कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

त्रिवृत्

trivṛtस्त्री · fem.

In 9 kośas: 10 synonym verses, 4 as a nānārtha head word, 14 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.155
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ।त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका ॥ १०८ ॥काला मसूरविदलार्धचन्द्रा कालमेषिका ।
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.399 · p. 177
दन्तीबीजं मलद्रावि तिन्तिडीफलमित्यपि ।कुम्भी घण्टाभवं बीजमथ मालविका त्रिवृत् ॥ ३९९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 171
तित्तिरीफलमप्युक्तं द्रवन्तीसंभवं फलम् ।कुम्भस्त्रिभण्डी त्रिवृता सरला सरडा त्रिवृत् ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 283
पर्याप्तमुपसंपन्नमिष्टं क्लीबे यथेप्सितम् ।सर्पिर्मज्जा वसा तैलमिति स्नेहचतुष्टयी ॥द्वाभ्यां तु यमकस्ताभ्यां त्रिभिस्त्रिवृन्नामकः ।महांश्चतुर्भिरुदितो वैद्यशास्त्रविचक्षणैः ॥स्नेहमात्रोत्तमानन्ना प्राग्भक्ताल्पावपीडकः ।पाशुपाल्यं जीववृत्तिर्गोमान्गोमी गवीश्वरः ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 वृ (syllables merged)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.195 · p. 72
पीता लीत्याह्वये घण्टारवा तु शणपुष्पिका ।द्राक्षा मधुरसा स्याद्वी मृद्वीका गोस्तनी रसी ।त्रिपुटा रसना श्वेता रेचनी त्रिवृता त्रिवृत् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.585 · p. 75
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ।त्रिभाण्डी रोचनी गोधापदी च सुवहा समे ॥ ५८५ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.2 · p. 35
ध्रुवस्तारस्त्रिवृद्ब्रह्म वेदाद्य(दि)स्तारकोव्ययः ।प्रणवश्च त्रिमात्रोऽपि ओङ्कारो ज्योतिरादिमः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
प्रणवस्तारकोऽव्यक्तो वेदादिश्च शिवोऽव्ययः ।आदिमश्च ध्रुवोङ्कारौ मूलज्योतिः शिवादिकः ।त्रिवृद्ब्रह्मा त्रिमात्रश्च शब्दाः प्रणववाचकाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.137 · p. 56
सिंहपुच्छी फेरुविन्ना चित्रांघ्रिः क्रोष्टुमेखला ।नागर्यां केशिका त्र्यश्रा त्रिपुटा त्रिपुटी त्रिवृत् ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.10 · p. 136
पिंजनं स्याद्विहननं धराणां प्रविसारणम् ।कल्पनं कर्तनं तुल्ये त्रिवृतं तु त्रिवृत्त्रिषु ॥ १० ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.540 · p. 89
तिर्यक् तु साचिभेदे त्रिर्नरं त्वाह पशुष्वमुम् ।त्रिवृत् स्त्री त्रिवृतासंज्ञलताभेदेऽथ पुंसि सः ॥ ५४० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.541 · p. 89
नवसङ्ख्यात्मके स्तोमे त्रि तु स्तोत्रे च तद्वति ।तद्युक्तेऽप्यहरादौ स्याद् रज्ज्वादौ त्रिगुणे तथा ॥ ५४१ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.865 · p. 123
श्वेताख्ये स्त्री त्रिगुणिते पुनः स्यात् त्रिरथ स्त्रियाम् ।चिञ्चायां तिन्त्रिणी दैत्यविशेषे तु पुमानयम् ॥ ८६५ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र तत्रिः Śivakoṣa 12.2.192 · p. 18
जीवन्तो रक्तमाषे स्यात् जीमूते मुस्तघोषयोः ।त्रिवृतः स्नेहभेदे स्यात्त्रिवृता त्वरुणाभिदि ॥ १९२ ॥
अनुष्टुप्

त्रिवृत् as a meaning in nānārtha verses

  • कोषकल्पतरु अरुणमञ्जिष्ठातिविषात्रिवृत्सु वनिता तद्रागवत्स्वन्यव- द्वृक्षे पुंसि रसान्तरे च करुणः प्रोक्तो दयायां स्त्रियाम् । सूर्ये वारिपतौ तरौ च वरुणोऽथो कुब्जपुष्पे भवे- देरण्डे तरुणः स यूनि परवत्स्याद्दारुणो ना रसे ॥ १८ ॥ Koṣakalpataru 6.15.18
  • कोषकल्पतरु विषघ्नीस्त्रियां गुडूचीत्रिवृतोः शिखी तु वह्नौ वृषे स्याद्विशिखे च वृक्षे । केतुग्रहे केकिनि कुक्कुटे च स्याच्छार्ङ्गकेषु त्रितये सचूडे ॥ ७४ ॥ Koṣakalpataru 6.21.74
  • कोषकल्पतरु रेचनीन स्त्री वारिजपद्मयोश्च नलिनं मालाकृतस्तु स्त्रियां छन्दोभिद्यपि मालिनी सुरसरिद्गौर्योश्च चम्पापुरि । पुंनागे तु सिते वधूभिदि तथा स्याच्चोरपुष्प्यामपि स्याच्छङ्खिन्यथ पद्मिनी च वनिताभेदे सरःपद्मयोः । हस्तिन्यां करिणी स्त्रियामथ भवे द्विप्रस्त्रियां भट्टिनी नाट्योक्तौ नृपतेः स्त्रियामपि वृषाक्रान्ता तु गौः संधिनी । याकालेऽपि लसत्पयास्त्रिवृति तु स्याद्रेचनी शेवनी दन्त्योश्चाथ*सूरणे नरि मुसल्यां तु स्मृता योषिति ॥ ९८ ॥ Koṣakalpataru 6.21.98
  • कोषकल्पतरु कुम्भराशिप्रभेदे गजमूर्द्धपिण्डे पुमांस्त्रिवृद्गुग्गुलुगस्तु षण्ढे । स्त्री वारिपर्ण्यां गमि(?) पाटलायां गर्भोऽर्भके स्याज्जठरे च संधौ ॥ ४१ ॥ Koṣakalpataru 6.24.41
  • कोषकल्पतरु मलयान च योषिति स स्त्रियां पुनः त्रिवृति स्यादथ विस्मयोऽद्भुते । अपि गर्वगतेऽथ मृत्युवाची प्रलयः कल्पविराममूर्च्छिते च ॥ ५९ ॥ Koṣakalpataru 6.26.59
  • नानार्थार्णवसंक्षेप कुम्भीकट्फलाख्ये वारिपर्णीसंज्ञतोयतृणान्तरे । त्रिवृत्संज्ञलताजातौ पुनः कुम्भेति दृश्यते ॥ २२० ॥ Nānārthārṇavasaṃkṣepa 2.5.220
  • नानार्थार्णवसंक्षेप त्र्यश्रागन्तुं विवेकशून्यत्वादित्येवं कश्चिदब्रवीत् । त्र्यश्रा स्त्रियां त्रिवृत्संज्ञवल्ल्यां त्र्यश्रौ तु सा त्रिषु ॥ ५०७ ॥ Nānārthārṇavasaṃkṣepa 2.5.507
  • नानार्थार्णवसंक्षेप महतीमहर्लोके च बुद्धौ च महती तु स्त्रियामियम् । त्रिवृत्संज्ञलताजातौ वीणायां नारदस्य च ॥ ९६९ ॥ Nānārthārṇavasaṃkṣepa 2.5.969
  • नानार्थार्णवसंक्षेप रोचनीईकारान्ता तु संज्ञेया रोचनी त्रिवृदाह्वये । लताभेदे परेऽन्ये तु कृष्णत्रिवृति मन्वते ॥ १५२८ ॥ Nānārthārṇavasaṃkṣepa 4.1528
  • शिवकोष रेचनीसूपधूपनके क्लीबं रेचनो रक्तचूर्णके । रेचनी स्त्रुक्त्रिवृद्दोलाभयाह्रासमुकूलके ॥ २६४ ॥ Śivakoṣa 16.1.264
  • शिवकोष कुम्भकुम्भं त्रिवृद्गुग्गुलयोर्भद्रास्थालीहठे स्त्रियाम् । रम्भा तु मृत्युपुष्पायां स्याद्रम्भः षट्पदालये ॥ ३२३ ॥ Śivakoṣa 19.1.323
  • शिवकोष मसूराभक्षरः स्वर्जिकाक्षारे गण्डाख्यलवणेऽपि च । मसूरा मसुरा चापि त्रिविद्धान्यविशेषयोः ॥ ४०६ ॥ Śivakoṣa 22.3.406
  • शिवकोष मसूरमसूरमसुरौ पुंसि द्वावेतावपि चैतयोः । मधुरं विषे स्त्रियां द्राक्षामिश्रेयामागधीषु च ॥ ४०७ ॥ Śivakoṣa 22.3.407
  • शिवकोष कालकालं मोघात्रिवृद्दोलामञ्जिष्टाकृष्णजीरके । गाङ्गेरुक्यां चाथ काली स्यात्कदल्यामथो कुली ॥ ४३८ ॥ Śivakoṣa 23.1.438