कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वक्तृ

vaktṛवि · adj.

In 10 kośas: 9 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.346 · p. 18
वागीशो वाक्पतौ वाग्मी वाचोयुक्तिपटुः प्रवाक् ।समुखो वावदूकोऽथ वदो वक्ता वदावदः ॥ ३४६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.62
वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.71 · p. 222
वदो वदावदो वक्ता वाचोयुक्तिपटुः पुनः ।वागीशो वाक्पतिर्वाग्मी वावदूकोऽतिवक्तरि ॥ ७१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.8 · p. 1
पटीयांश्च पटिष्ठश्च पटोः स्यादतिशायने ।पटिमा पुंसि भावेऽस्य पटुता पाटवं तथा ॥कुशलस्य तु भावे स्यात्कौ[158b]शल्यं कौशलं नपुम् ।नदीष्णस्तु नदीस्नानकुशलः परिकीर्तितः ॥व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतश्च समार्थकाःवदो वदावदो वक्ता वग्नुश्च गदयित्नुवत् ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.13 · p. 102
वदावदो वदो वक्ता वाचाटः कद्वदश्च सः ।समौ जल्पाकवाचालौ यद्वदोऽनुत्तरस्तु सः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.512 · p. 65
अथ वदावदो वक्ता वदः स्याद्बहुगर्ह्यवाक् ।वाचाटश्चापि वाचालः जल्पाकः कथ्यते बुधैः ॥ ५१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.43 · p. 161
यः समञ्चति सम्यङ् स्यादद्रङ् त्वमुकञ्चति ।वदावदो वदो वक्ता त्रयं सामान्यवक्तरि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1667 · p. 200
वावदूको वदो वादी वक्ता वाग्मी वदावदः ।स्याद्वाचोयुक्तिकुशलो वागीशो वाक्पतिः प्रवाक् ॥ १६६७ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.45 · p. 204
वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ।वाचोयुक्तिपटुर्वाग्ग्मी वावदूकश्च दक्षवाक् ॥ ४५ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.50 · p. 217
वक्ता स्यात्पण्डिते पुंसि वावदूके तु वाच्यवत् ।व्यक्तं व्याप्ते व्याकुले च व्यक्तः स्यात्पण्डिते स्फुट ॥
अनुष्टुप्

वक्तृ as a meaning in nānārtha verses