कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यद्वद

yadvadaवि · adj.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.11 · p. 18
यद्वदोऽनुत्तरे दुर्वाक्कद्वदे स्यादथाधरः ॥ ३४७ ॥हीनवादिन्येडमूकानेडमूकौ त्वावाक्श्रुतौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्वा (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.377 · p. 44
यद्भविष्यो दैवपरो यद्वदः स्यादनुत्तरः ।अज्ञो मातृमुखः प्रोक्तो दुर्मुखो मुखरः स्मृतः ॥ ३७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.74 · p. 222
कद्वदो गर्ह्यवाग्दुर्वाग्यद्वदोनुत्तरेपि च ।अथानेडो वर्कटः स्यादधरो हीनवादिनि ॥ ७४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.11 · p. 2
गर्ह्यवादी कद्वदोऽथ यद्वदः स्यादनुत्तरः ।अथोऽधरो हीनवादी लोहलस्त्वस्फुटब्रुवः ॥ ११ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.13 · p. 102
वदावदो वदो वक्ता वाचाटः कद्वदश्च सः ।समौ जल्पाकवाचालौ यद्वदोऽनुत्तरस्तु सः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.513 · p. 65
यद्वदोऽनुत्तरः स्याद्वै दुर्वाक् तु कद्वदस्तथा ।अधरो हीनवादी स्यादिडमूकस्त्ववाक्श्रुतः ॥ ५१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.30 · p. 203
यद्भविष्यो दैवपरो यद्वदः स्यादनुत्तरः ।परीक्षकः कारणिक उद्युक्ते प्रसितोत्सुकौ ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
genderविadj.