बीजाकृत
bījākṛtaवि · adj.In 9 kośas: 8 synonym verses, 2 as a meaning of another word.
बीजाकृतं तूप्तकृष्टं द्रौणिकाढकिकादयः ।स्युर्द्रोणाढकवापादौ खलधानं पुनः खलम् ॥ ९६९ ॥
अनुष्टुप्
genderक्लीneut.
बीजाकृतं तूप्तकृष्टे सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
मौद्गं भङ्ग्यं च भाङ्गीनं भाङ्गं स्यात्कोद्रवीणकम् ।बीजाकृतं तूप्तकृष्टं सीतं हल्यं हले कृतम् ॥ ३४ ॥
अनुष्टुप्
genderविadj.
तस्मै हितेऽपि यव्यं स्यान्माष्यं तिल्यं च भेद्यवत् ।बीजाकृतं वापितं स्यादुप्तकृष्टं हि यद्भवेत् ।कृष्टं सीत्यं च हल्यं स्याद्द्विसीत्यं तु द्विहल्यवत् ॥ १८ ॥
अनुष्टुप्
genderविadj.
बीजैः समानमाकृष्यमाणक्षेत्रे तु कृष्टितम् ।बीजाकृतं बीजकृतमुत्तप्तं चोप्तकृष्टकम् ॥ ४१८ ॥
अनुष्टुप्
genderक्लीneut.
द्वितीयाकृतं द्विसीत्यं द्विवारं यत्र कर्षणम् ।उप्तकृष्टं बीजाकृतं यत्राद्य वप्य कर्षणम् ॥ १६५४ ॥
metre not recognised
genderक्लीneut.
बीजाकृतमुप्तकृष्टमुभनीतिसमाह्वये ।सीत्यं कृष्टञ्च हल्यञ्च कृष्टभूम्यामिदं त्रयम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderविadj.
त्रिष्कृष्ट एवं द्विष्कृष्टे शंबाकृतमिहाधिकम् ।बीजाकृतं तूप्तकृष्टं प्रहतप्रमुखास्त्रिषु ॥ २३ ॥
अनुष्टुप्
genderविadj.
बीजाकृत as a meaning in nānārtha verses
- धरणिकोश वापितवापितं मुण्डितं प्रोक्तं बीजाकृतं च वापितम् । जृम्भितं करणे स्त्रीणां जृम्भितं स्फुटितेहयोः ॥ Dharaṇikośa 15.2.30
- कोषकल्पतरु वापित[293a]रुदिते क्रन्दितमाहुः प्रोक्षितमुक्तं हते सिक्ते । बीजाकृतमुण्डितयोर्वापितमह्यादिदष्टे तु ॥ ९१ ॥ Koṣakalpataru 6.16.91