कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

द्व्यक्षरकाण्डः · अर्थवल्लिङ्गाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां द्व्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः

अर्थ्योऽर्थयुक्तात्मवतोरन्त्योऽन्त्यजनिकृष्टयोः ।क्लृप्तेऽर्घायार्घ्यमर्घार्हेऽप्यदस्त्वत्र परत्र च ॥ १ ॥
6.4.1 · p. 228
अनुष्टुप्
अन्यौ विभिन्नासदृशावार्यः साधुकुलीनयोः ।आद्यमादिभवे भक्ष्येऽप्युत्पत्तिरहितेऽप्यृजुः ॥ २ ॥
6.4.2 · p. 228
अनुष्टुप्
मुख्यान्यकेवलेष्वेकः कष्टौ गहनदुःखितौ ।कल्या नीरुग्दक्षसज्जा योग्ययुक्तहिताः क्षमाः ॥ ३ ॥
6.4.3 · p. 228
अनुष्टुप्
कटुस्तिक्ताप्रियाकार्यसुरभ्यूषणमत्सरे ।क्रूरो भयंकरे क्रुद्धे नृशंसे कठिनोष्णयोः ॥ ४ ॥
6.4.4 · p. 228
अनुष्टुप्
गौरोऽरुणे सिते पीते गृह्यस्त्वस्वैरिपक्ष्ययोः ।क्लिन्नाक्षे क्लिन्ननेत्रे च चिल्लं चुल्लं च पिल्लवत् ॥ ५ ॥
6.4.5 · p. 228
अनुष्टुप्
चोद्यं चित्रे चोदनार्हे चारु चित्रवचस्यपि ।जडो जाल्मश्च निर्बुद्धौ स्तब्धेऽनालोच्यकारिणि ॥ ६ ॥
6.4.6 · p. 228
अनुष्टुप्
ज्यायान् ज्येष्ठश्चाग्रजन्मन्यतिवृद्धातिशस्तयोः ।जात्यःश्रेष्ठे कुलीने च डिंभो बालिशबालयोः ॥ ७ ॥
6.4.7 · p. 228
अनुष्टुप्
द्रुतं शीघ्रे शीघ्रगतेऽप्यवदीर्णविलीनयोः ।दृढं गाढेऽधिके स्थूले धूतं त्यक्ते प्रकंपिते ॥ ८ ॥
6.4.8 · p. 228
अनुष्टुप्
धृष्णुर्धृष्टे प्रगल्भे च कुटिले बंधुरे नतम् ।न्यक्षं कृत्स्ने निकृष्टे च निजमात्मीयनित्ययोः ॥ ९ ॥
6.4.9 · p. 228
अनुष्टुप्
नीचे खर्वे निकृष्टे च समर्थेऽधिपतौ प्रभुः ।प्राप्तं न्याय्ये च लब्धे च विपुलानेकयोर्बहु ॥ १० ॥
6.4.10 · p. 228
अनुष्टुप्
बालो मूर्खे शिशौ भव्यो भावी योग्यः शुभोऽपि च ।मिश्रेऽपि भिन्नं म्लिष्टं तु म्लानाविस्पष्टवाक्ययोः ॥ ११ ॥
6.4.11 · p. 228
अनुष्टुप्
मुग्धं सौम्ये नवे मूढे मूढो मोहिनि तंद्रिते ।मृद्वतीक्ष्णे कोमले च बद्धोपरतयोर्यतः ॥ १२ ॥
6.4.12 · p. 229
अनुष्टुप्
याप्यं गर्ह्ये यापनीये पृथक्संयुक्तयोर्युतम् ।न्याय्यसंयुक्तयोर्युक्तं रूक्षो निष्प्रेम्ण्यचिक्कणे ॥ १३ ॥
6.4.13 · p. 229
अनुष्टुप्
रथ्यो रथहितेऽमुष्य स्वीयेऽस्याश्वे च वोढरि ।रागवद्रोहितौ रक्तौ रामश्चारौ सितेऽसिते ॥ १४ ॥
6.4.14 · p. 229
अनुष्टुप्
न्याय्यलब्धव्ययोर्लभ्यं लिप्तो भक्षितदिग्धयोः ।लघु त्वसारागुरुणोरिष्टे क्षिप्रमनोज्ञयोः ॥ १५ ॥
6.4.15 · p. 229
अनुष्टुप्
लोलं चले लोलुपे च व्यग्रो व्यापृत आकुले ।वल्गु मंजौ च वामस्तु सौम्ये सव्यप्रतीपयोः ॥ १६ ॥
6.4.16 · p. 229
अनुष्टुप्
विद्धं विदारिते तुल्ये विन्नं लब्धे विचारिते ।शितिः श्वेते च नीले च शुभो मंजुप्रशस्तयोः ॥ १७ ॥
6.4.17 · p. 229
अनुष्टुप्
शुभ्रं शुक्ले भास्वरे च शुक्तं तु परुषाम्लयोः ।सभ्यः सामाजिके साधौ सव्यो दक्षिणवामयोः ॥ १८ ॥
6.4.18 · p. 229
अनुष्टुप्
सन्नमल्पे विशीर्णादौ स्वादुर्मधुरमृष्टयोः ।स्फुटाः स्पष्टव्याप्तफुल्लाः स्थूलौ तु जडपीवरौ ॥ १९ ॥
6.4.19 · p. 229
अनुष्टुप्
मंत्रिण्यपि सुहृत्स्निग्धे प्रतिज्ञावत्यपि स्थितः ।मंदस्वच्छन्दयोः स्वैरो हीनो मुक्तविगर्ह्ययोः ॥ २० ॥
6.4.20 · p. 229
अनुष्टुप्