कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रजक

rajakaपुं · masc.

In 18 kośas: 21 synonym verses, 3 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.778 · p. 36
निर्णेजकस्तु रजकः पादुकाकृत्तु चर्मकृत् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.10
निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.593 · p. 67
शिल्पिनः कारवः प्रोक्ताः प्रकृतिश्च मनीषिभिः ।निर्णेजकः स्याद्रजकः कल्पपालस्तु शौण्डिकः ॥ ५९३ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.299 · p. 93
दरणो रजकश्चेति कोकिलः पिक इत्यपि ।वसन्तकर्णी मधुवान् कालकण्ठो वनप्रियः ॥ २९९ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.8 · p. 26
रजको वक्रनासश्च धीमान् धीर इतीर्यते ।ताम्राक्षः स्यादन्यभृतो वसन्तागमवाक्कविः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.22 · p. 204
निर्णेजकः कर्मकीलो रजकः पवनिश्च सः ।पवनो वस्त्रपावोऽथ शुण्डारः शुण्डिशौण्डिकौ ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 196
* [की]रः शुको रक्ततुण्डो मेधावी च फलादनः ।वचस्तु राजकीरः स्याद्रजकः शतपत्रकः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.27 · p. 297
निर्णेजकः स्याद्रजको धावकः कर्मकीलकः ।[145a] मर्जूरथ स्याद्विट्सारी विट्किरः कुणपश्च सः ।क्षुरमर्द्दी क्षुरी मुण्डी चण्डिलान्तावसायिनौ ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.259 · p. 142
पर्पटके वरतिक्तो रजको रजनामकः ।गोजिह्वायां शृङ्गबेरी दार्विका भूमिकालिफा ॥ २५९ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.42 · p. 5
कार्मुकं तस्य कान्तारः शरास्तस्य तु पल्लवाः ।रजको वाहनं तस्य रथो मलयजः स्मृतः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.426 · p. 155
निर्णेजकः स्याद्रजकः कुलालो दण्डभृत्पुनः ।कुम्भकारश्चक्रजीवी शस्त्रमार्जोऽसिधावकः ॥ ४२६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.71 · p. 6
निर्णेयकः पाटक्षाली रजको वस्त्रधौतकः ।अजाजीवच्छागपालो जाबालिर्मेषमाण्डलिः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.60 · p. 40
रङ्गाजीवश्चित्रकारस्तन्तु[स्तुन्न]वायस्तु सौचिकः ।निर्णेजकः स्याद्रजकस्तन्तुवायः कुविन्दकः ॥ ६० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1542 · p. 245
निर्णेजकश्च धावको रजको वस्त्रशुद्धिकृत् ॥ १५४२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.15 · p. 154
नखकुटुः दिवाकीर्ति-ग्रामण्यन्तावसायिनः ।निर्णेजकस्तु शौचेयो रजकः कर्मकीलकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1515 · p. 183
क्षत्रियायां तु शूद्रेण जनितः पारधेनुकः ।ब्राह्मण्यां नापितोऽम्बष्ठाद्रजकः पारधेनुकात् ॥ १५१५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1530 · p. 185
निर्णेजकस्तु रजको मण्डहारकशौण्डिकौ ।कारवः शिल्पिनः सर्वे कला शिल्पं नपुंसकम् ॥ १५३० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.4 · p. 77
चन्द्रिलो नखकुट्टश्च रजकः कर्मकीलकः ।कन्यापालः पालवणिग्देवलत्वमद्विजः ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.38 · p. 75
विप्रा नाविकमंबष्ठादस्मिन् क्वापि श्वपाकवाक् ।वैणवं सैव माहिष्याद्रजकं पारधेनुकात् ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.45 · p. 75
उग्री क्रमेलकं तस्मान्निर्णेक्ता रजकश्च सः ।सोपाकं पुल्कसी निष्ट्याच्चण्डालादिति के चन ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.121 · p. 82
रजकश्चर्मकारश्च वेनो बुरुल एव च ।कैवर्तमेदभिल्लाश्च सप्तैता अन्त्यजातयः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.27 · p. 139
रजकः शुकेऽप्यथो नायष्ट्याह्वे मधुपर्णिकायाम् ।मधुकः पक्षिविशेषेवन्दिविभेदे च पुंलिङ्गः ॥ २७ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1484 · p. 177
त्रिषु त्वास्वादिते चैव स्वर्णादिखचितेऽपि च ।वस्त्रनिर्णेजके तु द्वे शुके च रजकस्त्रि तु ॥ १४८४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1485 · p. 177
मृगाणां स्याद्रमयितर्यथ क्ली रजतं विदुः ।पुंस्यप्येके विदू रूप्यहारयोः शोणिते ह्वदे ॥ १४८५ ॥
अनुष्टुप्

रजक as a meaning in nānārtha verses