कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मण्डहारक

maṇḍahārakaपुं · masc.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.901 · p. 36
कल्यपालः सुराजीवी शौण्डिको मण्डहारकः ।वारिवासः पानवणिग्ध्वजो ध्वज्यासुतीबलः ॥ ९०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.10
निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.58 · p. 300
पानध्वजी पानवणिक् शौण्डिको मण्डहारकः ।पानध्वजो वारिवास-कल्यपालासुतीवलाः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.61 · p. 40
चाक्रिकस्तैलिकस्तैली शिल्पिकारूककारवः ।कल्यपालः सुराजीवी शौण्डिको मण्डहारकः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.16 · p. 154
शुण्डिकः शौण्डिकः शुण्डी शुण्डको मण्डहारकः ।अजाजीवस्तु जावालोऽप्यजापालक इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1530 · p. 185
निर्णेजकस्तु रजको मण्डहारकशौण्डिकौ ।कारवः शिल्पिनः सर्वे कला शिल्पं नपुंसकम् ॥ १५३० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.44 · p. 75
आहिण्डिकं निषादात् सा कवटी तु हुरिञ्जकम् ।निष्ट्याच्छूद्रा मधुश्रेणिं शौण्डिकं मण्डहारकम् ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.