कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मसूरा

masūrāस्त्री · fem.

In 6 kośas: 6 synonym verses, 2 as a nānārtha head word.

मसुरा स्यान्मसूरा च मसुरो मसुरः समाः ।मूकुटः स्यान्मुकुष्ठोऽपि मुकुष्ठकमुकुष्ठकौ (मुकूष्ठको ?) ॥ २२३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.400 · p. 177
श्यामार्द्धचन्द्रा विदला कालिङ्गी कालमेष्यपि ।मसूरा सुषणी काली त्रिवेला स्यादथापरा ॥ ४०० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.64 · p. 173
प्रोक्ता चन्दनमूला सा मसूरा कालपेशिका ।चर्मरङ्गा बिन्दुकिनी विभाण्डी पीतकालिका ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बि (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.41 · p. 275
मसुरा च मसूरा च द्वंद्वे स्याद्व्रीहिकाञ्चनः ।मङ्गल्यकश्चाथ समौ मकुष्टक-मयुष्टकौ ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.33 · p. 139
स्यान्मसूरो मसूरा च मसूरो ब्रीहिकाञ्चनम् ।मङ्गल्यकोऽपि मङ्गल्यो मसूरी मसुरीत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.252 · p. 239
मसूरा मसुराऽप्येते वेश्यायामपि वार्द्धयः ।कलाये सतीनकः स्यात् सातीनश्च सतीनवत् ॥ २५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable)
genderस्त्रीfem.
शिवकोष Śivakoṣa · शिवदत्तमिश्र रत्रिः Śivakoṣa 22.3.406 · p. 37
भक्षरः स्वर्जिकाक्षारे गण्डाख्यलवणेऽपि च ।मसूरा मसुरा चापि त्रिविद्धान्यविशेषयोः ॥ ४०६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.96 · p. 272
मसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् ।पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने ।मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने ।मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः ।मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ल्ली (wrong syllable)