कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

अव्ययवर्गः · रान्ताः

॥ रपादः ॥

[प्र] प्रकर्षे गताद्यर्थे स्वः स्वर्गपरलोकयोः ।दुः कष्टे तु निषेधे [च] पुनरप्रथममेदयोः ॥
34.16.1 · p. 241
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 पुन (syllable split)

॥ रार्धश्लोकः ॥

निर्निश्चये[113] क्रान्ताद्यर्थे निर्निःशेषनिषेधयोः ।परि स्यात्सर्वतोभावे वर्जने लक्षणादिषु ॥
34.16.2 · p. 241
अनुष्टुप्
पुरात्यर्थे पुराणे च प्रबन्धातीतभाविषु ।उरर्युरुरी चोरी च विस्तारेऽङ्गीकृतौ त्रयम् ॥
34.16.3 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable)
अन्तर्मध्ये तथा प्रान्ते स्वीकारे च प्रयुज्यते ।प्रादुः स्यात्प्रकटीभावः प्रादुः सत्तार्थवाचकः ॥
34.16.4 · p. 242
अनुष्टुप्