कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भाविन्

bhāvinपुं · masc.

In 5 kośas: 1 synonym verse, 8 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.3 · p. 39
भूतो व्यतीतः स इहाव्ययं प्राक्पुमान्भवन्तिः स च वर्त्तमानः ।तत्कालके त्वेकपदं तदात्वंभावी च भूष्णुर्गदिताऽयतिः स्त्री ॥ ३ ॥
उपजातिः
genderपुंmasc.

भाविन् as a meaning in nānārtha verses

  • धरणिकोश भव्यभव्यं श्रेयसि योग्ये च भव्यं भाविनि सुन्दरे । मध्यं न्यायेऽवकाशे च लग्नके चावलग्नके ॥ Dharaṇikośa 25.2.13
  • धरणिकोश पुरापुरात्यर्थे पुराणे च प्रबन्धातीतभाविषु । उरर्युरुरी चोरी च विस्तारेऽङ्गीकृतौ त्रयम् ॥ Dharaṇikośa 34.16.3
  • कोषकल्पतरु भव्यभव्यं तु सत्ये कुशलेऽन्यवत्तु योग्ये तथा भाविनि संप्रदिष्टम् । पुमांश्च नारङ्गतरौ स्त्रियां तु भवेद्भवान्यां च गजाह्वयायाम् ॥ ३६ ॥ Koṣakalpataru 6.26.36
  • नानार्थार्णवसंक्षेप भविष्यत्स्त्रियामथ भविष्यत् त्रिर्भाविनि क्ली तु वारिणि । भारतं त्वस्त्रियामस्मिन् वर्षेऽथो भरतस्य हि ॥ १२८६ ॥ Nānārthārṇavasaṃkṣepa 4.1286
  • शब्दरत्नावली द्रव्यभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
  • शब्दरत्नावली भव्यभयं घोरे प्रतिभये कुसुमे कुब्जकस्य च । भव्यं त्रिषु भाविनि स्याद् योग्ये च शुभसत्ययोः ॥ Śabdaratnāvalī 7.26.20
  • शब्दरत्नावली पुराआलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥ प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ Śabdaratnāvalī 8.1.53
  • वैजयन्ती भव्यबालो मूर्खे शिशौ भव्यो भावी योग्यः शुभोऽपि च । मिश्रेऽपि भिन्नं म्लिष्टं तु म्लानाविस्पष्टवाक्ययोः ॥ ११ ॥ Vaijayantī 6.4.11