All kośas › Bālaprabodhikā
बालप्रबोधिका Bālaprabodhikā
357 verses · 2,901 words tagged · 725 marked doubtful (dashed)
चतुर्थोपदेशः
इति नत्कीरविरचितायां बालप्रबोधिकायां तृतीयोपदेशः ।
शब्दो व्योमगुणः स्वानं प्रस्वनस्वननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनी रवः ।कर्णिह्रासो रसे भ्रूणा कन्धः कण्ठश्च घोषणः ॥ ५९ ॥
4.59 · p. 71
अनुष्टुप्
गुञ्जनं मुञ्जने चापि गञ्जनं मशनं तथा ।कानहानं कारणं च भेरणं क्वजनं क्वजी ॥ ६० ॥
4.60 · p. 71
अनुष्टुप्
कूजितं गर्जनं गर्जा क्रोशनं प्लुतभेदके ।आरवारस्वारवणो रवो रावविराववत् ।वाशनं वाशितं च स्याद्ध्वान्ते घोरनिवासितम् ॥ ६१ ॥
4.61 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वा (wrong syllable)
समुद्रनिनदो धूर्जा घोणितं तुरगस्वने ।नन्दनं रम्भितं रम्भा रम्भणं च गवां ध्वनिः ॥ ६२ ॥
4.62 · p. 71
अनुष्टुप्
बुक्कणं च वृकध्वाने भषणं भेषितं शुनाम् ।वृषस्य रेषणं रेषा हेषा ह्रेषा च वाजिनाम् ॥ ६३ ॥
4.63 · p. 71
अनुष्टुप्
बृंहितं करिणां शब्दे… स्त्रीरणितं रते ।काकुश्च भिन्नकण्ठोऽर्थशोककोपादि वैकृतात् ॥ ६४ ॥
4.64 · p. 71
अनुष्टुप्metre not read in every line
डक्कणं हात्कृते पत्रवस्त्रादीनां तु मर्मरः ।पर्दनं गुदशब्दे स्यात्कुक्षौ कर्दनमित्यपि ॥ ६५ ॥
4.65 · p. 71
अनुष्टुप्
धनुर्ध्वाने तु टङ्कारो विष्कारश्च निगद्यते ।शिञ्जितं क्वणितं शिञ्जीभूषाशब्दः प्रकीर्तितः ॥ ६६ ॥
4.66 · p. 71
अनुष्टुप्
प्रणादस्त्वनुरागोत्थः विकृतश्चक्रनिस्वने ।नदीध्वानेरव… युद्धध्वानेऽप्यसूरकः ।क्रन्दनं गुञ्जनं चाथ मार्जारा मुरजध्वनौ ॥ ६७ ॥
4.67 · p. 71
अनुष्टुप्metre not read in every line
गुन्दिदो मर्दलध्वाने बाणे हिटुकडक्कपाः ।भेरीनादे तु भाङ्कारः क्वणतः क्वणनं कणः ।पृक्वाणो निक्वणः क्वाणः वीणायाः क्वणिते मतः ॥ ६८ ॥
4.68 · p. 72
अनुष्टुप्
प्रतिश्रुतिः प्रतिध्वाने तुमुलो व्याकुलो भृशम् ।गम्भीरशब्दो मन्द्रः स्यात् स्फुटे रम्ये कलः स्मृतः ॥ ६९ ॥
4.69 · p. 72
अनुष्टुप्
अत्युच्चारणवर्णे स्यात्पण्डितोऽपि समाहितः ।एणीकृतः प्रतिध्वान दन्तु …कलस्तु गलमूलस्थो गद्गदः समरास्फुटः ।लोलको बालानुकृतौ लल्वरो जिह्वया हतः ।अशिष्टार्थे सङ्कुलः स्यादन्विते वीतधाविकौ ॥ ७० ॥
4.70 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ला (wrong syllable)
आहतं तु मृषार्थं स्यादवाच्यकमनर्थकम् ।शुभा वाक् सुप्रलापा स्याद्दैन्यगर्भा तु नश्वरी ॥ ७१ ॥
4.71 · p. 72
अनुष्टुप्
निर्वेदगर्भा निस्सङ्गा स्नेहगर्भा तु वालुकी ।विरहे खण्डिता मोहे शून्या लोभे तु लाङ्गली ॥ ७२ ॥
4.72 · p. 72
अनुष्टुप्
आक्षेपे निष्ठुरा तु स्याद्वाक्यं तु वचनं वचः ।आम्रेडितं द्विस्त्रिरुक्तं गुणितं घोषितं रुतम् ॥ ७३ ॥
4.73 · p. 72
अनुष्टुप्