All kośas › Dvirūpadhvanisaṅgraha
द्विरूपध्वनिसङ्ग्रह Dvirūpadhvanisaṅgraha
278 verses · 2,126 words tagged · 225 marked doubtful (dashed)
Part 2 (2/3)
मूर्वमूर्वी च भण्डी स्याद् भण्डारी भण्डिरी तथा ।काशपर्णी केशपर्णी निदिग्धा स्यान्निदिग्धिका ॥ १२१ ॥
121 · p. 64
अनुष्टुप्
कलशिः कलशी च स्याद् धारणिर्धारणी अपि ।उषणा स्यादूषणा च पिप्पली पिप्पलिर्भवेत् ॥ १२२ ॥
122 · p. 64
अनुष्टुप्
कालेयकोऽपि कालेयः कालीयकः समा इमाः ।भण्डिरो भण्डिलश्चोक्तो भण्डीरोऽपि विचक्षणैः ॥ १२४ ॥
124 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
शेफालिका च शेफालिः शेफाली च निगद्यते ।सोमराजी मता साधं नान्तेन सोमराजिना ॥ १२५ ॥
125 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
आस्फोत अपि आस्फोटो वनमाल्यपराजिते ।नीलिनी अपि नीली स्यात्त्रिणं तृण(णं) त्रणे अपि ॥ १२६ ॥
126 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तृ (wrong syllable)
तुल्यौ सिहुण्डसीहुण्डौ स्नुक् स्नुही च स्नुहिः स्नुहा ।वज्री वज्रा च गदितो स्नुह्या भाग्यां(?) च कोविदः ॥ १२७ ॥
127 · p. 65
अनुष्टुप्
वाद्यालकः स्याद्वाद्यालः सुवहा सवहा भवेत् ।पालिन्दी अपि पालिन्धी दीप्यो दीप्यक उच्यते ॥ १२८ ॥
128 · p. 65
अनुष्टुप्
ह्रिवेरमपि ह्रीवेरं सल्लकी सिल्लकी भवेत् ।निष्कुटिर्निष्कुटा च स्यात् कदली कदलो भवेत् ॥ १२९ ॥
129 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
वार्ताकवार्तवार्ताकुवार्ताक्यः स्युः समा इह ।नान्तवार्तकिशब्दश्च जम्बूः स्त्री जम्बुजाम्बवम् ॥ १३० ॥
130 · p. 65
अनुष्टुप्
कार्पासी अपि कर्पासी तुवरी तूवरी भवेत् ।नन्दीवृक्षो नन्दिवृक्षः कचिन्दः स्यात् कचिन्दकः ॥ १३१ ॥
131 · p. 65
अनुष्टुप्
तुण्डिकेरी तुण्डिकेरि बिम्बी स्यादपि बिम्बिका ।स्थौणेयमपि थौणेयं थोणेयकमपीरितम् ॥ १३२ ॥
132 · p. 65
अनुष्टुप्
गण्डकारी गण्डकाली दार्वी दर्वीच दर्विका ।जीवन्ती जीवनी जीवा जीवनीया च कथ्यते ॥ १३३ ॥
133 · p. 65
अनुष्टुप्
दन्तिकाप्युच्यते दन्ती मल्लकः स्यान्मूलूकवत् ।यमानिका यमानी च यवानी च त्रयं समम् ॥ १३.४ ॥
134 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न्मू (wrong syllable)
कम्पिल्वः कापिलश्च स्यात् काम्पिल्लश्च नखं नखी ।प्रपुन्नाडः प्रपुनडः प्रपुनाडश्च कथ्यते ॥ १३५ ॥
135 · p. 65
अनुष्टुप्
मुकुन्दकः मुकुन्दोऽत्र मुकुन्दुकमुकुन्दकौ(मुकन्दुकौ?) ।भृङ्गराजो भृङ्गरजः सरणा सरणी तथा ॥ १३६ ॥
136 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भृ (wrong syllable)
इर्वारुरपि एर्वारुरुर्वारुश्च समं त्रयम् ।ककर्कटिः स्यात् कर्कटी च त्रिपुषं (त्रपुषं?) तथा ॥ १३७ ॥
137 · p. 65
अनुष्टुप्metre not read in every line
पटोलिका पटोली स्यात् कूलकं कुलकं कुलम् ।तुम्बिस्तुम्बी च तुम्बश्च तुम्बकश्च समा अमी ॥ १३८ ॥
138 · p. 65
अनुष्टुप्
अलावूरण्यालावः स्यात् आलावुरपि लावुवत् ।लावुकालावुरप्येषा लावूरपि निगद्यते ॥ १३९ ॥
139 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्या (wrong syllable)
कुष्माण्डकश्च कुष्माण्डा कुष्माण्डोऽपि समास्त्रयः ।उपादिकाऽप्युपोदीकोत्पादिकोपादिका समाः ॥ १४ ॥
14 · p. 66
अनुष्टुप्
पूतिका पोतिका च स्यात् पोतकी च समा इमाः ।हिलमोची निगदिता कोविदैर्हिलमोचिका ॥ १४१ ॥
141 · p. 66
अनुष्टुप्
कलम्बी स्यात् कलम्बूश्च वास्तूकं वास्तुकं समे ।वर्वरी वर्वरा शाके मारिषी मारुषो भवेत् ॥ १४२ ॥
142 · p. 66
अनुष्टुप्
पुण्डर्यामपि पौण्डर्यं रसोनश्च रसोनकः ।मुसुस्ता मुस्तकं स्यात् … नटावपि ॥ १४३ ॥
143 · p. 66
अनुष्टुप्metre not read in every line
पुण्ड्रः पौण्डः पुण्ड्रकश्च पौण्ड्रकश्च समा इमाः ।कान्तारकश्च कान्तारः श्यामाकः श्यामकः समौ ॥ १४ ॥
14 · p. 66
अनुष्टुप्
अमृणालं मृणालं च शीरषीरे उभे समे ।यवसं जवसं च स्यात् तलस्तालोऽपि कथ्यते ॥ १४५ ॥
145 · p. 66
अनुष्टुप्
नारिकोल नारिकेली नाडिकेलादयस्तथा ।तत्रेबन्ता लाङ्गली स्यान्नान्तोऽपि लागली मतः ॥ १४६ ॥
146 · p. 66
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)
गुवाकः स्यात् गूवाकोऽपि क्रमुः स्यात् क्रमुकोऽपि च ।ताडिस्ताडी च तालिश्च ताली अपि निगद्यते ॥ १४७ ॥
147 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गू (wrong syllable)
केशरी केसरी च स्यात् शूकरः शुकरस्तथा ।किरिः किरः स्यात् प्लवगः प्लवङ्गश्च प्लवङ्गमे ॥ १४८ ॥
148 · p. 66
अनुष्टुप्
वनरो वानरोऽपि स्यात् भाल्लूको भल्लुकस्तथा ।भालूको भाल्कोऽपि स्याद्भल्बूको भल्वुकस्तथा ॥ १४९ ॥
149 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भा (syllables merged)
कृष्णशारः कृष्णसारः कुरङ्गः स्यात् कुरङ्गमाः (मः?) ।खड्गः खड्गी च कथितः समौ जम्बूकजम्बुकौ ॥ १५० ॥
150 · p. 67
अनुष्टुप्
उन्दुरः स्यादुन्दुरुश्च मूषामूषिकमूषिकाः (मूषकाः?) ।तुल्या गोधैव गौधारगौधेयाः परिकीर्तिताः ॥ १५१ ॥
151 · p. 67
अनुष्टुप्
नीलाङ्गुरपि नीलङ्गुः क्रमिः (क्रिमिः?) कृमिरुभौ समौ ।अलिरालिरली आली पुमांसो वृश्चिके मताः ॥ १५२ ॥
152 · p. 67
अनुष्टुप्
समा… च द्वौ कुवरः कूवरस्तथा ।पारावतः पारवतः पारापत इमे समाः ॥ १५३ ॥
153 · p. 67
अनुष्टुप्metre not read in every line
हरितो हारितश्चोक्तो मुनिपक्षिविशेषयोः ।शरारिश्च शरालिः स्यादाटिराडिश्च कथ्यते ॥ १५४ ॥
154 · p. 67
अनुष्टुप्
जीवञ्जीवो जीवजीवो वरटी वरटा भवेत् ।लक्ष्मणा लक्षणा चोक्ता जतूका जतुकापि च ॥ १५५ ॥
155 · p. 67
अनुष्टुप्
गन्धोली अपि गन्धाली वरटो वरटा भवेत् ।शकुन्तिश्च शकुन्तः स्यात् शकुनिः शकुनो भवेत् ॥ १५६ ॥
156 · p. 67
अनुष्टुप्
विहङ्गमो विहङ्गश्च विहगश्च समास्त्रयः ।पक्षः स्यात् पक्षसा साधं चञ्चुश्चञ्चुरुभे समे ॥ १५७ ॥
157 · p. 67
अनुष्टुप्
त्रोटिस्त्रोटी च पेशिः स्यात् पेशी शावश्च शावकः ।उर्णनाभोऽप्यूर्णनाभिर्मूषली मुसली भवेत् ॥ १५८ ॥
158 · p. 67
अनुष्टुप्
पुरुषः पूरुषश्च स्याद् योषित् योषितया सह ।योषा जोषा च महिला महेलाऽपि निगद्यते ॥ १५९ ॥
159 · p. 67
अनुष्टुप्
पुरन्ध्री स्यात् पुरन्ध्रिश्च युवतिर्युवती समे ।तरुणी तलुनी प्रोक्ता वधूटी वधूका वधूः ॥ १६० ॥
160 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 धू (wrong syllable)
जनिर्जनी च कथिता घर्षिणी घर्षणी अपि ।कोट्टवी कोटवी च स्यात् प्रसूता च प्रसूतिका ॥ १६१ ॥
161 · p. 67
अनुष्टुप्
निष्कला निष्कली पुत्री पुत्रिका पुत्रका भवेत् ।ननान्दा स्यान्ननन्दा च भग्नी स्याद्भगिनी अपि ॥ १६२ ॥
162 · p. 68
अनुष्टुप्
मातुलानी मातुली च मातुला च निगद्यते ।यामिर्जामिश्च गदितो यामिनिर्यामिनी तथा ॥ १६३ ॥
163 · p. 68
अनुष्टुप्
धीरैः स्वसृकुलस्त्रियोः … ।देवा च देवरस्तुल्यौ सोदरश्च सहोदरः ॥ १६४ ॥
164 · p. 68
अनुष्टुप्metre not read in every line
जम्पती दम्पती स्यातां नप्त्री नप्ता च दृश्यते ।वार्धक्यं वार्धकं च स्याद् वलिनो वलितः समौ ॥ १६५ ॥
165 · p. 68
अनुष्टुप्
तुन्दिलस्तुन्दिकस्तुन्दी तुन्दितोऽपि प्रकीर्तितः ।पोगण्डः स्यादपोगण्डः पृश्निः पृष्णिरुभौ समौ ॥ १६६ ॥
166 · p. 68
अनुष्टुप्
विखो विस्त्रो विखुर्विस्त्नः खोड(खोर?)खोडावुभौ समौ ।खञ्जः स्यात् खञ्जकस्तुल्यौ भैषज्यभेषजे उभे ॥ १६७ ॥
167 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज्य (wrong syllable)
अम आमो रुजा रुक् च पीनसः स्यादपीनसः ।प्रतिश्यायः प्रतिश्या च यक्ष्मा जक्ष्मा च कथ्यते ॥ १६८ ॥
168 · p. 68
अनुष्टुप्
ईर्ममीर्म च तुल्यं स्यात् कासः काशश्च कथ्यते ।दर्द्रुर्दर्द्रूस्तथा दद्रुर्दद्रूरपि निगद्यते ॥ १६९ ॥
169 · p. 68
अनुष्टुप्
शोथः शोफः सिध्वसिध्मं पामपामे उभे समे ।दुर्नामकं स्याद्दुर्नाम वमी वमिरपि रमृता ॥ १७० ॥
170 · p. 68
metre not recognisednearly अनुष्टुप्
छर्दिः सान्ता च छर्दिः स्यात् छर्दिका छदिरित्यपि ।अतिसारोऽप्यतीसारः श्लेष्मनः श्लेष्मणः समौ ॥ १७१ ॥
171 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
वातूलः स्याद्वातसहस्तत्र वातासहोऽपि च ।तुण्डिलस्तुण्डिभस्तुल्यौ पललं पलमुच्यते ॥ १७२ ॥
172 · p. 68
अनुष्टुप्
वल्लूरमपि वल्वूरा हृदयं हृदपि स्मृतम् ।[वुक्कं] वुक्का च वुक्की च मेदः स्यान्मेदसा सह ॥ १७३ ॥
173 · p. 68
अनुष्टुप्
धमनिर्धमनी नाडी नाडिर्नालिः शिरा सिरा ।क्लोम क्लोमं प्लिहन् प्लीहन् प्लिहाप्लीहे अपि स्मृते ॥ १७४ ॥
174 · p. 69
अनुष्टुप्
सृणिका सृणीका च स्याद् भवेद्दूषी च दूषिका ॥ १७५ ॥
175 · p. 69
तनुस्तनूश्च देहे स्यात् सान्तया तनुषा सह ।घुटिर्घुटी च घुटिका घुटोऽपि स्यात् कटिः कटी ॥ १७७ ॥
177 · p. 69
अनुष्टुप्
श्रोणिश्रोण्यौ योनियोन्यौ क्रोडकोडे उभे समे ।शेफः शेफाः शेफशेपौ शेवः पञ्च समा मताः ॥ १७८ ॥
178 · p. 69
अनुष्टुप्
कल्वः कल्वी वर्ष्मन् वर्ष्मं नाभिर्नाभी च दृश्यते ।चुचूकं चुचुकं मध्यं मध्यमं च भुजो भुजा ॥ १७९ ॥
179 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
बाहुर्बाहश्च बाहा च दोर्दोषापि निगद्यते ।कफोणिश्च कफणिः स्यात् कफोनी कफनी अपि ॥ १८० ॥
180 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
अङ्गुलीमङ्गुलिं चाहुरङ्गुरीमङ्गुरिं तथा ।प्रदेशिनी(?)प्रदेशिन्यौ प्रसृतिः प्रसृतः समौ ॥ १८१ ॥
181 · p. 69
अनुष्टुप्
चपेटश्चर्पटश्च स्यान्नखरो नखरा नखः ।जिह्वो जिह्वा च रसना रसनं चिवुकं चिवुः ॥ १८२ ॥
182 · p. 69
अनुष्टुप्
नसा नासा नासिका च तत्र नस्यापि युज्यते ।सृक्कणी सृक्वणी सृकाण सृक्कानीऽपि प्रकीर्त्यते ॥ १८३ ॥
183 · p. 69
metre not recognisednearly अनुष्टुप्
ललाटेऽलीकमलिंक भवेत् काक्षः कटाक्षवत् ।श्रवः स्यात् श्रवसा सार्धं शिरोऽपि शिरसा सह ॥ १८४ ॥
184 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
रोमलोमा च विख्यातं मस्तं स्यान्मस्तकं तथा ।चिकुरश्चिकुरश्चोक्तो जटा जटिरपि स्मृतः ॥ १८५ ॥
185 · p. 69
अनुष्टुप्
कवरी कवरश्च स्यात् शिखण्डक(शिखण्डिका?)शिखण्डकौ ।मूकुटं मुकुटं तुल्ये किरीटं स्यात् किरीटकम् ॥ १८६ ॥
186 · p. 70
अनुष्टुप्
ग्रैवेयकः स्याद्ग्रैवेयं हारो हारा च कथ्यते ।परिहार्यः पारिहार्यः आवापावापकौ समौ ॥ १८७ ॥
187 · p. 70
अनुष्टुप्
ताडङ्कोऽपि च तालङ्कोऽप्यवतंसो वतंसवत् ।तुलाकोटिस्तुलाकोटी किङ्किणी किङ्कणी अपि ॥ १८८ ॥
188 · p. 70
अनुष्टुप्
शृङ्खला शृङ्खलं च स्यात् काञ्ची काञ्चिरुभे समे ।कौशेयमपि कोषेयं स्यादाहतमनाहतम् ॥ १८९ ॥
189 · p. 70
अनुष्टुप्
वराशिः स्याद्वरासिश्च निवीतं निवृतं समे ।बृहती स्याद्बृहतिका शाटकः शाटिका भवेत् ॥ १९० ॥
190 · p. 70
अनुष्टुप्
रल्लोऽपि रल्लकः कूर्पासक कूर्पास उच्यते ।चोललिः स्यान्निचोलिस्तु निचोली निचुलस्तथा ॥ १९१ ॥
191 · p. 70
अनुष्टुप्
जवनी स्याजवनिका मार्जो मार्जा मृजा तथा ।चर्चिक्यमपि चार्चिक्यं चर्चा च चर्चिका समाः ॥ १९२ ॥
192 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
बाह्लीकं बाह्लिकं लाक्षा राक्षा रक्षाऽत्र चेष्यते ।कालीयकं च कालेयं कालेयकमपीरितम् ॥ १९३ ॥
193 · p. 70
अनुष्टुप्
जायकं जाषकं च स्याद् वंशिका वंशिकं समे ।यष्टीमधु विनिर्दिष्टं यष्टिमध्वपि कोविदैः ॥ १९४ ॥
194 · p. 70
अनुष्टुप्
कक्कोलकं स्यात् कक्कोलं बानवानावुभौ समौ ।गेण्डूको गेण्डुको गेण्डुः समानौ कन्दुकन्दुकौ ॥ १९५ ॥
195 · p. 70
अनुष्टुप्
संपुटः स्यात् संपुटकः समुद्गः स्यात् समुद्गकः ।कङ्कती स्यात् कङ्कतिका कङ्कतं च समं त्रयम् ॥ १९६ ॥
196 · p. 70
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable); pāda 3, syllable 5 क (wrong syllable)
मुकरो मकुरश्चैवं मङ्कुरश्च समास्त्रयः ।कुलीनकौल्यकौलेया महाकुलमहाकूलौ ॥ १९७ ॥
197 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 कू (wrong syllable)
तुल्यौ प्राज्ञो भवेत् प्रज्ञः प्रज्ञानप्रज्ञिनौ समौ ।अन्तेवासी अन्तवासी स्यात् पर्षत् परिषत् समे ॥ १९८ ॥
198 · p. 71
अनुष्टुप्
भवेदास्थानमास्थानी अरणि अरणी समे ।सनिः सनी च गदिता यती यतिरृषी रिषिः ॥ १९९ ॥
199 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र (wrong syllable)
तर्जनीयुक्त अङ्गुष्ठे प्रादेशः स्यात् प्रदेशवत् ।धुवित्रं च धवित्रं स्यादुपासनमुपासना ॥ २० ॥
20 · p. 71
अनुष्टुप्
लिपिलिविरुभे तुल्ये लिखनं लेखनं भवेत् ।परिपाटिर्निगदिता परिपाटी च पण्डितैः ॥ २०१ ॥
201 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
क्षत्रः स्यात् क्षत्रिये दूत्यं दौलं चारश्चरः समौ ।अपसर्पोऽवसर्पश्च चामरा चामरं समे ॥ २०२ ॥
202 · p. 71
अनुष्टुप्
आमात्यः स्यादमात्योऽग्रेसराप्यग्रसरः समौ ।मौहूर्तिकः स्यान्मौहूर्तो ज्योतिषं ज्यौतिषं भवेत् ॥ २०३ ॥
203 · p. 71
अनुष्टुप्
यौतुकं यौतकं च स्याद् घोटके घोट उच्यते ।पीतिः पीथिश्च तुरगस्तुरङ्गोऽपि तुरङ्गमः ॥ २०४ ॥
204 · p. 71
अनुष्टुप्
… वानायुजवनायुजौ ।समौ स्थौरी तथा स्थोरी तथा अश्वीय आश्ववत् ॥ २०५ ॥
205 · p. 71
अनुष्टुप्metre not read in every line
हेषा ह्रेषा च कविका कवी स्यात् कविरित्यपि ।खलीनः खलिनस्तुल्यौ खुरः क्षुर उदाहृतः ॥ २०६ ॥
206 · p. 71
अनुष्टुप्
लाङ्गूलमपि लङ्गूलं ललामः स्यात् ललाम च ।नेमी नेमिश्च कथिता अलिरालिरली समाः ॥ २०७ ॥
207 · p. 71
अनुष्टुप्
पिण्डी स्यात् पिण्डिका तुल्यौ वैनीतकविनीतकौ ।स्यात् कङ्कटकङ्कटकः समानौ सैन्यसैनिकौ ॥ २०८ ॥
208 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ट (wrong syllable)
अपिनद्धः पिनद्धः स्यात् समौ जङ्घालजङ्घिलौ ।पादातिः स्यात् पदातिश्च पादातोऽपि पदातिकः ॥ २०९ ॥
209 · p. 71
अनुष्टुप्
शौटीर्यमपि शौटीरं लालसा लालसो भवेत् ।आरातिरप्यरातिः स्याद् आमर्षोऽमर्ष उच्यते ॥ २११ ॥
211 · p. 72
अनुष्टुप्
रुषा रुट् स्यात् क्रुधा क्रुट् च ईर्षा त्वीर्ष्याऽपि कथ्यते ।आपद्भवेदापदया विपद्विपदया सह ॥ २१२ ॥
212 · p. 72
अनुष्टुप्
धनुः सान्तमुषन्तोऽपि धनुरेवं धनूर्मता ।घनु(?)र्धन्व च तुल्य(ल्ये?) द्वे रिष्टिरृष्टिरुभे समे ॥ २१३ ॥
213 · p. 72
अनुष्टुप्
मूषलो मुषलश्चैव मुसलो मूसल(लाः?) समाः ।द्रुघणो द्रुघनस्तुल्यौ कुद्दालं(लः?) स्यात् कुदालवत् ॥ २१४ ॥
214 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ल (wrong syllable)
परशुः पर्शुरप्युक्तः कुठारः स्यात् कुठार्यपि ।शर्वला शर्वली च स्यात् सर्वला सर्वली तथा ॥ २१५ ॥
215 · p. 72
अनुष्टुप्
क्षुरप्रं स्यात् खुरप्रं च फलकं च फलं भवेत् ।इलिः स्यादीलिलीली च इली च छुरिका छुरी ॥ २१६ ॥
216 · p. 72
अनुष्टुप्
पालिः पाली अश्रिरश्री अश्रः कोटिश्च कोट्यपि ।घण्टिका घाटिकश्च स्यान्मागधो मगधः समौ ॥ २१७ ॥
217 · p. 72
अनुष्टुप्
शुष्मं शुष्मं च संस्फोटः संस्फेटश्च समावुभौ ।आयुः सान्तमुदन्तोऽपि आयुरुक्तो मनीषिभिः ॥ २१८ ॥
218 · p. 72
अनुष्टुप्
विट् स्यात् वैश्यश्च वाणिज्यं वाणिज्याऽपि निगद्यते ।कुषीदं च कुशीदं च कुसीदं च समं त्रयम् ॥ २१९ ॥
219 · p. 72
अनुष्टुप्
तैलीनमपि तिल्यं स्यान्माष्यं माषीन उच्यते ।आणवीनमणव्यं स्यादुम्यमौमीनमुच्यते ॥ २२० ॥
220 · p. 72
अनुष्टुप्
कैदारिकं स्यात् कैदार्यं कैदरिकमपीरितम् ।कुषिकः कृषिकश्च स्यात् कोटीपः कोटीशस्तथा ॥ २२१ ॥
221 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 द (wrong syllable); pāda 4, syllable 5 टी (wrong syllable)
पाटलः पाटलिर्धान्ये सतीनः स्यात् सतीनकः ।सर्षपः सरिषपो यावो यावको यवको भवेत् ॥ २२२ ॥
222 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मसुरा स्यान्मसूरा च मसुरो मसुरः समाः ।मूकुटः स्यान्मुकुष्ठोऽपि मुकुष्ठकमुकुष्ठकौ (मुकूष्ठको ?) ॥ २२३ ॥
223 · p. 73
अनुष्टुप्
मपष्टः स्यान्मयष्टश्च मपष्टकमयष्टकौ ।शमिः शमी शिम्बिशिम्बे सिम्बा सिम्बिरपीष्यते ॥ २२४ ॥
224 · p. 73
अनुष्टुप्
गवेधुका गवेधुश्च गवेडुरपि कथ्यते ।कंगुः कंगूरपि भवेत् स्यूतः स्योतश्च दृश्यते ॥ २२५ ॥
225 · p. 73
अनुष्टुप्
पिटः पेटाकपिटकावुदूखलमुलूखलम् ।भवेदुद्धानमुद्ध्मानं चुल्लिश्चुल्ली च कथ्यते ॥ २२६ ॥
226 · p. 73
अनुष्टुप्
हसन्ती हसनी चाङ्गारधान्यङ्गारधानिका ।आलातं स्यादलातं चालिञ्जरो लञ्जरो भवेत् ॥ २२७ ॥
227 · p. 73
अनुष्टुप्
कलसः कलसी च स्यात् कलशः कलशी अपि ।सरावः स्यात् शरावोऽपि कुण्डं कुण्डी च कथ्यते ॥ २२८ ॥
228 · p. 73
अनुष्टुप्
ऋजीषं स्यादृचीषं च कसः कास्यमपि स्मृतम् ।दर्विः स्याद्दर्विका दर्वी खजाका खज उच्यते ॥ २२९ ॥
229 · p. 73
अनुष्टुप्
धन्याकं धान्यकं धान्यं धनिकं च धनीयकम् ।धनेयकं च धान्याकं धन्या चाष्टौ समानि च ॥ २३० ॥
230 · p. 73
अनुष्टुप्
वेशवारो वेसवारः काञ्जी काञ्जिक काञ्जीकम् ।आरनालकमुद्दिष्टमारनालं च कोविदैः ॥ २३१ ॥
231 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ञ्जी (wrong syllable)
कडम्बश्च कलम्बोऽपि जीरो जीरक उच्यते ।ग्रन्थीकं ग्रन्थिकं च स्यात् शुल्बी शुल्विरुभे समे ॥ २३२ ॥
232 · p. 73
अनुष्टुप्
उषणं स्यादूषणं च मरीचं मरिचं तथा ।त्र्युषणं त्र्यूषणं चाहुस्त्रैफलां त्रिफलामपि ॥ २३३ ॥
233 · p. 73
अनुष्टुप्
जयपालं च जैपालं तुल्ये भूतिकभूतीके ।जातीफलं जातिफलं हिण्डीरहिण्डिरौ समौ ॥ २३ ॥
23 · p. 73
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 ती (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
मणिमन्थं माणिमन्थं रौमं रोमकमुच्यते ।रामठं रमठं प्रोक्तं माध्वीकमपि माध्विकम् ॥ २३५ ॥
235 · p. 73
अनुष्टुप्
हिड्गुलि(लिः) हिड्गुलः प्रोक्तः स्फटिकं स्फाटिकं भवेत् ।आमीक्षा स्यात्तथाऽमीक्षा कूर्चिका कुर्चिका समे ॥ २३६ ॥
236 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
स्याद्यवागुर्यवागूश्च करम्भः करभः समौ ।पूपः प्यूपो (पोऽप्यूपो?) विज्जलस्तु विज्जलं विजिलं समम् ॥ २३७ ॥
237 · p. 73
अनुष्टुप्
अभ्यूषः स्यादभ्युषोऽपि अभ्योषोऽपि समा इमाः ।चिपिटः स्याच्चिपिटकः चिपिटश्च (चिपटश्च?) समात्रयः ॥ २३८ ॥
238 · p. 73
अनुष्टुप्
क्षुत् क्षुधा तृट् तृषा तर्षो जमनं जेमनं भवेत् ।ऋषभो वृषभः शण्ढः शण्डः षण्डश्च दृश्यते ॥ २३९ ॥
239 · p. 73
अनुष्टुप्
नैचिकी निचिकी च स्यान्नीचिकी नीचकस्तथा ।अनड्वाही छन्दसि स्याद् भाषायामनडुह्यपि ॥ २४० ॥
240 · p. 73
अनुष्टुप्