All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
तृतीयः काण्डः · शूद्राध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे वैश्याध्याय एकविंशः ॥
शूद्राध्यायः
शूद्रोऽन्त्यवर्णो वृषलः पज्जः पद्यो जघन्यजः ।चण्डालवर्जिता एते शूद्राः संकरजा अपि ॥ १५०९ ॥
3.5.1509 · p. 183
अनुष्टुप्
मूर्धावसिक्तोऽम्बष्ठश्च त्रयः पारशवोऽप्यमी ।संजाताः क्षत्रियावैश्याशूद्रासु क्रमतो द्विजात् ॥ १५१० ॥
3.5.1510 · p. 183
अनुष्टुप्
सूतवैदेहचण्डाला ब्राह्मण्यां क्षत्रियादिजाः ।शूद्रायां क्षत्रियादुग्रस्तस्यां तु करणो विशः ॥ १५११ ॥
3.5.1511 · p. 183
अनुष्टुप्
क्षत्रियायां विशोऽर्यायां क्षत्रियाल्लब्धसंभवौ ।क्रमान्मागधमाहिष्यौ क्षत्तार्याशूद्रयोः सुतः ॥ १५१२ ॥
3.5.1512 · p. 183
अनुष्टुप्
अभिषिक्तः कुम्भकारः शूलिकश्च यथाक्रमम् ।क्षत्रियाद्यासु संजाता ब्राह्मणाद्व्यभिचारतः ॥ १५१३ ॥
3.5.1513 · p. 183
अनुष्टुप्
तस्मादाभीरमम्बष्ठा निषादी तु मनोजवम् ।आसुताव्रतमुग्रस्त्री खंजमन्तावसायिनी ॥ १५१४ ॥
3.5.1514 · p. 183
अनुष्टुप्
क्षत्रियायां तु शूद्रेण जनितः पारधेनुकः ।ब्राह्मण्यां नापितोऽम्बष्ठाद्रजकः पारधेनुकात् ॥ १५१५ ॥
3.5.1515 · p. 183
अनुष्टुप्
तक्षा तु करणाज्जातो माहिष्याद्वैणवस्तथा ।आयोगवाच्चर्मकारो मागधात्ताम्रजीवकः ॥ १५१६ ॥
3.5.1516 · p. 183
अनुष्टुप्
क्षत्रियायां तु माहिष्याजातौ चार्मिकसूचिकौ ।मागधात् खनकोऽम्बष्ठाज्जातो यो नापितश्च सः ॥ १५१७ ॥
3.5.1517 · p. 183
अनुष्टुप्
मत्स्यबन्धस्तु करणात् करण्यां रथकारकः ।माहिष्यादेव तस्यां तु किरातात् पलगण्डकः ॥ १५१८ ॥
3.5.1518 · p. 184
अनुष्टुप्
चण्डालात् पुल्कसो जातः तस्यां च श्वपचश्च सः ।अन्येऽप्यन्योन्यसंकीर्णा बहवः क्षुद्रजातयः ॥ १५१९ ॥
3.5.1519 · p. 184
अनुष्टुप्
कुलालः कुम्भकारः स्याद् भाण्डकृच्चोर्ध्वनापितः ।तस्य चक्रं भ्रमिः स्त्री स्यात् पचनं पाकमण्डलम् ॥ १५२० ॥
3.5.1520 · p. 184
अनुष्टुप्
तक्षा तु वर्धकिस्त्वष्टा स्थपती रथकारकः ।कौटतक्षोऽनधीनः स्याद् ग्राभतक्षोऽन्वितार्थक्रः ॥ १५२१ ॥
3.5.1521 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्थ (wrong syllable)
शिलाकुट्टककुण्डाश्मतक्षाणश्च समास्त्रयः ।वृक्षादनो वृक्षभेदी टङ्कः पाषाणदारणः ॥ १५२२ ॥
3.5.1522 · p. 184
अनुष्टुप्
व्रश्चनः पत्रपरशुर्वासिः स्त्री दारुतक्षणी ।कर्तनः स्वधितिः पुंसि कृपाणी कर्तरी समे ॥ १५२३ ॥
3.5.1523 · p. 184
अनुष्टुप्
आस्फोटनी वेधनिका व्योकारो लोहकारकः ।कर्मारः स्यादयस्कारो भस्त्रा चर्मप्रसेविका ॥ १५२४ ॥
3.5.1524 · p. 184
अनुष्टुप्
संदंशः स्यात् कङ्कमुखो घनः कूटोऽप्ययोधनः ।यत्र निक्षिप्य कूटेन हन्यतेऽयोनिघातिका ॥ १५२५ ॥
3.5.1525 · p. 184
अनुष्टुप्
निधाय तक्ष्यते दारु यत्र काष्ठे स उद्घनः ।नाडिंधमः स्वर्णकारः कलादश्च समास्त्रयः ॥ १५२६ ॥
3.5.1526 · p. 184
अनुष्टुप्
नाराची स्यादेषणिका शौल्बिकस्ताम्रकुटकः ।मणिकारो वैघटिकः शाणस्तु निकषः कषः ॥ १५२७ ॥
3.5.1527 · p. 185
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable); pāda 3, syllable 5 वै (wrong syllable)
शालिकः स्यात् काम्बविकः शस्त्रमार्जोऽसिधावकः ।तैजसावर्तनी मूषा वेधन्यास्फोटनी समे ॥ १५२८ ॥
3.5.1528 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
नापितः क्षौर(रि?)को वप्ता चण्डिलान्तावसायिनौ ।ग्रामणीश्च दिवाकीर्तिः क्षुरो वपनशस्त्रकम् ॥ १५२९ ॥
3.5.1529 · p. 185
अनुष्टुप्
निर्णेजकस्तु रजको मण्डहारकशौण्डिकौ ।कारवः शिल्पिनः सर्वे कला शिल्पं नपुंसकम् ॥ १५३० ॥
3.5.1530 · p. 185
अनुष्टुप्
सौचिकस्तुन्नवायः स्यात् स्त्रियां सूचिश्च सीवनी ।विध्यते येन मण्यादिराविधोऽसावथ त्रिषु ॥ १५३१ ॥
3.5.1531 · p. 185
अनुष्टुप्
ऊतं स्यूतमुतं स्यूतिः सीवनं सेवनं समे ।रङ्गाजीवश्चित्रकारो मालाकारस्तु मालिकः ॥ १५३२ ॥
3.5.1532 · p. 185
अनुष्टुप्
निषादः स्यात् पारशवः कायस्थकरणौ समौ ।तन्तुवायः कुविन्दः स्यात् त्रसरः सूत्रवेष्टनम् ॥ १५३३ ॥
3.5.1533 · p. 185
अनुष्टुप्
वाणिर्व्यूतं तु वानं स्यात् पिचुर्ना तूलमस्त्रियाम् ।धाराः कार्पासतूलाः स्युस्तेषां तु प्रविसारणम् ॥ १५३४ ॥
3.5.1534 · p. 185
अनुष्टुप्
पिञ्जनं स्याद्विहननं पलगण्डस्तु लेपकः ।तूलिका लेखनी कूर्ची पुस्तं लेप्यादिकर्मणि ॥ १५३५ ॥
3.5.1535 · p. 185
अनुष्टुप्
हरिणी लोहप्रतिमा सूर्मी स्थूणान्यलोहजा ।प्रतिच्छाया प्रतिकृतिः प्रतिमा प्रतियातना ॥ १५३६ ॥
3.5.1536 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
अर्चा प्रत्याकृतिश्छायोपमा प्रतिनिधिः पुमान् ।प्रतिमानोपमाने च बिम्बोऽस्त्री प्रतिविम्बवत् ॥ १५३७ ॥
3.5.1537 · p. 186
अनुष्टुप्
जाबालः स्यादजाजीवो देवाजीवस्तु देवलः ।पाशी तु कर्णिका रज्जूर्वरत्रा तन्त्रिका वटी ॥ १५३८ ॥
3.5.1538 · p. 186
अनुष्टुप्
पाशो रश्मिर्गुणो बन्धो वराटः प्रग्रहो वटः ।शुल्बं शुल्बाप्यथ व्याधो मृगयुर्लुब्धकश्च सः ॥ १५३९ ॥
3.5.1539 · p. 186
अनुष्टुप्
जालिकः स्याद्वागुरिको वागुरा मृगबन्धनी ।उन्माथः कूटयन्त्रं स्याच्छल्यमस्त्री शलाकिका ॥ १५४० ॥
3.5.1540 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
वितंसः स्यान्मृगाणां च विहगानां च बन्धने ।गृह्यन्ते पक्षिणा येन पक्षिणोऽन्ये स दीपकः ॥ १५४१ ॥
3.5.1541 · p. 186
अनुष्टुप्
पशवो येन सोऽपि स्यात् स्मृतिभूर्वञ्चनापटः ।पराधिः खेट आखेटो मृगव्याच्छोदने समे ॥ १५४२ ॥
3.5.1542 · p. 186
अनुष्टुप्
मृगयाप्यथ योगाद्यो लुब्धकैर्दक्षिणव्रणः ।दक्षिणेर्मा स हरिणो वध्री नध्री समे उभे ॥ १५४३ ॥
3.5.1543 · p. 186
अनुष्टुप्
जीवान्तकः शाकुनिकः स्याद्वैतंसिककौटिकौ ।तैलाजीवस्तु चक्री स्यात् पिण्याको ना खलिः स्त्रियाम् ॥ १५४४ ॥
3.5.1544 · p. 186
अनुष्टुप्
पादूरुपानत् स्त्री सैवानुपदीना पदायता ।पादूकुच्चर्मकारः स्यादारा चर्मप्रभेदिका ॥ १५४५ ॥
3.5.1545 · p. 186
अनुष्टुप्
संवाहकोऽङ्गमर्दः स्याच्छैलूषो भरतो नटः ।जायाजीवः सर्वकेशी शैलाली वहुरूपकः ॥ १५४६ ॥
3.5.1546 · p. 187
अनुष्टुप्
रङ्गाजीवः कृशाश्वी च चारणास्तु कुशीलवाः ।पूरकः प्लवकः केलो रज्जूयष्ट्यसिनर्तकः ॥ १५४७ ॥
3.5.1547 · p. 187
अनुष्टुप्
नन्दी तु पाठको नन्द्याः पार्श्वस्थाः पारिपार्श्वकाः ।स्याद्भ्रूकुंसो भ्रुकुंसश्च भ्रकुंसश्चेति नर्तकः ॥ १५४८ ॥
3.5.1548 · p. 187
अनुष्टुप्
नारीवेषधरो रङ्गे सूत्रधारस्तु सूचकः ।शक्रराघवदेवानां नर्तको भूमिकाधरः ॥ १५४९ ॥
3.5.1549 · p. 187
अनुष्टुप्
शचीवलो देवरथः क्रमात् स्यादर्धमानुषः ।रावणस्य तु रङ्गोपमर्दको भूमिकाधरः ॥ १५५० ॥
3.5.1550 · p. 187
अनुष्टुप्
रङ्गावतारी रुद्रस्य कृष्णस्य त्वर्धमानवः ।मार्दङ्गिको मौरजिकः पाणिघातस्तु पाणिघः ॥ १५५१ ॥
3.5.1551 · p. 187
अनुष्टुप्
वेणुध्माः स्युर्वैणविका हास्यभाषी विदूषकः ।वेश्याचार्यः पीठमर्दी नर्तकी लासिका समे ॥ १५५२ ॥
3.5.1552 · p. 187
अनुष्टुप्
तालो विलम्बितं कालो द्रुतं मध्यं क्रिया लयः ।ओघः साम्यं धनं तत्त्वं क्रियाथ भ्रमरी भ्रमः ॥ १५५३ ॥
3.5.1553 · p. 187
अनुष्टुप्
सुरा कादम्बरी हाला प्रसन्नेरा परिस्रुतिः ।वारुणी मदिरा माध्वी शुण्डा गन्धोत्तमावृता ॥ १५५४ ॥
3.5.1554 · p. 187
अनुष्टुप्
परिस्रुता रसालेरा बलभद्रप्रिया रसा ।मैरेयकश्यमद्यानि मार्द्बीकं कापिशायनम् ॥ १५५५ ॥
3.5.1555 · p. 188
अनुष्टुप्
कपिशं मोहनं कल्यमस्त्रियां मधुशीधुनी ।अनुतर्षस्त्रिसरको मेदको जगलासवौ ॥ १५५६ ॥
3.5.1556 · p. 188
अनुष्टुप्
सरको मेदना कल्या माधवी मतिमोहिनी ।तद्भेदा माधवः पैष्टी गोली माध्वी मधूलिका ॥ १५५७ ॥
3.5.1557 · p. 188
अनुष्टुप्
शुण्डापानं मदस्थानमापानं पानगोष्ठिका ।मदनृत्तं तु मत्तल्ली मधुवाराः मधुक्रमाः ॥ १५५८ ॥
3.5.1558 · p. 188
अनुष्टुप्
कारोत्तरः सुरामण्डः किण्वं पुंस्येव नग्नहूः ।आसूतिर्मधुसंधानमासवाभिषवावपि ॥ १५५९ ॥
3.5.1559 · p. 188
अनुष्टुप्
चषकोऽस्त्री पानपात्रमुपदंशोऽपि दंशकः ।जनंगमदिवाकीर्तिचण्डालप्लवपुल्कसाः ॥ १५६० ॥
3.5.1560 · p. 188
अनुष्टुप्
मातंगश्वपचावन्तेवासिचाण्डालपुष्यलाः ।भिल्लाः किराताः शबराः पुलिन्दाश्च निषादकाः ॥ १५६१ ॥
3.5.1561 · p. 188
अनुष्टुप्
म्लेच्छादयश्च तद्भेदाः स्तेनश्चोरो मलिम्लुचः ।मोषकस्तस्करो दस्युर्लुण्टाकः प्रतिरोधकः ॥ १५६२ ॥
3.5.1562 · p. 188
अनुष्टुप्
प्रतिरोधी परास्कन्दी चौरिकः पारिपन्थिकः ।पाटच्चरैकागरिकौ प्रतिमोष्टा निशाचरः ॥ १५६३ ॥
3.5.1563 · p. 189
अनुष्टुप्
पश्यतो यो हरत्यर्थं स चोरः पश्यतोहरः ।कर्णीसुतः करवटो मूलदेवः कुलाङ्कुरः ॥ १५६४ ॥
3.5.1564 · p. 189
अनुष्टुप्
स्तेनशस्त्रे फणिमुखश्चारको बन्धनालये ।स्तैन्यं स्तेयं च चौर्यं च लोप्त्रं स्याच्चोरितं धनम् ॥ १५६५ ॥
3.5.1565 · p. 189
अनुष्टुप्
दासे तु भृत्यदासेयदासेरप्रेष्यकिंकराः ।नियोज्यो गोप्यकश्चेटो भुजिष्यः परिचारकः ॥ १५६६ ॥
3.5.1566 · p. 189
अनुष्टुप्
परैधितः परास्कन्दी परजातः पराचितः ।भृतकः स्यात् कर्मकरः प्रेष्यो वैतनिकोऽपि सः ॥ १५६७ ॥
3.5.1567 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
द्यूतकृत् कितवो धूर्तश्चाक्षदेव्यक्षदेवनः ।स्यादेवाक्षवती द्यूतमस्त्रियां कैतवं पणः ॥ १५६८ ॥
3.5.1568 · p. 189
अनुष्टुप्
ग्लहोऽक्षेषु पणोऽक्षाः स्युर्देवनाः पातना इति ।शारयोऽप्यथ शारीणां परिणायः समानयः ॥ १५६९ ॥
3.5.1569 · p. 189
अनुष्टुप्
अक्षस्तु द्यूतभेदे स्यात् सभिका द्यूतकारकाः ।अष्टापदं शारिफलं प्राणिद्यूतं समाह्वयः ॥ १५७० ॥
3.5.1570 · p. 189
अनुष्टुप्