मसूर
masūraपुं · masc.In 21 kośas: 25 synonym verses, 4 as a nānārtha head word, 4 as a meaning of another word.
मङ्गल्यको मसूरः स्यात्कलायस्तु सतीनकः ॥ ११७० ॥हरेणुः खण्डिकश्चाथ चणको हरिमन्थकः ।
अनुष्टुप्
genderपुंmasc.
मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ ।वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
मङ्गल्यको मसूरः स्यात्सिद्धार्थः सर्षपः स्मृतः ।आसुरी राजिका चेति कथ्यते राजसर्षपः ॥ ५८१ ॥
अनुष्टुप्
genderपुंmasc.
राजमुद्गे मरुष्ठः स्यात् जलकस्तुलकस्तिलः ।तिलपुष्पे वज्रपुष्पं मसूरस्तु मसूरकः ॥ २६१ ॥
अनुष्टुप्
genderपुंmasc.
मसुरा स्यान्मसूरा च मसुरो मसुरः समाः ।मूकुटः स्यान्मुकुष्ठोऽपि मुकुष्ठकमुकुष्ठकौ (मुकूष्ठको ?) ॥ २२३ ॥
अनुष्टुप्
genderपुंmasc.
सूरो मसूरो मङ्गल्यो रक्तपर्यायदालिकः ।पृथुकल्याणगुडतो बीजः कृष्णे वसन्तकः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
तृणकेतुर्यवफलो वंशः कर्मार इत्यपि ।शतपर्वा दृढग्रन्थिर्मसूरोप्याढकीफलः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
नालिकेरस्य शारस्य बहुकरकुठारयोः ।स्यान्मसूरशफरयोर्वल्लरस्य ततः पुनः ॥ १२० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 हु (wrong syllable); pāda 3, syllable 4 र (wrong syllable)
genderपुंस्त्रीm. f.
बहुकर ऊरुर्हारोगीः शारो मुद्गरो वध्रः ।वल्लर-शफर-मसूराःसहचर-कृशरौ कुठार-नालिकेरौ च ॥ २८ ॥
metre not recognised
genderपुंस्त्रीm. f.
महोदयं कांस्यमृगव्यचव्य-वणिज्यवीर्याणि तमिस्र-शस्त्रे ।त्वक्क्षीरकादम्बर-मन्दिराणिमसूरनासीरयुतानि तद्वत् ॥ ८३ ॥
उपजातिः
genderस्त्रीक्लीf. n.
असुरो दानवरव्योः स्त्री तु रजन्यां तथा वास्याम् ।मसुरमसूरौ द्वंद्वे धान्यविशेषे स्त्रियां तु वेश्यायाम् ॥ ८० ॥
उद्गीतिः
genderपुंस्त्रीm. f.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderपुंmasc.
यवे हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् ।मङ्गल्यके मसूरः स्यात् कलाये तु सतीनकः ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
तिलपुष्पं वज्रपुष्पं मसूरस्तु मसूरकः ।अलसान्द्रे राजमाषो निष्पावः श्वेतशिम्बिका ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
मङ्गल्यको मसूरस्तु मयुष्टकमकुष्टकौ ।वनव्रीहौ तु नीवारः श्यामाकः श्यामकोऽपि च ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
किटश्चपेटो गुडशुण्डशाणागर्ताजमोदौ रथवारिपर्णौ ।कुठारहारौ शफरो मसूरोवर्ध्रो विधो मुद्गरनालिकेरौ ॥ १११ ॥
उपजातिः
genderपुंस्त्रीm. f.
कादम्बरमसूरौ तु त्वक्षीरं जम्बुना सह ।रोदः सदः सरो दामोषस्तयट्प्रमुखा इति ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
व्याघ्रे द्विपादद्विपिनौ(?) मसूरश्चण्डकोपनः ।शिवाङ्गे तु तरक्षुः स्यात्तरक्षश्च विसारकः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कोद्रवाख्ये धान्यभेदे कोरदूषः प्रकीर्तितः ।स्यात्स्वल्पचणके सूरमसूरो(रौ?) मिरिदोऽपि च ॥ ४२८ ॥
अनुष्टुप्
genderपुंmasc.
मसूरो मृदुलो वाती मुद्गो हव्योऽज्ञभूर्लघुः ।आढकी वातकी धन्या मारीचश्चणकः पुटी ॥ २५९ ॥
अनुष्टुप्
genderपुंmasc.
मङ्गल्यको मसूरः स्यात् सातीनस्तु सतीनकः ।कलायः खण्डिकश्चैव हरेणुस्त्रिपुटः पुनः ॥ २११० ॥
अनुष्टुप्
genderपुंmasc.
स्यान्मसूरो मसूरा च मसूरो ब्रीहिकाञ्चनम् ।मङ्गल्यकोऽपि मङ्गल्यो मसूरी मसुरीत्यपि ॥
अनुष्टुप्
genderपुंmasc.
आशुव्रीहिः कलमस्तु कडमश्च कलामकः ।मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
व्रीहिश्यामाकगोधूमयवमुद्गतिलाणवः ।माषप्रियङ्गुनीवारकोरदूषमसूरकाः ।गवीधुका कुलित्थश्च यज्ञीयास्ते चतुर्दश ॥ ११८६ ॥
अनुष्टुप्
genderपुंmasc.
वसन्तश्चाऽथ मसुरो मसूरो व्रीहिकाञ्चनः ।सर्षपः स्यात्सरिषपः कटुस्नेहश्च तन्तुभः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
मसूरश्च मसूरी च व्रीहौ पापरुजि क्रमात् ।करीरस्तरुभेदः स्यात्कलशे वैणवाङ्कुरे ॥
अनुष्टुप्
meaningsव्रीहि
मसूरमसुरौ पुंसि द्वावेतावपि चैतयोः ।मधुरं विषे स्त्रियां द्राक्षामिश्रेयामागधीषु च ॥ ४०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् ।पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने ।मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने ।मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः ।मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ल्ली (wrong syllable)
meaningsव्रीहि
मसूर as a meaning in nānārtha verses
- कोषकल्पतरु मङ्गल्यस्यात्पावके चाथ मसूरबिल्व- त्रायन्तिकाबोधिषु चादिलिङ्गे । मङ्गल्य उक्तश्चरमे तु दध्नि स्यान्मङ्गलार्हे सुचिरेऽन्यवच्च ॥ ७५ ॥ Koṣakalpataru 6.26.75
- नानार्थार्णवसंक्षेप मङ्गल्यज्ञेयं सर्वौषधिस्नाने दध्नि चाथ नृलिङ्गकः । बिल्वे मसूरसंज्ञे च धान्ये स्याद्रभसः पुनः ॥ १३२० ॥ Nānārthārṇavasaṃkṣepa 4.1320
- शिवकोष मङ्गल्यमङ्गल्यो ग्रन्थिलाश्वत्थमसूरारिष्टवार्षिके । स्त्रियां तु शम्यधःपुष्पीमिसिधीरप्रियङ्गुषु ॥ ३५७ ॥ Śivakoṣa 21.2.357
- शब्दरत्नावली मङ्गल्यपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46