यव्य
yavyaक्ली · neut.In 12 kośas: 12 synonym verses, 1 as a nānārtha head word.
भङ्ग्यं भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderक्लीneut.
genderक्लीneut.
तिल्यं तैलीनं स्यान्माष्यं माषीणमुम्यमौमीनम् ।भङ्ग्यं भाङ्गीनं वा यव्यं षष्टिक्यमेषां च ॥ १६३ ॥
आर्या
genderविadj.
यव्यं यवक्यं यावेयं षाष्टिकं व्रैहिकं च तत् ।व्रैहेयमाणवीनं स्यादाणवं शाकशाकटम् ॥ ३२ ॥
अनुष्टुप्
genderविadj.
[126b] अणव्यमाणवीनं च यव्यं स्याच्च यवस्य तत् ।पृथग्यवक्यं षष्टिक्यं मौद्गीनं कौद्रवीणकम् ॥ १७ ॥
अनुष्टुप्
genderविadj.
तस्मै हितेऽपि यव्यं स्यान्माष्यं तिल्यं च भेद्यवत् ।बीजाकृतं वापितं स्यादुप्तकृष्टं हि यद्भवेत् ।कृष्टं सीत्यं च हल्यं स्याद्द्विसीत्यं तु द्विहल्यवत् ॥ १८ ॥
अनुष्टुप्
genderविadj.
क्षेत्राजीवे कर्षकः स्यात्कृषिकश्च कृषीवलः ।व्रैहेयं व्रीहिनं यव्यं यवक्यं यावनं तथा ॥ ४१४ ॥
अनुष्टुप्
genderक्लीneut.
औमीनं चोक्तमुम्यं वै क्षुमायाः क्षेत्रकं भुवि ।यवक्यं चैव यव्यं तत् क्षेत्रं यवस्य मन्यते ॥ १६५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
genderक्लीneut.
शाल्युद्भवोचितं यत्तु शालेयमभिधीयते ।यव्यं यवोचितं क्षेत्रं यवक्यं यवकोचितम् ॥
अनुष्टुप्
genderविadj.
औमीनं च यवक्षेत्रे यव्यं यवक्यं यावकम् ।माषाक्षेत्रे तु माषीणं माष्यं च, तृतीयाकृते ॥ २१ ॥
metre not recognised
genderक्लीneut.
यवयवकषष्टिकानां भवने यव्यं यवक्यषष्ठिक्ये ।क्षेत्रे तु तिलमाषोमाभङ्गाणुभवने क्रमात् ॥ १४०७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मौद्गीनकौद्रवीणाद्याः क्षेत्रे मुद्गादिसंभवे ।यव्यव्रैहेयशालेयषष्टिक्याः सयवक्यकाः ॥ १९ ॥
अनुष्टुप्
genderविadj.