कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (11/18)

स्त्रीपुंसयोश्च दम्पत्योः परैरसहने भवेत् ।सला(पस्तु?पे च) द्वयोस्तु स्याज्जलजन्तावथ त्रिषु ॥ १२०१ ॥
4.1201 · p. 152
अनुष्टुप्metre not read in every line
पुटितं पाटिते स्यूते क्ली तु वस्तिपुटे त्रि तु ।पुष्पवत् स्यात् सकुसुमे स्त्री तु पुष्पवती भवेत् ॥ १२०२ ॥
4.1202 · p. 152
अनुष्टुप्
रजस्वलायां क्लीबं तु पूरणं पूर्तिकर्मणि ।अना तु पूरयत्यर्थे पूरणा स्त्री तु पूरणी ॥ १२०३ ॥
4.1203 · p. 152
अनुष्टुप्
पुनर्नवाजातिभेदे स्वल्पेऽथो शल्मलावपि ।पुनर्नवायां तु पुमान् पूरणः पूर्यते पुनः ॥ १२०४ ॥
4.1204 · p. 152
अनुष्टुप्
येन त्रि तत्र ना तु स्यात् कलायाह्वयधान्यके ।पूरकोऽपूपभेदे तु पूरिका स्त्री त्रिषु त्वदः ॥ १२०५ ॥
4.1205 · p. 152
अनुष्टुप्
स्यात् पूरयितृपूरित्रोः पूत्यण्डस्तु द्वयोरयम् ।क्षुद्रपक्षिविशेषे स्यादण्डकारकसंज्ञके ॥ १२०६ ॥
4.1206 · p. 153
अनुष्टुप्
गन्धकीटे तु रभसः कथयत्यथ पूर्णिका ।स्त्री पौर्णमास्यां स्यात् पक्षिजातिभेदेऽप्यथ त्रिषु ॥ १२०७ ॥
4.1207 · p. 153
अनुष्टुप्
परिपूर्णसुखादौ स्याद् बिन्दौ तु पृषतः पुमान् ।देहवैकृतभेदे च पृश्निसंज्ञे त्रिषु त्वमुम् ॥ १२०८ ॥
4.1208 · p. 153
अनुष्टुप्
श्वेतबिन्दुयुते प्राह रभसोऽथ द्वयोरयम् ।मृगभेदे तस्य चोक्तं लक्षणं प्रकृतं मृगे ॥ १२०९ ॥
4.1209 · p. 153
अनुष्टुप्
ताम्रस्तु हरिणः प्रोक्त इत्युक्त्वा हरिणः ततः ।शम्बरस्त्वल्पहरिणः पृषतस्तु स बिन्दुमान् ॥ १२१० ॥
4.1210 · p. 153
अनुष्टुप्
इत्येव पृथुकस्तु स्यात् पुमांश्चिपिटसंज्ञके ।भक्षभेदे द्वे तु बाले पृदाकुस्तु पुमानयम् ॥ १२११ ॥
4.1211 · p. 153
अनुष्टुप्
ऋषिभेदे गोत्रकृति द्वे तु वृश्चिकसर्पयोः ।पेचको ना हस्तिपुच्छमूलोपान्ते द्वयोः पुनः । ॥ १२१२ ॥
4.1212 · p. 153
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 गो (wrong syllable)
उलूके पेचिका तु स्त्री पिङ्गलासंज्ञपक्षिणि ।पेटकस्तु द्वयोर्वृन्दे पिटके तु पुमानयम् ॥ १२१३ ॥
4.1213 · p. 153
अनुष्टुप्
पेलवं तु त्रिषु मृदौ मरिचे तु नपुंसकम् ।प्रेरित्वा तु समुद्रे ना स्त्री तु प्रेरित्वरी पुरि ॥ १२१४ ॥
4.1214 · p. 153
अनुष्टुप्
पोगण्डस्तु द्वयोर्यूनि विकलाङ्गे तु भेद्यवत् ।प्रोक्षण्यस्तु स्त्रियोः यज्ञकारिणामप्सु कासुचित् ॥ १२१५ ॥
4.1215 · p. 153
अनुष्टुप्
प्रोक्षणं तु वधे यज्ञपशोरभ्युक्षणेऽम्भसा ।पौरुषं तु नपि प्रोक्तं पुंसः स्याद्भावकर्मणोः ॥ १२१६ ॥
4.1216 · p. 153
अनुष्टुप्
शौर्ये रेतसि च त्रिस्तु पुंसः सम्बन्धिवस्तुषु ।ऊर्ध्वविस्तृतदोःपाणिनृमानेऽथ नृलिङ्गकः ॥ १२१७ ॥
4.1217 · p. 153
अनुष्टुप्
स्याद्रावणे वैश्रवणे पौलस्त्योऽयं द्वयोः पुनः ।पुलस्त्यवंश्ये विज्ञेयः क्ली तु युद्धेऽप्यथास्त्रियाम् ॥ १२१८ ॥
4.1218 · p. 154
अनुष्टुप्
काष्ठासने स्यात् फलकं शस्त्राणां च निवारणे ।खेटकाख्येऽथ फलकी मत्स्यजात्यन्तरे स्त्रियाम् ॥ १२१९ ॥
4.1219 · p. 154
अनुष्टुप्
भवेच्चित्रफलीसंज्ञे तथा स्याच्चन्दनेऽपि च ।क्षुमासंज्ञे तु ना धान्ये फल्गुनी तु स्त्रियामियम् ॥ १२२० ॥
4.1220 · p. 154
अनुष्टुप्
भगदैवतनक्षत्रे तथैवार्यमदैवते ।ताभ्यां युक्ते कालमाने जाते त्वत्र त्रि फल्गुनः ॥ १२२१ ॥
4.1221 · p. 154
अनुष्टुप्
स्त्र्यर्थे वृत्तिर्यदा तत्र तदा स्यात् फल्गुनी स्त्रियाम् ।फल्गुनस्तु पुमानेव ज्ञेयो मध्यमपाण्डवे ॥ १२२२ ॥
4.1222 · p. 154
अनुष्टुप्
फक्किका तु स्त्रियामेकग्रन्थे गौरे च सर्षपे ।त्रिस्तु फक्कितरि त्रिस्तु फलकी चर्मपाणिके ॥ १२२३ ॥
4.1223 · p. 154
अनुष्टुप्
स्त्री त्वजायां फलकिनी पौर्णमास्यां तु फाल्गुनी ।फल्गुन्या संयुतायां स्त्री सा तु मासेऽस्ति यत्र हि ॥ १२२४ ॥
4.1224 · p. 154
अनुष्टुप्
तत्र ना फाल्गुनः क्ली तु तृणजात्यन्तरेऽथ नप् ।फाणितं गौडविकृतिभेदेऽथ क्वाथिते त्रिषु ॥ १२२५ ॥
4.1225 · p. 154
अनुष्टुप्
फेनिलस्तु पुमान् वृक्षविशेषेऽरिष्टसंज्ञके ।त्रिस्तु फेनवति क्ली तु विज्ञेयं बदरीफले ॥ १२२६ ॥
4.1226 · p. 154
अनुष्टुप्
बन्धुरस्तु द्वयोर्हंसे त्रिस्तु सुन्दरनम्रयोः ।उन्नतानत इत्यन्ये रभसस्त्वस्त्रिया(मि?म)यम् ॥ १२२७ ॥
4.1227 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बन्धूके पक्षिभेदे चेत्यथ बन्धूर इत्यमुम् ।एष्वेवार्थेषु रभसस्तत्तल्लिङ्गमवोचत ॥ १२२८ ॥
4.1228 · p. 154
अनुष्टुप्
बहुलस्तु पुमानग्नौ कृष्णपक्षे च नीपके ।त्रिस्तु कृष्णे प्रभूते च कृत्तिकाकालजातके ॥ १२२९ ॥
4.1229 · p. 154
अनुष्टुप्
स्त्रियां तु बहुला भूभ्यामेलायां सुरभावपि ।श्वेतायां चाथ रोदस्यौ द्विवचो बहुले इति ॥ १२३० ॥
4.1230 · p. 155
अनुष्टुप्
स्त्रीभूम्नि कृत्तिकासु स्याद् बर्हिणं तु नपुंसकम् ।ज्ञेयं भारतवर्षस्थद्वीपभेदे द्वयोः पुनः ॥ १२३१ ॥
4.1231 · p. 155
अनुष्टुप्
मयूरे बर्हवति तु भेद्यवद्बदरी पुनः ।अजगन्धाह्वयस्तम्वे कुवलीसंज्ञपादपे ॥ १२३२ ॥
4.1232 · p. 155
अनुष्टुप्
ईश्वरस्थानभेदे च स्त्रियां स्याद्बदरा पुनः ।विष्वक्सेनप्रियासंज्ञस्थावरे परिकीर्तिता ॥ १२३३ ॥
4.1233 · p. 155
अनुष्टुप्
कार्पासीति प्रसिद्धे च गुल्मे स्याद्बदरं तु न ।एषा स्यात् प्रसवेऽथ स्यान्म्लेच्छजात्यन्तरे द्वयोः ॥ १२३४ ॥
4.1234 · p. 155
अनुष्टुप्
बर्बरो बर्बरा तु स्त्री स्तम्बे यम्याह्वयान्तरम् ।अजगन्धेति ना तु स्याद् भार्ङ्गिसञ्ज्ञकभेषजे ॥ १२३५ ॥
4.1235 · p. 155
अनुष्टुप्
बन्धूकस्तु पुमान् बन्धुजीवाख्ये पुष्पगुल्मके ।रभसस्त्वसनाभिख्यपादपेऽप्यपठीदिदम् ॥ १२३६ ॥
4.1236 · p. 155
अनुष्टुप्
प्रसवे त्वनयोरेतन्नब्लिङ्गमवधारयेत् ।पशुबन्धनरज्जौ तु बन्धनी स्त्री नपि त्वदः ॥ १२३७ ॥
4.1237 · p. 155
अनुष्टुप्
बन्धनं स्यात् संयमने त्रि तु बन्धस्य साधने ।बन्धे तु रभसः प्राह बन्धकी तु स्त्रियामियम् ॥ १२३८ ॥
4.1238 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
कुलटायां तथानाप्तसत्कृतिर्वेशगामिनी ।अर्थाय या स्त्री तस्यां च करिण्यां चाह शब्दवित् ॥ १२३९ ॥
4.1239 · p. 155
अनुष्टुप्
निघण्टुकारो रभसो बन्धरि त्वेष भेद्यवत् ।आधौ तु बन्धकं क्लीबे बलूरस्तूपले पुमान् ॥ १२४० ॥
4.1240 · p. 155
अनुष्टुप्
स्तने च द्वे तु मत्स्येऽथ बहिष्ठं स्यान्नपुंसकम् ।ह्रीबेरे त्रिस्तु महति काके तु बलिभुग्द्वयोः ॥ १२४१ ॥
4.1241 · p. 155
अनुष्टुप्
बलेस्तु भोक्तरि त्रि स्याद् विप्रे तु ब्राह्मणो द्वयोः ।आत्मज्ञे च नपि त्वेतद् वेदभागेऽभिधायके ॥ १२४२ ॥
4.1242 · p. 156
अनुष्टुप्
तस्यावयवभेदे च भार्ङ्ग्यां तु ब्राह्मणी स्त्रियाम् ।हरेणुस्पृक्कयोश्चापि ब्रह्मरीत्याख्यलोहके ॥ १२४३ ॥
4.1243 · p. 156
अनुष्टुप्
पिपीलिकाजातिभेदे पिङ्गे महति किञ्च ताम् ।विद्यादञ्जनिकासंज्ञजन्तोर्जात्यन्तरेऽपि च ॥ १२४४ ॥
4.1244 · p. 156
अनुष्टुप्
रक्तपुच्छे बाभ्रवं तु बभ्रुसम्बन्धिनि त्रिषु ।बभ्रोस्तु वश्ये द्वे स्त्री तु पार्वत्यां बाभ्रवी म्मृता ॥ १२४५ ॥
4.1245 · p. 156
अनुष्टुप्
अथात्र रभसेनोक्ता न स्त्री दृक्कर्णयोर्मले ।गणिस्थराजे(?) पुल्लिङ्ग इत्येवं बहुवेदिना ॥ १२४६ ॥
4.1246 · p. 156
अनुष्टुप्
बाहुदा तु नदीभेदे स्त्री त्रिषु त्वेष दातरि ।बाहोर्बहुप्रदस्यापि सम्बन्धिन्यत्र तु स्मरेत् ॥ १२४७ ॥
4.1247 · p. 156
अनुष्टुप्
स्त्र्यर्थे वृत्तिर्यदा रूपं बाहुदीति तदा भवेत् ।बाहुजस्तु द्वयोः कीरे क्षत्त्रिये च पुमान् पुनः ॥ १२४८ ॥
4.1248 · p. 156
अनुष्टुप्
स्वयञ्जाततिले बाहुसम्भवे त्वभिधेयवत् ।बाह्लीकं तु नपि प्रोक्तं हिङ्गुकुङ्कुमयोस्तथा ॥ १२४९ ॥
4.1249 · p. 156
अनुष्टुप्
कश्चित् त्वाह कुसुम्भेऽपि पुम्भूमनि तु बोधत ।नीवृद्भेदेऽथ तद्देशजातजन्तुषु स द्वयोः ॥ १२५० ॥
4.1250 · p. 156
अनुष्टुप्
विशेषात् त्वाह तद्देशजातेष्वश्वेषु कश्चन ।अथानेन समानार्थस्तुल्यलिङ्गश्च बाह्लिकः ॥ १२५१ ॥
4.1251 · p. 156
अनुष्टुप्
बार्द्दरस्तु पुमान मेलानन्दायां दिवसे(पि?तु) नप् ।बालकस्तु पुमान् कृष्णशालौ त्रिस्त्वतिबालिशे ॥ १२५२ ॥
4.1252 · p. 156
अनुष्टुप्metre not read in every line
बालेयोः गर्दभे द्वे स्याद् दैत्ये चाथ खले त्रिषु ।मृदौ बलिहिते चेति रभसेन समीरितम् ॥ १२५३ ॥
4.1253 · p. 157
अनुष्टुप्
बाहुलस्तु पुमान् मासि कार्त्तिकेऽथ नपुंसकम् ।बाहुत्राणकयन्त्रे हि योधानां भेद्यवत् पुनः ॥ १२५४ ॥
4.1254 · p. 157
अनुष्टुप्
भवेद्बहुलसम्बन्धिन्यथ क्ली बार्हतं फले ।बृहत्यां बृहतीसंज्ञच्छन्दस्यप्यथ भेद्यवत् ॥ १२५५ ॥
4.1255 · p. 157
अनुष्टुप्
बृहत्या बृहतश्चापि सम्बन्धिन्यथ बान्धवः ।द्वे बन्धौ त्रि तु बन्धोः स्यात् सम्बन्धिन्यथ न स्त्रियाम् ॥ १२५६ ॥
4.1256 · p. 157
अनुष्टुप्
बिदलः पाटिते काष्ठे परे वेणुदले विदुः ।द्विधाकृते तु मुद्गादौ कश्चिदाचष्ट ना पुनः ॥ १२५७ ॥
4.1257 · p. 157
अनुष्टुप्
बीभत्सः कथितः पार्थे नाट्यस्थे च रसान्तरे ।तद्वदर्थे पुनस्त्रि स्यात् क्रूरे चाथ स्त्रियामियम् ॥ १२५८ ॥
4.1258 · p. 157
अनुष्टुप्
बीभत्सा स्याज्जुगुप्सायां बुक्कणस्तु शुनि द्वयोः ।वावदूके पुनस्त्रि स्यादथ स्याद्बुद्धिमान् द्वयोः ॥ १२५९ ॥
4.1259 · p. 157
अनुष्टुप्
धूम्याटाख्यस्य शकुने दे यस्याह्वयान्तरम् ।राजभृङ्ग इति त्रिस्तु बुद्धियुक्तेऽथ नप्यदः ॥ १२६० ॥
4.1260 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बृहत्कं सामभेदे स्यादागन्तेत्यृचि गीयते ।यत् साम तस्मिन्ना तु स्यान्मणिभेदेऽस्य लक्षणम् ॥ १२६१ ॥
4.1261 · p. 157
अनुष्टुप्
अत्र भर्तृहरेः श्लोकं ब्रुवते पूर्वसूरयः ।प्रविकासिप्रभोऽल्पोऽपि महान् य उपलक्ष्यते ॥ १२६२ ॥
4.1262 · p. 157
अनुष्टुप्
बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ।इत्येवमथ नब्लिङ्गं बृञ्चूकं स्याज्जले द्वयोः ॥ १२६३ ॥
4.1263 · p. 157
अनुष्टुप्
मातृवाहकसंज्ञे स्याज्जन्तौ सद्योङ्कुरे पुनः ।बैजिको ना शिग्रुतैलहेत्वोस्तु रभसो नपि ॥ १२६४ ॥
4.1264 · p. 157
अनुष्टुप्
बैजिकादभिसम्बन्धा(दिनि?) बीजनिमित्तके ।प्रयोगस्तत्र भेद्यस्य लिङ्गं भवनवाक् तु नप् ॥ १२६५ ॥
4.1265 · p. 158
अनुष्टुप्metre not read in every line
उत्पत्तौ च गृहे चान्ये पुनः पुंस्यपि मन्वते ।द्वयोस्तु स्याच्छुनि शुनि पुनर्द्वे भषणोऽथ नप् ॥ १२६६ ॥
4.1266 · p. 158
अनुष्टुप्
बुक्कनाख्यक्रियायां स्याद् भरणं तु नपुंसकम् ।वेतने धारणे चैव पोषणे भर्त्सनेऽपि च ॥ १२६७ ॥
4.1267 · p. 158
अनुष्टुप्
क्रयादेर्भृणातेः स्यात् स्त्री तु नक्षत्रे यमदैवते ।भरणी भूम्नि च प्राहुरन्येऽथो भल्लको द्वयोः ॥ १२६८ ॥
4.1268 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वानरेऽप्यृक्षसंज्ञे च मृगेऽथर्क्षमृगे द्वयोः ।भल्लूको ना पुनष्टुण्डुसंज्ञवृक्षेऽथ नप्स्त्रियोः ॥ १२६९ ॥
4.1269 · p. 158
अनुष्टुप्
भक्षणाभ्यवहारे स्त्री पुनर्धान्ये हि भक्षणी ।गवीथुकासमाख्येऽथ भविलं क्ली गृहेऽथ ना ॥ १२७० ॥
4.1270 · p. 158
अनुष्टुप्
मुनिप्रभेदे भव्ये तु त्रिरथो भटिलो द्वयोः ।शुनि स्यात् सेवके तु त्रिर्भण्डिलस्तु शुनि द्वयोः ॥ १२७१ ॥
4.1271 · p. 158
अनुष्टुप्
पुत्रे चाथ पुमान् वृक्षे शिरीषाख्येऽथ भञ्जनम् ।आमर्दने क्लीबलिङ्गं जानीयाद्भञ्जना त्वना ॥ १२७२ ॥
4.1272 · p. 158
अनुष्टुप्
अर्थे भञ्जयतेः स्त्री तु विवृत्य वचने भवेत् ।भञ्जना भरुजस्तु द्वे सृगाले पुंस्त्रियोः पुनः ॥ १२७३ ॥
4.1273 · p. 158
अनुष्टुप्
भक्षभेदे स्नेहमृष्टतण्डुले तत्र च स्त्रियाम् ।यदा वृत्तिस्तदा रूपं भरुजी भरुजेति च ॥ १२७४ ॥
4.1274 · p. 158
अनुष्टुप्
भ्रमकस्तु द्वयोः क्रोष्टौ सूर्यावर्ते तु पुंस्ययम् ।अयस्कान्तविशेषे च लोहभ्रमणकारिणि ॥ १२७५ ॥
4.1275 · p. 158
अनुष्टुप्
रभसस्त्वेषु वाच्येषु दीर्धादि भ्रामकं जगौ ।शब्दस्मृतिविरुद्धत्वात् तदस्माभिरुपेक्षितम् ॥ १२७६ ॥
4.1276 · p. 159
अनुष्टुप्
भ्रमणं तु नपि प्रान्तौ स्त्रीनपुंसकयोः पुनः ।भ्रमणा भ्राम्यतेर्हेतुव्यापारेऽथ स्त्रियामियम् ॥ १२७७ ॥
4.1277 · p. 159
अनुष्टुप्
कारुण्डिकायां भ्रमणी क्रियाद्यायामधीशितुः ।भ्रमरस्तु द्वयोर्भृङ्गे कामुके त्यभिधेयवत् ॥ १२७८ ॥
4.1278 · p. 159
अनुष्टुप्
भटालं तु कपोले क्ली भेद्यलिङ्गं तु सेवके ।भल्लाटस्तु द्वयोरृक्षमृगेऽथो वास्तुवासिनाम् ॥ १२७९ ॥
4.1279 · p. 159
अनुष्टुप्
देवानां स्यादन्यतमे स च ज्ञातव्य ईदृशः ।उदक्पार्श्वस्थकोष्ठानां प्रत्यगारभ्य योः भवेत् ॥ १२८० ॥
4.1280 · p. 159
अनुष्टुप्
कोष्ठश्चतुर्थस्तत्रासौ तिष्ठतीत्यथ भेद्यवत् ।भण्डीरो योद्धरि स्त्री तु शाकवल्ल्यन्तरे भवेत् ॥ १२८१ ॥
4.1281 · p. 159
अनुष्टुप्
मण्डूकपर्णीसंज्ञे हि भण्डारी पुंसि तु स्मृतः ।शाक्यक्षपणकानां स्याद् भदन्तः पूजनीयके ॥ १२८२ ॥
4.1282 · p. 159
अनुष्टुप्
सर्वसंन्यासिनि त्वाह हर्षनन्दी स सूक्ष्मदृक् ।ताराभदन्तयुक्ते तु त्रिर्भवन्तस्तु ना पुनः ॥ १२८३ ॥
4.1283 · p. 159
अनुष्टुप्
काले भवितरि त्वेष त्रिस्तत्रापि यदा स्त्रियाम् ।तदा भवन्ती भरुटः पुनर्द्वे कुम्भकारके ॥ १२८४ ॥
4.1284 · p. 159
अनुष्टुप्
कपर्दे तु पुमान्ना तु भगवान् हरशार्ङ्गिणो ।बुद्धे च त्रि तु पूज्येऽथ पार्वत्यां भगवत्यसौ ॥ १२८५ ॥
4.1285 · p. 159
अनुष्टुप्
स्त्रियामथ भविष्यत् त्रिर्भाविनि क्ली तु वारिणि ।भारतं त्वस्त्रियामस्मिन् वर्षेऽथो भरतस्य हि ॥ १२८६ ॥
4.1286 · p. 159
अनुष्टुप्
सम्बन्धिनि त्रिषु स्त्री तु सरस्वत्या हि भारती ।रभसस्त्वाह पक्षिण्यामित्यर्थस्तत्र चिन्त्यताम् ॥ १२८७ ॥
4.1287 · p. 159
अनुष्टुप्
तुलसीनाम्नि च स्तम्बे नाट्यवृत्त्यन्तरेऽप्यथ ।क्ली महाभारते ना तु भार्गवो गजधन्विनोः ॥ १२८८ ॥
4.1288 · p. 160
अनुष्टुप्
शुक्रे परशुरामे च भार्गवी तु स्त्रियामियम् ।हरिप्रियायां दूर्वायां पार्वत्यां चाथ भाषणम् ॥ १२८९ ॥
4.1289 · p. 160
अनुष्टुप्
वचने नबुपालम्भवाचि तु स्त्री हि भाषणी ।भालाङ्कस्तु शिवे शाकभेदेऽपि करपत्रके ॥ १२९० ॥
4.1290 · p. 160
अनुष्टुप्
महालक्षणसम्पन्नपुरुषे रोहिते च ना ।कच्छपे तु द्वयोस्त्रिस्तु रोहिते गुणिनि स्मृतः ॥ १२९१ ॥
4.1291 · p. 160
अनुष्टुप्
भावाटस्तु त्रिषु ज्ञेयो भावके कामुकेऽपि च ।ना तु साधुनिवेशे स्याद् रभसेनेदमीरितम् ॥ १२९२ ॥
4.1292 · p. 160
अनुष्टुप्
भारद्वाजी तु वन्यायां कार्पास्यां स्त्री पुमान् पुनः ।भारद्वाजो द्रोणाचार्ये द्वे भरद्वाजवंशजे ॥ १२९३ ॥
4.1293 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रो (wrong syllable)
भारुण्डस्तु नपि ज्ञेयः सामभेदेषु केषुचित् ।एकोदरपृथग्ग्रीवे त्वब्धिचारिणि पक्षिणि ॥ १२९४ ॥
4.1294 · p. 160
अनुष्टुप्
द्वयोः स्याद्भावना तु स्त्रीनपोरुत्पादने तथा ।गन्धाधिवासनायां च भाट्टास्तु प्रतिजानते ॥ १२९५ ॥
4.1295 · p. 160
अनुष्टुप्
प्रवर्तनायां भावज्ञः पुनस्त्रीर्भाववेदिनि ।प्रियङ्गुसंज्ञवृक्षे तु भावज्ञा स्त्री द्वयोः पुनः ॥ १२९६ ॥
4.1296 · p. 160
अनुष्टुप्
भ्रातृव्यो भ्रातृपुत्रे ना पुनः शत्रौ नपि त्वदः ।भ्रामरं भ्रमरैर्ज्ञेयं कृते मधुनि सा पुनः ॥ १२९७ ॥
4.1297 · p. 160
अनुष्टुप्
पार्वत्यां भ्रामरी स्त्री(तु?स्याद्) व(स्त्रे?जे) तु भिदकं नपि ।परशौ तु पुमान् स्त्री तु भेदके भिदुरं तु नप् ॥ १२९८ ॥
4.1298 · p. 160
अनुष्टुप्metre not read in every line
कुलिशे भेद्यवत् तु स्याद् भेत्तर्यपि भिदेलिमे ।भीषणं तु त्रिषु ज्ञेयं भीमे स्त्रीशण्डयोः पुनः ॥ १२९९ ॥
4.1299 · p. 161
अनुष्टुप्
भीषणा भाषनायां स्यात् स्त्री तु स्यात् सल्लकीरसे ।कवाटे चेति रभसो भुवने तु नपुंसकम् ॥ १३०० ॥
4.1300 · p. 161
अनुष्टुप्
पुंस्यप्येके विदुर्लोके क्लीबमेव जले विदुः ।भुजिष्यस्तु द्वयोर्दासे वने तु स क्ली पुमान् पुनः ॥ १३०१ ॥
4.1301 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आचार्यऽप्योदने चापि रभसो हस्तसूत्रके ।त्रिस्तु भोक्तरि विज्ञेयमनधीनसहाययोः ॥ १३०२ ॥
4.1302 · p. 161
अनुष्टुप्
भुजङ्गस्तु विटे पुंसि तथैवान्यतमे भवेत् ।चण्डवृष्टिप्रयातादिदण्डकानां द्वयोस्त्वहो ॥ १३०३ ॥
4.1303 · p. 161
अनुष्टुप्
भुलिङ्गस्त्वृषिभेदे ना नीवृद्भेदे तु भूम्नि च ।स्यात् साल्वावयवे द्वे तु पक्षिजात्यन्तरेऽय ना ॥ १३०४ ॥
4.1304 · p. 161
अनुष्टुप्
भुरण्यो भास्करे विष्णौ वह्नौ क्षिप्रे पुनस्त्रिषु ।भूमिजस्तु पुमान् दैत्यभेदे नरकसंज्ञके ॥ १३०५ ॥
4.1305 · p. 161
अनुष्टुप्
अङ्गारके च स्त्री तु स्यात् सीतायां भूमिजाथ तत् ।यत्किञ्चिद्भूमिसम्भूतं तत्र स्याद्भेद्यलिङ्गकम् ॥ १३०६ ॥
4.1306 · p. 161
अनुष्टुप्
अस्त्री त्वाभरणे ज्ञेयं भूषणं भूषणा त्वना ।अलङ्कृतावथ स्त्री स्याच्चतुर्दश्यां तिथौ तथा ॥ १३०७ ॥
4.1307 · p. 161
अनुष्टुप्
भूतेष्टा वाञ्छिते तु त्रिर्भूतानामथ सा स्त्रियाम् ।तीक्ष्णार्जकाख्यस्तम्बे स्याद् भूतघ्नी त्रिस्तु हन्तरि ॥ १३०८ ॥
4.1308 · p. 161
अनुष्टुप्
भूतानाममनुष्येऽथ भूमिस्पृग्वैश्यमर्त्ययोः ।द्वयोःप् --- तु त्रि स्याद्भूमेरथ नृलिङ्गकः ॥ १३०९ ॥
4.1309 · p. 162
अनुष्टुप्metre not read in every line
भृङ्गारः कनकाल्यां स्याद् भृङ्गारी तु स्त्रियामियम् ।-ल्लिकासंज्ञके कीटे चक्रे तु भृमलं नपि ॥ १३१० ॥
4.1310 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ना तु वा- द्वयोस्तु स्यात् कृमिजात्यन्तरेऽथ नप् ।भेषजं स्यात् सुखे तोये ह्योषधे तु हि भेषजी ॥ १३११ ॥
4.1311 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्त्रीनपोर्भेरवं तु -(-?र्मी)मे स्याद्भैरवी पुनः ।सतानामापे मातृणामेकं या मातरि स्मृता ॥ १३१२ ॥
4.1312 · p. 162
metre not recognised
भोजनं तु धने भुक्तौ क्लीबं स्याद्भोजना पुनः ।नप्स्त्रियोर्भोजयत्यर्थे भोगवत् तु त्रिषु स्मृतम् ॥ १३१३ ॥
4.1313 · p. 162
अनुष्टुप्
भोगयुक्ते द्वयोः तु स्याद् भुजगे भोगवानथ ।नद्यां नगर्यां नागानामियं भोगवती स्त्रियाम् ॥ १३१४ ॥
4.1314 · p. 162
अनुष्टुप्
वैजयन्ती तु पातालगङ्गायामित्यभाषत ।भौरिकः कनकाध्यक्षे त्रि पुम्भूम्नि तु भौरिका ॥ १३१५ ॥
4.1315 · p. 162
अनुष्टुप्
प्राग्देशावस्थिते नीवृद्भेदे समतटाह्वये ।अथ मङ्गलमस्त्री स्यात् कल्याणे त्रि तु तद्वति ॥ १३१६ ॥
4.1316 · p. 162
अनुष्टुप्
मल्लिकागाधसदृशगन्धयुक्ते च वस्तुनि ।मङ्गला सितदूर्वायां स्त्रियां रभस उक्तवान् ॥ १३१७ ॥
4.1317 · p. 162
अनुष्टुप्
क्लीबं तु मल्लिकापुष्पगन्धे लब्धार्थरक्षणे ।पुमांस्त्वङ्गारके ग्रामवास्तुभेदे च केचन ॥ १३१८ ॥
4.1318 · p. 162
अनुष्टुप्
मङ्गल्यं तु निमित्ते स्यान्मङ्गलस्याभिधेयवत् ।मल्लिकापुष्पगन्धेन युक्ते वस्तुनि चाथ नप् ॥ १३१९ ॥
4.1319 · p. 162
अनुष्टुप्
ज्ञेयं सर्वौषधिस्नाने दध्नि चाथ नृलिङ्गकः ।बिल्वे मसूरसंज्ञे च धान्ये स्याद्रभसः पुनः ॥ १३२० ॥
4.1320 · p. 162
अनुष्टुप्