All kośas › Abhidhānacintāmaṇi
अभिधानचिन्तामणि Abhidhānacintāmaṇi
1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)
मर्त्यकाण्डः (7/7)
पणितव्यं तु विक्रेयं पण्यं सत्यापनं पुनः ॥ ८७१ ॥सत्यंकारः सत्याकृतिस्तुल्यौ विपणविक्रयौ ।
3.721 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त्या (wrong syllable)
गण्यं गणेयं संख्येयं संख्या त्वेकादिका भवेत् ॥ ८७२ ॥
3.872 · p. 35
अनुष्टुप्metre not read in every line
यथोत्तरं दशगुणं भवेदेको दशामुतः ।शतं सहस्रमयुतं लक्षप्रयुतकोटयः ॥ ८७३ ॥अर्बुदमब्जं खर्वं च निखर्वं च महाम्बुजम् ।शङ्कुर्वार्धिरन्त्यं मध्यं परार्धं चेति नामतः ॥ ८७४ ॥
3.874 · p. 35
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 र्बु (wrong syllable); pāda 3, syllable 5 र (wrong syllable)
सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् ॥ ८७५ ॥वोहित्थं वहनं पोतः पोतवाहो नियामकः ।निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी ॥ ८७६ ॥तरीतरिण्यौ वेडी च द्रोणी काष्ठम्बुवाहिनी ।
3.725 · p. 35
अनुष्टुप्
केनिपातः कोटिपात्रमरित्रेऽथोडुपः प्लवः ।कोलो भेलस्तरण्डश्च स्यात्तरपण्यमातरः ॥ ८७९ ॥
3.879 · p. 35
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र (wrong syllable)
वृद्ध्याजीवो द्वैगुणिको वार्धुषिकः कुसीदकः ।वार्धुषिश्च कुसीदार्थप्रयोगौ वृद्धिजीवने ॥ ८८० ॥
3.880 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षि (wrong syllable)
वृद्धिः कलान्तरमृणं तूद्धारः पर्युदञ्चनम् ।
3.731 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
याच्ञयाप्तं याचितकं परिवृत्त्यापमित्यकम् ॥ ८८१ ॥
3.881 · p. 35
अनुष्टुप्metre not read in every line
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
3.886 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
चतुर्विंशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः ।तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ ८८७ ॥गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् ।
3.737 · p. 35
अनुष्टुप्
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ ।कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥ ८९० ॥गोदारणं हलमीषासीते तद्दण्डपद्धती ।
3.741 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
शूद्रान्त्यवर्णौ वृषलः पद्यः पज्जो जघन्यजः ॥ ८९४ ॥ते तु मूर्धाभिषिक्ताद्यारथकृन्मिश्रजातयः ।
3.748 · p. 36
अनुष्टुप्
क्षत्त्रियायां द्विजान्मूर्धाभिषिक्तो विट्स्त्रियां पुनः ॥ ८९५ ॥अम्बष्ठोऽथ पारशवनिषादौ शूद्रयोषिति ।
3.749 · p. 36
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable); pāda 3, syllable 5 ष्यो (wrong syllable)
वैश्यात्तु करणः शूद्रात्त्वायोगवो विशः स्त्रियाम् ।
3.751 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
क्षत्त्रियायां पुनः क्षत्ता चण्डालो ब्राह्मणस्त्रियाम् ॥ ८९७ ॥
3.897 · p. 36
अनुष्टुप्metre not read in every line
वैश्यात्तु मागधः क्षत्त्र्यां वैदेहिको द्विजस्रियाम् ।
3.753 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हि (wrong syllable)
सूतस्तु क्षत्त्रियाज्जात इति द्वादश तद्भिदः ॥ ८९८ ॥
3.898 · p. 36
अनुष्टुप्metre not read in every line
शिल्पं कला विज्ञानं च मालाकारस्तु मालिकः ।पुष्पाजीवः पुष्पलावी पुष्पाणामवचायिनी ॥ ९०० ॥
3.900 · p. 36
अनुष्टुप्
कल्यपालः सुराजीवी शौण्डिको मण्डहारकः ।वारिवासः पानवणिग्ध्वजो ध्वज्यासुतीबलः ॥ ९०१ ॥
3.901 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
मद्यं मदिष्ठा मदिरा परिस्रुता कश्यं परिस्रुन्मधु कापिशायनम् ।गन्धोत्तमा कल्यमिरा परिप्लुता कादम्बरी स्वादुरसा हलिप्रिया ॥ ९०२ ॥शुण्डा हाला हारहूरं प्रसन्ना वारुणी सुरा ।माध्वीकं मदना देवसृष्टा कापिशमब्धिजा ॥ ९०३ ॥
3.903 · p. 36
इन्द्रवंशा
मद्यक्लीमदिष्ठास्त्रीमदिरास्त्रीपरिस्रुतास्त्रीकश्यक्लीपरिस्रुत्स्त्रीमधुक्लीकापिशायनक्लीगन्धोत्तमास्त्रीकल्यक्लीइरास्त्रीपरिप्लुतास्त्रीकादम्बरीस्त्रीस्वादुरसास्त्रीहलिप्रियास्त्रीशुण्डास्त्रीहालास्त्रीहारहूरक्लीप्रसन्नास्त्रीवारुणीस्त्रीसुरास्त्रीमाध्वीकक्लीमदनास्त्रीदेवसृष्टास्त्रीकापिशक्लीअब्धिजास्त्री
जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहूः ॥ ९०४ ॥नग्नहुर्मद्यबीजं च मद्यसंधानमासुतिः ।आसवोऽभिषवो मद्यमण्डकारोत्तमौ समौ ॥ ९०५ ॥
3.905 · p. 36
अनुष्टुप्
गल्वर्कस्तु चषकः स्यात्सरकश्चानुतर्षणम् ।
3.762 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
सपीतिः सहपानं स्यादापानं पानगोष्ठिका ।
3.764 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
पिञ्जनं विहननं च तूलस्फोटनकार्मुकम् ।
3.774 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
सेवनं सीवनं स्यूतिस्तुल्यौ स्यूतप्रसेवकौ ॥ ९१२ ॥
3.912 · p. 36
अनुष्टुप्metre not read in every line
उपानत्पादुका पादूः पन्नद्धा पादरक्षणम् ॥ ९१४ ॥प्राणहितानुपदीना त्वाबद्धानुपदं हि या ।
3.779 · p. 36
अनुष्टुप्metre not read in every line
नद्ध्री वर्द्ध्री वरत्रा स्यादारा चर्मप्रभेदिका ॥ ९१५ ॥
3.915 · p. 36
अनुष्टुप्metre not read in every line
व्योकारः कर्मारो लोहकारः कूटं त्वयोघनः ।
3.789 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्मा (wrong syllable)
भक्ष्यकारः कान्दविकः कन्दुस्वेदनिके समे ।
3.791 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
रङ्गाजीवस्तौलकिकश्चित्रकृच्चाथ तूलिका ॥ ९२१ ॥कूचिका चित्रमालेख्यं पलगण्डस्तु लेप्यकृत् ।
3.792 · p. 36
अनुष्टुप्metre not read in every line
पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी ॥ ९२२ ॥क्षुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि ।
3.793 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)
मुण्डनं भद्राकरणं वपनं परिवापनम् ॥ ९२३ ॥क्षौरं नाराची त्वेषण्यां देवाजीवस्तु देवलः ।
3.794 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ची (wrong syllable)
शुम्बं वराटको रज्जुः शुल्वं तन्त्री वटी गुणः ॥ ९२८ ॥
3.928 · p. 37
अनुष्टुप्metre not read in every line
धीवरे दाशकैवर्तौ बडिशं मत्स्यवेधनम् ।
3.804 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः ।मांसिकः कौटिकश्चाथ सूना स्थानं वधस्य यत् ॥ ९३० ॥
3.930 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
उन्माथः कूटयन्त्रं स्याद्विवर्णस्तु पृथग्जनः ।इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ ९३२ ॥
3.932 · p. 37
अनुष्टुप्
चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः ।निषादप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ ९३३ ॥
3.933 · p. 37
अनुष्टुप्
पुलिन्दा नाहला निष्ट्याः शबरा वरुटा भटाः ।माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४ ॥
3.934 · p. 37
अनुष्टुप्