रेषण
reṣaṇaक्ली · neut.In 8 kośas: 8 synonym verses.
genderक्लीneut.
बुक्कणं च वृकध्वाने भषणं भेषितं शुनाम् ।वृषस्य रेषणं रेषा हेषा ह्रेषा च वाजिनाम् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
कूजितं स्याद्विहङ्गानां तिरश्चां वासितं रुतम् ।वृषस्य रेषणं रेषा वुक्कनं भषणं शुनः ॥ १०७ ॥
अनुष्टुप्
genderक्लीneut.
रेषा रेषणमेष वृकोत्थःकुक्कुरजे स्तो बुक्क[न]भषणे ।विस्फारः स्याद्धनुषो नादोमौर्वीनिनदष्टंकारः स्यात् ।समरेषु पराक्रम्य शूराणां हर्षजे ध्वनौ ।घु(बु)क्कारः सिंहनादः स्यात्क्ष्वेडा क्ष्वेडितमन्तिमे ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वृकशब्दो रेषणं स्याद् रेषा च पुनरुच्यते ।बुक्कनं स्याच्छुनः शब्दे भषणं च प्रयुज्यते ॥ २५५५ ॥
अनुष्टुप्
genderक्लीneut.
रेषण-रेषे, तन्त्र्यास्तु प्रक्वाणः-प्रक्वणो रवे ।गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष (wrong syllable)
genderक्लीneut.
वृकाणां रेषणं रेषा भषितं भुक्कितं शुनाम् ।क्रन्दनं योधि संरावे स्रोतसां खरकस्वनः ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
बुक्कनं श्ववृध्वाने भषणं भषितं शुनः ।वृकस्य रेषणं रेषा हेषा ह्रेषा च वाजिनाम् ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.