द्रव्य
dravyaक्ली · neut.In 18 kośas: 15 synonym verses, 9 as a nānārtha head word, 27 as a meaning of another word.
वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ ॥द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।हिरण्यार्थौ निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
metre not recognised
genderक्लीneut.
प्रथमंतनुश्च मूर्त्तिराद्यं देहशरीरकम् ।द्रविणं धनं द्वितीयं च द्रव्यं चसमर्थं विधिः ॥ ४० ॥
metre not recognised
genderक्लीneut.
नारं दाक्षायणं श्रीमत्कुम्भै वेणुतटीभवम् ।द्रव्यं च स्वापतेयं च रिक्थमृक्थं धनं मघम् ॥ ५३६ ॥
अनुष्टुप्
genderक्लीneut.
शातं सातमथो भद्रं भगं मद्रं च भावुकम् ।भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
द्रव्यं द्युम्नं वित्तं रमृक्थं मघं रिक्थम् ।स्तः स्वापतेय-वसुनी द्रविणं न स्त्री न राः क्लीबे ॥ २१ ॥
metre not recognised
genderक्लीneut.
वित्तं वस्तु वसु द्रव्यं स्वार्थं रा द्रविणं धनम् ।कस्वरं तत्पतिं प्राहुः कुवेरं चैकपिङ्गलम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
नलकूबरः स्मृतः [9] पुंसि धनदस्य सुतोऽत्र तु ।धनं वित्तं पृक्थमृक्णं स्वं द्रव्यं द्रविणं वसु ॥ ७४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
जीविका वेतनं वृत्तिः द्रव्यं द्युम्नं धनं वसु ।कार्त्तस्वरम् शातकुम्भं हिरण्यं हेमहाटकम् ॥ २४६ ॥
अनुष्टुप्
genderक्लीneut.
द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् ।अर्थो लक्ष्मीः स्वापतेयं रिक्थमृक्थ तथा वसु ॥ १७६ ॥
अनुष्टुप्
genderक्लीneut.
धनं वित्तं तथा द्रव्यं द्रविणं विभवो वसु ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
वित्तं द्युम्नं हिरण्यस्वद्रव्यानि द्रविणं वसु ।रिक्थमृक्थं स्वापतेयमर्थो रैर्विभवो धनम् ॥
अनुष्टुप्
genderक्लीneut.
निक्षेप उपनिधिः स्यादर्थो राः सारमस्त्रियां द्रविणम् ।स्वं स्वापतेयमृक्थं रिक्थं वित्तं धनं वसु द्रव्यम् ॥ १३९ ॥
गीतिः
genderक्लीneut.
श्रुत्थुको विक्रियामात्रादुद्भटायनमुच्यते ।बुद्धद्रव्यं स्तौपिकं स्यात्सत्त्वं द्रव्यं च वस्तु च ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
औषधे पित्तले योग्यऋक्सामेष्विष्टिगामिषु ।दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥
अनुष्टुप्
doubtful
जया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः ।पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् ।जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु ।जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे ।पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् ।द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ले (syllables merged)
भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् ।दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति ।दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु ।दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः ।दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु ।धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः ।नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः ।नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु ।पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line
doubtful
द्रव्य as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् साधनमारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने । निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९ ॥ Amarakośa 3.3.119
- नामलिङ्गानुशासनम् सत्त्वद्रव्यासुव्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु ॥ २१३ ॥ Amarakośa 3.3.213
- हलायुधकोशः (अभिधानरत्नमाला) ग्रन्थदानविशेषे लब्धौ दायो भागार्हपित्र्यरिक्थे च । लिपिसंख्यायां शास्त्रे द्रव्ये च ग्रन्थशब्दमिच्छन्ति ॥ ८४४ ॥ Abhidhānaratnamālā (Halāyudha) 5.844
- हलायुधकोशः (अभिधानरत्नमाला) अर्थअभिधेयाभिप्रायप्रयोजनद्रव्यवाचकेष्वर्थः । प्रस्तावे संघाते कुत्सायामायुधे जले काण्डम् ॥ ८६७ ॥ Abhidhānaratnamālā (Halāyudha) 5.867
- धरणिकोश वित्तवित्तं विचारिते द्रव्ये व्याख्या[36]ते वित्तमिष्यते । श्वेतं रूप्ये सिते श्वेतं श्वेतश्च पर्वतान्तरम् ॥ Dharaṇikośa 15.2.5
- धरणिकोश द्युम्नद्युम्नं पराक्रमं द्रव्यं वनं कानननीरयोः । वस्ने वेतनदानीये धनं गोधनवित्तयोः ॥ Dharaṇikośa 19.1.1
- धरणिकोश कषायकषायो रुधिरे विष्टे रसभेदे सुगन्धिके । क्वाथे द्रव्येऽङ्गरागे च श्योनाके चेति सप्तसु ॥ Dharaṇikośa 25.3.21
- धरणिकोश सत्त्वसत्त्वं द्रव्ये स्वभावेऽपि पिशाचादौ गुणे रसे । आयुधे व्यवसाये च वृद्धौ प्राणेषु जन्तुषु ॥ Dharaṇikośa 28.3.3
- कोषकल्पतरु रस्नसुप्तस्य विज्ञान उदीरितोऽथ श्रेष्ठे मणावप्युदितं च रत्नम् । द्रव्ये तु रस्नं चषके मचण्डे धेनोऽम्बुधौ वाक्सरितोः स्त्रियां स्यात् ॥ ९२ ॥ Koṣakalpataru 6.21.92
- कोषकल्पतरु दलउत्सेधशस्त्रीच्छदयोश्च खण्डे द्रव्ये च षण्ढेऽथ नलो नृपाले । यमे कपौ पोटगले स्त्रियां तु मनःशिलायां नलिने द्वयोनम् ॥ ५१ ॥ Koṣakalpataru 6.28.51
- कोषकल्पतरु सत्त्वस्त्री तेजनीस्पृक्क्षितिपाङ्गनासु सत्त्वोऽस्त्रियां जन्तुपिशाचयोश्च । गुणेऽसुषु क्लीबमिहात्मतायां द्रव्ये स्वभावे व्यवसायधाम्नोः ॥ ९९ ॥ Koṣakalpataru 6.29.99
- नानार्थार्णवसंक्षेप जीर्विअजाज्यां तु नृशण्डः स्याद् द्वे त्वश्वे जीर्विवाक् पुनः । टङ्के ना शकटे द्रव्ये गुल्मे चाथ द्वयोः पशौ ॥ ४८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.484
- नानार्थार्णवसंक्षेप मूलधानुष्कहस्तविन्यासभेदे ग्राह्ये च मुष्टिना । द्रव्ये मूलं तु नप्यन्ये पुंस्यप्यादिसमीपयोः ॥ १०१२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1012
- नानार्थार्णवसंक्षेप सत्त्वसत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले । पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ॥ १४४० ॥ Nānārthārṇavasaṃkṣepa 2.5.1440
- नानार्थार्णवसंक्षेप जीवातुस्याज्जीवनौषधे केचित् त्वौषधे सलिलान्नयोः । द्रव्ये च रभसस्त्वाह जीवे बहुविदां वरः ॥ ८०८ ॥ Nānārthārṇavasaṃkṣepa 4.808
- नानार्थार्णवसंक्षेप अधिकरणखनित्रे भेदने तु स्यात् स्त्री च नप् चावदारणा । अथाधिकरणं द्रव्य आधारेऽधिकृतौ च नप् ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 7.11
- परमानन्दीयनाममाला अम्बरमञ्जिष्ठातिविषा श्यामाथाम्बरं गगनेंऽशुके । द्रव्ये तूले सुगन्धेऽथार्जुनो धवलकेकिनोः ॥ ३१ ॥ Paramānandīyanāmamālā 5.1.31
- परमानन्दीयनाममाला द्रविणद्रविणं द्युम्नवद्द्रव्ये सङ्घौषधपराक्रमे । द्वितीया गेहिनीतिथ्योर्दारदः पारदे विषे ॥ २४१ ॥ Paramānandīyanāmamālā 5.16.241
- शब्दरत्नावली हिरण्यसामर्थ्यं क्लीबलिङ्गं स्याद्योग्यतायां बलेऽपि च । सौरभ्यमपि चारुत्बे सौगन्ध्ये गुणगौरवे ॥ हिरण्यं शातकुम्भे स्यादक्षये मणिभेदके । रजते रजसि द्रव्ये धनेऽपि च नपुंसकम् ॥ हृदयं स्यादुरोवुक्कमानसेषु च न द्वयोः ॥ Śabdaratnāvalī 7.26.52
- शब्दरत्नावली सत्त्वशिवाभयामलक्याञ्च दुर्गाक्रोष्टीशमीषु च । सत्त्वं बले गुणे द्रव्ये पिशाचादिस्वभावयोः । व्यवसायधनप्राणात्मतास्वस्त्री तु जन्तुषु ॥ Śabdaratnāvalī 7.29.22
- शब्दरत्नाकर पणपणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने । स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥ Śabdaratnākara 4.1.1951
- शब्दरत्नाकर भावद्रव्यमात्ररसोत्पत्तिस्वभावात्मसु चेङ्गिते । गजभेदे वृषे भद्रः शुभे क्लीब उरौ त्रिषु ॥ १९७२ ॥ Śabdaratnākara 4.1.1972
- शब्दरत्नाकर सत्त्वद्रव्ये बलेऽन्तःकरणे व्यवसायात्मभावयोः । स्वभावे निर्मलज्ञाने सत्त्वमस्त्री तु जन्तुषु ॥ २०२१ ॥ Śabdaratnākara 4.1.2021
- शब्दार्णव रागचित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सारङ्गादौ च रागः स्याद्द्रुण्ये रञ्जने पुमान् ॥ १९२ ॥ Śabdārṇava 192
- शब्दार्णव विशेषविशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि ॥ २२९ ॥ Śabdārṇava 229
- वैजयन्ती ग्रन्थग्रंथो द्रव्यं वचः शास्त्रं द्वात्रिंशद्वर्णसंचयः । गर्भोऽपवरकेऽन्नेऽग्नौ सुते पनसकंटके ॥ २१ ॥ Vaijayantī 6.1.21
- वैजयन्ती सत्त्वआत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः । प्राणे बलेऽन्तः करणे स्वामी पत्यौ षडानने ॥ ९४ ॥ Vaijayantī 6.5.94