टुप्
शोकप्रकाशकाश्चान्ये क्रियाङ्गेषु प्रकीर्तिताः ।केदारकर्णौ स्थानाख्या तथा मालवकादयः ॥ २५ ॥
2.5.25 · p. 419
अनुष्टुप्
कर्णाटबंगालमुखाः सर्वे गौडा उपाङ्गकाः ।ज्ञेया रागेषु रागाङ्गाः क्रियाऽङ्गोपाङ्गकावपि ॥ २६ ॥
2.5.26 · p. 420
अनुष्टुप्
तथा भाषासु भाषाङ्गास्तेऽपि स्युः स्वस्वदेशजाः ।समाश्चतुर्विधा देश्यशुद्धगन्धालिछाइलाः ॥ २७ ॥
2.5.27 · p. 420
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 लि (wrong syllable)
नुडवः खाडवः पूर्णोऽपूर्णश्चेत्यथ च ध्रुवाः ।मठश्च प्रतिमंट्टश्च तृतीयस्त्वपि सारकः ॥ २८ ॥
2.5.28 · p. 420
अनुष्टुप्
अडुतालस्ततो रास एकताली क्रमादिमे ।जयन्तः शेखरोत्साहौ तद्वन्मधुरनिर्मलौ ॥ २९ ॥
2.5.29 · p. 420
अनुष्टुप्
कुतलः कमलश्चारो नन्दनश्चन्द्रमाः खरः ।कामदो विजयश्चैव कन्दर्पजयमङ्गलौ ॥ ३० ॥
2.5.30 · p. 420
अनुष्टुप्
तिलको ललितश्चामी ध्रुवाः स्युरिह षोडश ।उद्गाहे स्यात्पदद्वन्द्वं मध्ये कार्यं पदद्वयम् ॥ ३१ ॥
2.5.31 · p. 420
अनुष्टुप्
आभोगे पदयुग्मं स्यात् खण्डानीत्थं ध्रुवस्य च ।षट्पदस्तूत्तमः प्रोक्तो मध्यमः पञ्चभिः परैः ॥ ३२ ॥
2.5.32 · p. 420
अनुष्टुप्
कनिष्ठश्च चतुर्भिः स्यादेवं ते त्रिविधा ध्रुवाः ।उद्गाहे खण्डकद्वन्द्वं युक्तिद्वयविनिर्मितम् ॥ ३३ ॥
2.5.33 · p. 420
अनुष्टुप्
अन्यानि तु पदानि स्युः सर्वाणि नियमादृते ।एकादशाक्षरात्खण्डादेकैकाक्षरवर्द्धितैः ॥ ३४ ॥
2.5.34 · p. 420
अनुष्टुप्
खण्डैर्ध्रुवा भवन्त्येवं षड्विंशत्यादितः क्रमात् ।कमलाकरः कलापः कामश्चैवात्र सुन्दरः ॥ ३५ ॥
2.5.35 · p. 421
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
वल्लभो मङ्गलश्चापि षडुक्ता मण्डका अथ ।अमरो मन्दिरश्चापि विचारः कुन्दसंज्ञकः ॥ ३६ ॥
2.5.36 · p. 421
अनुष्टुप्
चतुर्विधोऽथ षोढा स्यादथ निःसारकाभिधः ।सुनरोऽपि विशालः स्यान्नन्दो वैकुण्ठवाञ्छितौ ॥ ३७ ॥
2.5.37 · p. 421
अनुष्टुप्
विजयोऽथाडुतालस्तु षोढा स्याच्चमरामरौ ।अथ षोढा रासकः स्यात्कम्बुजो मुदिराम्बुजौ ॥ ३८ ॥
2.5.38 · p. 421
अनुष्टुप्
विनोदश्चन्द्रसरसोऽथैकताली त्रिधा मता ।रामा तारा चन्द्रिका च द्रुतमध्यविलम्बिताः ॥ ३९ ॥
2.5.39 · p. 421
अनुष्टुप्
एकमात्रिकतालेन सूडाद्याः स्युरनेकधा ।नाट्यं तौर्यत्रिकं गीतं नृत्तं वाद्यं त्रयं च तत् ॥ ४० ॥
2.5.40 · p. 421
अनुष्टुप्
संगीतं प्रेक्षणार्थेऽस्मिञ्शास्त्रोक्ते नाट्यधर्मिका ।गीतं गानं च गान्धर्वे गेयं स्त्री गीतिरित्यपि ॥ ४१ ॥
2.5.41 · p. 421
अनुष्टुप्
व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलङ्कृतम् ।समं सुरक्तं सुश्लक्ष्णं विक्रुष्टं मधुरं तथा ॥ ४२ ॥
2.5.42 · p. 421
अनुष्टुप्
दशैते स्युर्गुणागीते तत्र व्यक्तं स्फुटैः स्वरैः ।पूर्णं पूर्णीकममकं प्रसन्नं प्रकटार्थकम् ॥ ४३ ॥
2.5.43 · p. 421
अनुष्टुप्
सुकुमारं कण्ठभवं त्रिस्थानोत्थमलङ्कृतम् ।समवर्णलयस्थानं सममित्यभिधीयते ॥ ४४ ॥
2.5.44 · p. 422
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
सुरक्तं वल्लकीवंशकण्ठध्वन्यं सुतालुकम् ।नीचोच्चस्थानमध्यादौ शुक्लले श्लक्ष्णमुच्यते ॥ ४५ ॥
2.5.45 · p. 422
अनुष्टुप्
उच्चैरुच्चारणादुक्तं विक्रुष्टं भरतादिभिः ।मधुरं धुर्यलावण्यपूर्णं जनमनोहरम् ॥ ४६ ॥
2.5.46 · p. 422
अनुष्टुप्
दुष्टं लोकेन शास्त्रेण श्रुतिकालविरोधि च ।पुनरुक्तं कलाबाह्यं गतक्रममपार्थकम् ॥ ४७ ॥
2.5.47 · p. 422
अनुष्टुप्
ग्रामसंदिग्धमित्येवं दशधा गीतदुष्टता ।नर्त्तनं नटनं नाट्यं नृत्यं नृत्तं च ताण्डवम् ॥ ४८ ॥
2.5.48 · p. 422
अनुष्टुप्
पुंसि क्लीबे पुंसि नाटो लासो लास्यं नपुंसकम् ।अथ हल्लीसकं स्त्रीणां यत्तमण्डलनर्त्तनम् ॥ ४९ ॥
2.5.49 · p. 422
अनुष्टुप्
पानगोष्ठ्यामुच्चतालं रणे वीरजयन्तिका ।स्थाने नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः ॥ ५० ॥
2.5.50 · p. 422
अनुष्टुप्
पुंसि प्राङ्नाट्यकं क्लीबे क्रियासूचकमस्त्रियाम् ।अङ्गहारोऽङ्गहारिश्च व्यञ्जकाभिनयौ समौ ॥ ५१ ॥
2.5.51 · p. 422
अनुष्टुप्
स चतुर्विध आहार्यो रचितो भूषणादिभिः ।वचसाङ्गेन सत्त्वेन वाचिकाङ्गिकसात्त्विकाः ॥ ५२ ॥
2.5.52 · p. 422
अनुष्टुप्
त्रिष्वेते नाटकं भाणो डिमः प्रहसनं पुनः ।व्यायोगश्च प्रकरणं वीथी समवकारकः ॥ ५३ ॥
2.5.53 · p. 423
अनुष्टुप्
ईहामृगोऽङ्क इत्येते भेदा नाटकजा दश ।स्याद्वेददेवयोर्वाणी संस्कृतं प्रकृतिः स्त्रियाम् ॥ ५४ ॥
2.5.54 · p. 423
अनुष्टुप्
तदुद्भवं प्राकृतं तन्मागधी सूरसेन्यपि ।अपभ्रंशो भूतभाषा भाषाः षडथ वृत्तयः ॥ ५५ ॥
2.5.55 · p. 423
अनुष्टुप्
भारती सात्त्विकी कैशिक्यारभट्योऽत्र नाटके ।चतस्रोऽथापि कन्दर्पध्वजपर्यायमित्यपि ॥ ५६ ॥
2.5.56 · p. 423
अनुष्टुप्
वाद्यं वादित्रमातोद्यं तूर्यं तूरमथो ततम् ।वीणाप्रभृतिकं वाद्यं कांस्यतालादिकं घनम् ॥ ५७ ॥
2.5.57 · p. 423
अनुष्टुप्
वंशादिकं तु सुषिरमानद्धं मुरजादिकम् ।अवनद्धं तदेव स्यात्पिनद्धमपिनद्धवत् ॥ ५८ ॥
2.5.58 · p. 423
अनुष्टुप्
वीणा स्त्रियां घोषवती विपञ्ची कण्ठकूणिका ।वल्लकी साथ तन्त्रीभिः सप्तभिः परिवादिनी ॥ ५९ ॥
2.5.59 · p. 423
अनुष्टुप्
शिवस्य वीणा कोलम्बी सरस्वत्यास्तु कच्छपी ।महती नारदस्येशगणानां तु प्रभावती ॥ ६० ॥
2.5.60 · p. 423
अनुष्टुप्
विश्वावसोस्तु बृहती तुंवरोस्तु कलावती ।चण्डालानां तु कण्डोली कोलम्बोऽस्याः कलेवरे ॥ ६१ ॥
2.5.61 · p. 423
अनुष्टुप्
निबन्धनं तूपनाहः प्रवालो दण्डमस्त्रियाम् ।प्रसेवकस्तु ककुभः कलिका कूणिका स्त्रियौ ॥ ६२ ॥
2.5.62 · p. 424
अनुष्टुप्
मूलं वंशशलाका स्यात्समन्वितलये तु ना ।एककालश्चैकतालो मृदङ्गो मुरजः पुमान् ॥ ६३ ॥
2.5.63 · p. 424
अनुष्टुप्
आलिङ्ग्य ऊर्ध्वकः पुंसि स्यादालिङ्गी स्त्रियामपि ।हरीतक्याकृतिश्चाङ्क्या स्यादालिङ्ग्या यवाकृतिः ॥ ६४ ॥
2.5.64 · p. 424
अनुष्टुप्
गोपुच्छाकृतिरूर्ध्वाख्यः प्रोक्तः सर्वत्र टोककः ।स्याद्यशःपटहो ढक्का भंभा भेरी स्त्रियां पुमान् ॥ ६५ ॥
2.5.65 · p. 424
अनुष्टुप्
आनकश्चापि भेरिः स्त्री दुन्दुभिश्चानकः पुमान् ।प्रणवः पणवस्तुल्यौ पटहोऽस्त्र्यथ मर्दलः ॥ ६६ ॥
2.5.66 · p. 424
अनुष्टुप्
तूरं तूर्यं च विजयः कबर्दिः करतालिका ।काहला ध्वनितालोऽस्त्री डमरुः सूत्रकोणकः ॥ ६७ ॥
2.5.67 · p. 424
अनुष्टुप्
भयकृत्प्रेतपटहो मृत्युदण्डकरश्च सः ।भक्ततूर्यं नृपाभीलं मल्लतूर्यं महास्वनः ॥ ६८ ॥
2.5.68 · p. 424
अनुष्टुप्
उगण्डः प्रतिपत्तूर्यं मद्गुः षण् जलवाद्यकम् ।नृत्ये तूर्ध्वाकृते पादे दण्डपादाख्यतण्डवम् ॥ ६९ ॥
2.5.69 · p. 424
अनुष्टुप्
विवाहादौ मङ्गले यद्वाद्यं सा प्रियवाहिका ।मृदङ्गमुखपिष्टस्य लेपे भौमक इत्यपि ॥ ७० ॥
2.5.70 · p. 424
अनुष्टुप्
घण्टामध्यगतं लोहं शङ्कुः पुंसि ललिः स्त्रियाम् ।काहला धूर्त्तपुष्पाभा सच्छिद्रा पत्रकाहला ॥ ७१ ॥
2.5.71 · p. 425
अनुष्टुप्
पिच्छोला स्वरनौकार्था झल्लरी झल्लरिः स्त्रियौ ।झर्झरश्चाथ वेणुस्तु वंशो विवरनालिका ॥ ७२ ॥
2.5.72 · p. 425
अनुष्टुप्
मुरली मुखवाद्ये तु वक्त्रतालः पुमानयम् ।भ्रुभ्रुभ्रभृभ्यः कुंसः स्यान्नटे स्त्रीवेषधारिणि ॥ ७३ ॥
2.5.73 · p. 425
अनुष्टुप्
वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः ।स्याद्वीजदर्शकश्चापि सर्वार्थस्य प्रकाशकः ॥ ७४ ॥
2.5.74 · p. 425
अनुष्टुप्
नान्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपार्श्वकः ।नटोऽस्त्रियां सर्ववेशी लयालम्भोऽथ नर्त्तकी ॥ ७५ ॥
2.5.75 · p. 425
अनुष्टुप्
लासिकाथो वारवाणिः प्रगातैकनटौ समौ ।कथकोऽथासहायः स्यात्तालावचरको नटः ॥ ७६ ॥
2.5.76 · p. 425
अनुष्टुप्
पात्राणि नाट्येऽधिकृतास्तत्र द्वेषस्तु भूमिका ।शैलूषो भरतः सर्ववेशी भरतपुत्रकः ॥ ७७ ॥
2.5.77 · p. 425
अनुष्टुप्
नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः ।केवलः प्लवकश्चाथ भेडश्चाटवटः समौ ॥ ७८ ॥
2.5.78 · p. 425
अनुष्टुप्
वासन्तिकः केलिकिलो वैहासिकविदूषकौ ।प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लविको विटः ॥ ७९ ॥
2.5.79 · p. 425
अनुष्टुप्
क्रोशध्वनिः क्रोशतालो वीक्षापन्नः सविस्मयः ।स्वदोषाच्छादनं म्रक्षोऽस्त्रियां स्यान्मूलकारिका ॥ ८० ॥
2.5.80 · p. 426
अनुष्टुप्
ग्रामीणतोषकं नृत्यं वरमन्वीति कथ्यते ।गणिकानुचरैरज्जुकेति वाच्या नृपेण च ॥ ८१ ॥
2.5.81 · p. 426
अनुष्टुप्
राष्ट्रियो नृपतेः श्यालोऽनूढाभ्राता ह्यपण्डितः ।वर्करः परिहासः स्यादुत्प्रासस्तूपहासगीः ॥ ८२ ॥
2.5.82 · p. 426
अनुष्टुप्
वार्द्धापिकोत्साहिका च क्लीबे वर्द्धापनं हि तत् ।नाट्योक्तौ महिषो मार्ष आर्यो विद्वांश्च भावुकः ॥ ८३ ॥
2.5.83 · p. 426
अनुष्टुप्
राजा भट्टारको देवः कुमारो भर्तृदारकः ।भर्तृदारिका तत्सुता स्याज्ज्येष्ठा भग्न्यन्तिकापि च ॥ ८४ ॥
2.5.84 · p. 426
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आर्त्तिका चान्तिकान्ताम्बा स्यादन्तिश्चाप्यतः पुनः ।देवो देवी भृत्यजनैर्वाच्योऽयमृषिभिर्द्विजैः ॥ ८५ ॥
2.5.85 · p. 426
अनुष्टुप्
वयस्य राजन्निति वा स च वाच्यो विदूषकैः ।कृताभिषेका महिषी देव्यश्चान्या नृपस्त्रियः ॥ ८६ ॥
2.5.86 · p. 426
अनुष्टुप्
भोगिनी त्वपरैरन्या क्षुल्लैर्गोस्वामिनीति सा ।हण्डे हण्डा द्वयं नीचे हञ्जा हञ्जे च चेटिकाम् ॥ ८७ ॥
2.5.87 · p. 426
अनुष्टुप्
प्रति प्रति सखीं चापि हलाऽमून्यव्ययानि च ।भर्ताऽऽर्यपुत्रोऽथापि स्युर्भदन्ताः सौगतादयः ॥ ८८ ॥
2.5.88 · p. 426
अनुष्टुप्
अथ तत्रभवानत्रभवांश्च भगवानपि ।आर्यमिश्रागौरविताः पूज्ये योज्या अमी त्रिषु ॥ ८९ ॥
2.5.89 · p. 427
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गौ (wrong syllable)
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।रौद्रबीभत्सवात्सल्यशान्ता नाट्ये रसा दश ॥ ९० ॥
2.5.90 · p. 427
अनुष्टुप्
एते ज्ञेया अथ पुनः शृङ्गारोऽस्त्र्युज्ज्वलः शुचिः ।कैशिकः श्यामपर्यायः स च ज्ञेयश्चतुर्विधः ॥ ९१ ॥
2.5.91 · p. 427
अनुष्टुप्
संयोगो विप्रयोगश्च मिश्रः सामान्य इत्यपि ।स्थायिसात्त्विकसंचारिभावा अत्र त्रयस्त्रिधा ॥ ९२ ॥
2.5.92 · p. 427
अनुष्टुप्
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥ ९३ ॥
2.5.93 · p. 427
अनुष्टुप्
रागानुरागौ द्वौ तुल्यौ रतिश्चानुरतिः समे ।हसस्तु हासः शूकश्च घर्घरश्च स्त्रियां हसिः ॥ ९४ ॥
2.5.94 · p. 427
अनुष्टुप्
हास्यं षणथ तद्भेदास्तत्रादृष्टरदे स्मितम् ।चक्रौष्ठिका तु ना हासः किञ्चिद्दृष्टरदाङ्कुरे ॥ ९५ ॥
2.5.95 · p. 427
अनुष्टुप्
किञ्चिच्छ्रुते विहसितमट्टहासो महीयसि ।अनुस्यूतेऽट्टट्टहासोऽट्टाट्टहासोऽतिहासकः ॥ ९६ ॥
2.5.96 · p. 427
अनुष्टुप्
अपहासोऽकारणजे हसनं स्फुरदोष्ठके ।सोत्प्रासे ह्याच्छुरितकं क्लिष्टे तूदरपीडनम् ॥ ९७ ॥
2.5.97 · p. 427
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
छलं मिषं च वैदग्धी भङ्गी चेभनिमीलिका ।शोकः खेदः शोचनं षण् शुक् स्त्रियामथ रुट् स्त्रियाम् ॥ ९८ ॥
2.5.98 · p. 428
अनुष्टुप्
रुषा क्रुधा क्रुच्च मन्युः क्रोधः कोपोऽप्यमर्षवत् ।रोषश्च प्रतिघो भामोऽथ स्त्रियां कियदेतिका ॥ ९९ ॥
2.5.99 · p. 428
अनुष्टुप्
प्रौढिः प्रगल्भतायोग उद्योगश्च समावुभौ ।उत्साह उद्यमोऽस्त्री स्यादध्यवसाय इत्यपि ॥ १०० ॥
2.5.100 · p. 428
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
पुंस्यूर्जोतिशये तत्र न ना वीर्यमथ स्त्रियाम् ।भिया भीर्भीतिराशङ्का क्लीबे प्रतिभयं भयम् ॥ १०१ ॥
2.5.101 · p. 428
अनुष्टुप्
दरोऽस्त्रियां साध्वसं च दार उत्त्रास इत्यपि ।त्रासातङ्कौ च भयनं क्लीबे चाथ भयानकम् ॥ १०२ ॥
2.5.102 · p. 428
अनुष्टुप्
भयङ्करं प्रतिभयं भयं भीष्मं भयावहम् ।भीषणं भैरवं घोरमाभीलं डमरं पुनः ॥ १०३ ॥
2.5.103 · p. 428
अनुष्टुप्
बीभत्समपि बीभत्सु विकृतं वैकृतं पुनः ।वैकृत्यं भासुरं चोग्रमेतान्यष्टादश त्रिषु ॥ १०४ ॥
2.5.104 · p. 428
अनुष्टुप्
अनुकम्पा तु करुणा दया चापि कृपा घृणा ।स्त्रियां स्युः पुंस्यनुक्रोशः कारुण्यं न स्त्रियामथ ॥ १०५ ॥
2.5.105 · p. 428
अनुष्टुप्
स्त्रियां जुगुप्सा कुलेच्छा विस्मयः पुंस्यथापि च ।आश्चर्यमद्भुतं चोद्यं चित्रं पुंल्लकमित्यपि ॥ १०६ ॥
2.5.106 · p. 428
अनुष्टुप्
मोहावीक्षं च षडमी त्रिषु स्युरथ पुंस्यमी ।शमः शान्तिः स्त्रियां पुंसि शमथोपशमावपि ॥ १०७ ॥
2.5.107 · p. 429
अनुष्टुप्
स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गश्च वेपथुः ।वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः ॥ १०८ ॥
2.5.108 · p. 429
अनुष्टुप्
स्तम्भो जाड्यं स्वेदघर्मौ निदघः पुलकोऽस्त्रियाम् ।कण्टकोञ्चश्च रोम्णः स्यादुद्गमो हर्ष इत्यपि ॥ १०९ ॥
2.5.109 · p. 429
अनुष्टुप्
उद्धर्षणोल्लुकसने रोमहर्षणमित्यपि ।शिखरं पुंसि च क्लीबे पुलश्चाप्यथ कल्लता ॥ ११० ॥
2.5.110 · p. 429
अनुष्टुप्
स्वरभङ्गोऽथ कम्पस्तु वेपथुः पुंसि न द्वयोः ।वैवर्ण्यं कालिमा चाथ नेत्रार्थाच्चाम्बुरोदने ॥ १११ ॥
2.5.111 · p. 429
अनुष्टुप्
अस्रं चास्त्र्यस्रुबाष्पाश्रूण्यथ स्यात्प्रलयः पुमान् ।नष्टचेतस्त्वमथ च स्त्रियां चिन्ता तु चिन्तिया ॥ ११२ ॥
2.5.112 · p. 429
अनुष्टुप्
आध्या हम्मी हम्मिरपि स्याज्जृम्भी जृम्भिरित्यथ ।स्यात्तन्तिश्चिन्तनं क्लीबेऽथोत्साहोऽध्यवसायकः ॥ ११३ ॥
2.5.113 · p. 429
अनुष्टुप्
अतिशक्तियुते तत्र वीर्यं वीर्या ततः पुनः ।हेवाकोऽध्यवसायित्वं जृम्भस्तु त्रिषु जृम्भणम् ॥ ११४ ॥
2.5.114 · p. 429
अनुष्टुप्
आध्या ध्यानं पुंसि वा स्यादुत्कण्ठोत्कलिके स्त्रियौ ।हृल्लेखा स्याद्रणरणस्तद्वदायल्लकः पुनः ॥ ११५ ॥
2.5.115 · p. 429
अनुष्टुप्
औत्सुक्यं स्यात्पुनः क्लीब औत्कण्ठ्यमपि वा पुनः ।परिहासः केलिमुखः केलिर्देवननर्मणी ॥ ११६ ॥
2.5.116 · p. 430
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
ताम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी ।गोपाली वरकेशान्तिर्यात्रा वरनिमन्त्रणा ॥ ११७ ॥
2.5.117 · p. 430
अनुष्टुप्
स्यादिन्द्राणीमहो हेलिरुलूलुर्मङ्गलध्वनिः ।अथ स्वस्त्ययनं पूर्णकलशो मङ्गलादिकम् ॥ ११८ ॥
2.5.118 · p. 430
अनुष्टुप्
शान्तिकं मङ्गलस्नानं बालपल्लववारिणा ।हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥ ११९ ॥
2.5.119 · p. 430
अनुष्टुप्
तच्छेदे समयभ्रंशो धूलिपृक्ते तु वार्त्तिकम् ।आटोपटोपटंकारावेशा आरभटिः स्त्रियाम् ॥ १२० ॥
2.5.120 · p. 430
अनुष्टुप्