कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मङ्गल्यक

maṅgalyakaपुं · masc.

In 11 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.93 · p. 46
मङ्गल्यको मसूरः स्यात्कलायस्तु सतीनकः ॥ ११७० ॥हरेणुः खण्डिकश्चाथ चणको हरिमन्थकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.17
मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ ।वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.581 · p. 66
मङ्गल्यको मसूरः स्यात्सिद्धार्थः सर्षपः स्मृतः ।आसुरी राजिका चेति कथ्यते राजसर्षपः ॥ ५८१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.41 · p. 275
मसुरा च मसूरा च द्वंद्वे स्याद्व्रीहिकाञ्चनः ।मङ्गल्यकश्चाथ समौ मकुष्टक-मयुष्टकौ ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.388 · p. 210
यवे हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् ।मङ्गल्यके मसूरः स्यात् कलाये तु सतीनकः ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.89 · p. 63
मङ्गल्यको मसूरस्तु मयुष्टकमकुष्टकौ ।वनव्रीहौ तु नीवारः श्यामाकः श्यामकोऽपि च ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.429 · p. 80
मङ्गल्यकश्च मङ्गल्यो मञ्चितो मञ्चिदोऽप्यथ ।वनमुद्गे तु मङ्कुष्ठो मङ्कुष्ठकमयष्ठिकौ ॥ ४२९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2110 · p. 349
मङ्गल्यको मसूरः स्यात् सातीनस्तु सतीनकः ।कलायः खण्डिकश्चैव हरेणुस्त्रिपुटः पुनः ॥ २११० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.33 · p. 139
स्यान्मसूरो मसूरा च मसूरो ब्रीहिकाञ्चनम् ।मङ्गल्यकोऽपि मङ्गल्यो मसूरी मसुरीत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.251 · p. 238
आशुव्रीहिः कलमस्तु कडमश्च कलामकः ।मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1421 · p. 172
वरको बालनालोऽथ मङ्गल्यकमसूरकौ ।सतीनको हरेणुः स्यात् कलायः खण्डिकश्च सः ॥ १४२१ ॥
अनुष्टुप्
genderपुंmasc.