मसूरी
masūrīस्त्री · fem.In 6 kośas: 5 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.
क्षुद्ररोगविशेषाः स्युर्मसूरी चाजगल्लि[155b]का ।इन्द्रविद्धा मण्डला च कक्षा तूक्ताग्निरोहिणी ॥ ६५ ॥
metre not recognised
genderस्त्रीfem.
पापरोगो रक्तवटी मसूरी च मसूरिका ।वसन्तोऽप्पतिसारः स्यादन्नगन्धिर्यमारकः ।शतारुषी शतारुश्च कुष्ठभेदे द्वयं भवेत् ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
स्यान्मसूरो मसूरा च मसूरो ब्रीहिकाञ्चनम् ।मङ्गल्यकोऽपि मङ्गल्यो मसूरी मसुरीत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
पापरोगो रक्तवटी मसूर्यथ तमोव्रणः ।वल्मीकोऽथातिसारोऽन्नगन्धिः स्यादुदरामयः ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderस्त्रीfem.
धरण्यां करकोत्पाटावुद्भिज्जे पाण्डुवर्णकः ।मारिर्मसूरी रुग्भेदाः शूलाद्या विद्रधिर्न षण् ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
मसूरश्च मसूरी च व्रीहौ पापरुजि क्रमात् ।करीरस्तरुभेदः स्यात्कलशे वैणवाङ्कुरे ॥
अनुष्टुप्
meaningsपापरुज्
व्रीहिकङ्काख्यधान्ये तु मसूरी स्त्री तथा भवेत् ।मारिसंज्ञे रोगभेदे वेश्यायां रभसोऽपठीत् ॥ १३७६ ॥
अनुष्टुप्
मसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् ।पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने ।मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने ।मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः ।मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ल्ली (wrong syllable)
meaningsपापरोग
मसूरी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मारिकवचे चाथ मारिः स्यान्मसूरीसंज्ञके गदे । सर्वलोकतते मृत्यौ तथा स्याद्देवतान्तरे ॥ ७८ ॥ Nānārthārṇavasaṃkṣepa 2.1.78