All kośas › Śāradīyākhyanāmamālā
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā
462 verses · 4,677 words tagged · 226 marked doubtful (dashed)
तृतीयः काण्डः · शूद्रवर्गः
॥ इति श्रीविड्वर्गः ॥
गोकुलं तु व्रजो घोषो गोष्ठं गोपास्तु बल्लवाः ।दुग्धं पयोऽमृतं क्षीरं गोरसः क्षीरजं दधि ॥ ५० ॥
3.4.50 · p. 39
अनुष्टुप्
घृतमाज्यं हविः सर्पिः नवनीतं तु म्रक्षणम् ।उदश्विन्मथितं तक्रमारनालं तु काञ्जिकम् ॥ ५१ ॥
3.4.51 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
हविष्यान्नं तु क्षैरेयी परमान्नं च पायसम् ।घृतपक्वं तु पक्वान्नं घृतपूरादिभेदवत् ॥ ५२ ॥
3.4.52 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
सूपः स्यात्प्रहितं सूदोऽन्धः कूरं भक्तमोदनम् ।व्यञ्जनं तेमनं शाकः पूपः पूपा च पोलिका ॥ ५३ ॥
3.4.53 · p. 39
अनुष्टुप्
भोजनं जेमनाहारौ भक्षणं खादनाशने ।पिपासा तृट् तृषोदन्या बुभुक्षा क्षुत्क्षुधा रुचिः ॥ ५४ ॥
3.4.54 · p. 39
अनुष्टुप्
खण्डस्तु मधुधूलिः स्यान्मत्स्यण्डी फाणितं वरा ।सितोपला शर्करा च सिताथेक्षुरसो गुडः ॥ ५५ ॥
3.4.55 · p. 39
अनुष्टुप्
क्षेत्री जीवश्च कृषिकृत्कर्षकश्च कृषीवलः ।क्षेत्रं वप्रश्च केदारो हलः सीरश्च लाङ्गलम् ॥ ५६ ॥
3.4.56 · p. 40
अनुष्टुप्
कुम्भकारः कुलालश्च कुम्भस्तु कलशो घटः ।स्वर्णकारः कलादश्च मालाकारस्तु मालिकः ॥ ५७ ॥
3.4.57 · p. 40
अनुष्टुप्
क्षुरमर्दी दिवाकीर्तिर्नापितोऽन्तावसाय्यपि ।मुण्डनं भद्राकरणं वपनं परिवापनम् ॥ ५८ ॥
3.4.58 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)
वर्धकिः स्थपतिस्तक्षा रथकारश्च काष्ठतक् ।व्योकारो लोहकारश्च शस्त्रमार्जोऽसिधावकः ॥ ५९ ॥
3.4.59 · p. 40
अनुष्टुप्
रङ्गाजीवश्चित्रकारस्तन्तु[स्तुन्न]वायस्तु सौचिकः ।निर्णेजकः स्याद्रजकस्तन्तुवायः कुविन्दकः ॥ ६० ॥
3.4.60 · p. 40
अनुष्टुप्metre not read in every line
चाक्रिकस्तैलिकस्तैली शिल्पिकारूककारवः ।कल्यपालः सुराजीवी शौण्डिको मण्डहारकः ॥ ६१ ॥
3.4.61 · p. 40
अनुष्टुप्
मदिरा वारुणी मद्यं सुरा कादम्बरी मधु ।शुण्डा दालासवः सीधुर्माध्वीकं कापिशायनम् ॥ ६२ ॥
3.4.62 · p. 40
अनुष्टुप्
आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् ।रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥
3.4.63 · p. 40
अनुष्टुप्
द्यूतकारोऽक्षदेवी चाक्षधूर्तः कितवश्व सः ।द्यूतं दुरोदरं चाक्षवती पणश्च कैतवम् ॥ ६४ ॥
3.4.64 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
पाशका देवना अक्षाः सारयोऽष्टपदं फलम् ।स्तेनः पाटच्चरो दस्युश्चौरस्तस्करमोषकौ ॥ ६५ ॥
3.4.65 · p. 40
अनुष्टुप्
कैवर्तो धीवरो दासो वागुरिकस्तु जालिकः ।लुब्धको मृगयुर्व्याधो मृगयाखेटकौ समौ ॥ ६६ ॥
3.4.66 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः ।पादूकृच्चर्मकारश्चोपानत्पादूश्च पादुका ॥ ६७ ॥
3.4.67 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
चाण्डालस्तु दिवाकीर्तिर्निषादश्च जनंगमः ।मातङ्गः श्वपचोऽस्पृश्योऽन्तेवासी प्लवबुक्कसौ ॥ ६८ ॥
3.4.68 · p. 41
अनुष्टुप्
इतरः प्राकृतो नीचः पामरश्च पृथग्जनः ।पुलिन्दः शम्बरो भिल्लः किरातश्च वनेचरः ॥ ६९ ॥
3.4.69 · p. 41
अनुष्टुप्