कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

द्वितीयं काण्डम् · शूद्रवर्गः

इति वैश्यवर्गः

अथ शूद्रवर्गः

शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः ।आचण्डालात्तु सङ्कीर्णा अम्बष्ठकरणादयः ॥ १ ॥
2.10.1
अनुष्टुप्
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः ।शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः ॥ २ ॥
2.10.2
अनुष्टुप्
माहिष्योऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः ।
2.10.3
अनुष्टुप्
ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः ॥ ३ ॥
2.10.3
अनुष्टुप्
रथकारस्तु माहिष्यात्करण्यां यस्य संभवः ।
2.10.5
अनुष्टुप्
स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥
2.10.4
अनुष्टुप्
कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ।
2.10.7
अनुष्टुप्
कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः ॥ ५ ॥
2.10.5
अनुष्टुप्
कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः ।
2.10.9
अनुष्टुप्
तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥
2.10.6
अनुष्टुप्
रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसि धावकः ।
2.10.11
अनुष्टुप्
पादकृच्चर्मकारः स्याद्व्योकारो लोहकारकः ॥ ७ ॥
2.10.7
अनुष्टुप्
नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः ।
2.10.13
अनुष्टुप्
स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः ॥ ८ ॥
2.10.8
अनुष्टुप्
तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट् ।
2.10.15
अनुष्टुप्
ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ९ ॥
2.10.9
अनुष्टुप्
क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः ।
2.10.17
अनुष्टुप्
निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ॥ १० ॥
2.10.10
अनुष्टुप्
जाबालः स्यादजाजीवो देवाजीवस्तु देवलः ।
2.10.19
अनुष्टुप्
स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः ॥ ११ ॥
2.10.11
अनुष्टुप्
शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः ।भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ १२ ॥
2.10.12
अनुष्टुप्
मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः ।
2.10.22
अनुष्टुप्
वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः ॥ १३ ॥
2.10.13
अनुष्टुप्
जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ ।
2.10.24
अनुष्टुप्
वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥
2.10.14
अनुष्टुप्
भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः ।
2.10.26
अनुष्टुप्
वार्तावहो वैवधिको भारवाहस्तु भारिकः ॥ १५ ॥
2.10.15
अनुष्टुप्
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥
2.10.16
अनुष्टुप्
भृत्ये दासेरदासेयदासगोप्यकचेटकाः ।नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥
2.10.17
अनुष्टुप्
पराचितपरिस्कन्दपरजातपरैधिताः ।
2.10.30
अनुष्टुप्metre not read in every line
मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥
2.10.18
अनुष्टुप्metre not read in every line
दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च ।
2.10.32
अनुष्टुप्metre not read in every line
चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ॥ १९ ॥निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः ।
2.10.33
अनुष्टुप्metre not read in every line
भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥
2.10.20
अनुष्टुप्
व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ।
2.10.35
अनुष्टुप्
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥शुनको भषकः श्वा स्यादलर्कस्तु स रोगितः ।
2.10.36
अनुष्टुप्
श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी ॥ २२ ॥
2.10.22
अनुष्टुप्
विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः ।
2.10.38
अनुष्टुप्
आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम् ॥ २३ ॥
2.10.23
अनुष्टुप्
दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः ।
2.10.40
अनुष्टुप्
चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः ।
2.10.41
अनुष्टुप्
चौरिका स्तैन्यचोर्ये च स्तेयं लोप्त्रं तु तद्धने ॥ २५ ॥
2.10.25
अनुष्टुप्
वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् ।
2.10.43
अनुष्टुप्
उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ॥ २६ ॥
2.10.26
अनुष्टुप्
शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः ।
2.10.45
अनुष्टुप्
उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥
2.10.27
अनुष्टुप्
पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः ।
2.10.47
अनुष्टुप्
वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥
2.10.28
अनुष्टुप्
पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता ।
2.10.49
अनुष्टुप्metre not read in every line
जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु ।
2.10.50
अनुष्टुप्metre not read in every line
पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका ॥ २९ ॥भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका ।पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥ ३० ॥
2.10.30
अनुष्टुप्metre not read in every line
नध्री वध्री वरत्रा स्यादश्वादेस्ताडनी कशा ।
2.10.52
अनुष्टुप्
चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥ ३१ ॥
2.10.31
अनुष्टुप्
नाराची स्यादेषणिका शाणस्तु निकषः कषः ।
2.10.54
अनुष्टुप्
व्रश्चनःपत्रपरशुरीषिका तूलिका समे ॥ ३२ ॥
2.10.32
अनुष्टुप्
तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ।
2.10.56
अनुष्टुप्
आस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ ३३ ॥
2.10.33
अनुष्टुप्
वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः ।
2.10.58
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ ३४ ॥
2.10.34
metre not recognised
सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम् ।
2.10.60
अनुष्टुप्metre not read in every line
प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ ३५ ॥
2.10.35
अनुष्टुप्metre not read in every line
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥साधारणः समानश्च स्युरुत्तरपदे त्वमी ।निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥
2.10.37
अनुष्टुप्metre not read in every line
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ।भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ॥ ३८ ॥
2.10.38
अनुष्टुप्
सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा ।गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता ॥ ३९ ॥मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् ।
2.10.64
अनुष्टुप्
शुण्डा पानं मदस्थानं मधुवारा मधुक्रमाः ॥ ४० ॥
2.10.40
अनुष्टुप्
मध्वासवो माधवको मधु माध्वीकमद्वयोः ।
2.10.66
अनुष्टुप्
मैरेयमासवः सीधुर्मेदको जगलः समौ ॥ ४१ ॥
2.10.41
अनुष्टुप्
सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः ।
2.10.68
अनुष्टुप्
कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका ॥ ४२ ॥
2.10.42
अनुष्टुप्
चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् ।
2.10.70
अनुष्टुप्
धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः ॥ ४३ ॥
2.10.43
अनुष्टुप्
स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः ।
2.10.72
अनुष्टुप्
द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ ४४ ॥
2.10.44
अनुष्टुप्
पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते ।
2.10.74
अनुष्टुप्
परिणायस्तु शारीणां समन्तान्नयने स्त्रियाम् ॥ ४५ ॥
2.10.45
अनुष्टुप्
अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः ।
2.10.76
अनुष्टुप्
उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः ।ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ॥ ४६ ॥
2.10.46
अनुष्टुप्

इति शूद्रवर्गः

इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।द्वितीयकाण्डो भूम्यादिः साङ्ग एव समर्थितः ॥ ४७ ॥
2.10.47
अनुष्टुप्metre not read in every line