कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वासित

vāsitaवि · adj.

In 13 kośas: 18 synonym verses, 3 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.414 · p. 20
भावितं तु वासितं स्यात्तुल्ये सम्मृष्टशोधिते ॥ ४१४ ॥
metre not recognised
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.230
चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.46
चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.398 · p. 64
चूर्णानि वासयोगाः स्युर्वासितं भावितं त्रिषु ।प्रियंगुः फलिनी श्यामा प्रियवल्ली फलप्रिया ॥ ३९८ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.287 · p. 164
विज्जलं स्याद्विजिविलमथ सम्मृष्टशोधिते ।भावितं वासितं चापि धूपिते वस्तुनि त्रिषु ॥ २८७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.107 · p. 450
कूजितं स्याद्विहङ्गानां तिरश्चां वासितं रुतम् ।वृषस्य रेषणं रेषा वुक्कनं भषणं शुनः ॥ १०७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 229
स्थानात्स्थानान्तरं गच्छन्धूमो गन्धपिशाचकः ।तरूणां प्रसवाधायी भवेद्दोहदधूपकः ।चूर्णोऽस्त्री वासयोगाः स्युर्भावितं वासितं त्रिषु ।पिष्टातः पटवासः[95a] स्यादुद्य(?)लिप्तक इत्यपि ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.299 · p. 89
पक्षिणां कूजितं नादस्तिरश्चां वासितं रुतम् ।भषणं बुक्कनं श्वानध्वाने रेषा वृकोद्भवे ॥ २९९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.82 · p. 111
सम्मृष्टशोधिते तुल्ये वासितं भावितं समम् ।काञ्जिके त्वारनालं स्याद्धान्याम्लं काञ्जिकं तथा ॥ ८२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.192 · p. 49
सुगन्धवासितद्रव्ये भावितं वासितं स्मृते ।गन्धपुष्पादिसंस्कारेऽधिवासनमितीष्यते ॥ १९२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.470 · p. 86
जलसंपृक्तपिष्टादौ चिक्कणं मसृणं तथा ।सुगन्धवासितजले वासितं भावितं तथा ॥ ४७० ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.358 · p. 25
वासितं पाशवारावो ह्रेषितं वाजिनिस्वनः ।कोलाहलः कलकलो बृंहितं गजगर्जितम् ॥ ३५८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.622 · p. 81
वासितं भावितं धूपैः पुष्पाद्यैश्च सुगन्धिते ।स्वच्छं कृतं भवेद्वस्तु सम्मृष्टं शोधितं तथा ॥ ६२२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2554 · p. 413
पुनः प्रोक्तं विहङ्गानां कूजनं कूजितं द्वयम् ।तिरश्चां वाशितं चैव प्रसिद्धं वासितं रुतम् ॥ २५५४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.405 · p. 29
कोलाहलः कलकलः कालकीलोऽपि कुत्रचित् ।वासितं वाशितं यत् स्याद् यः शब्दपशुपक्षिणाम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.404 · p. 108
गन्धचूर्णं वासयोगः पटवासन्तु चूर्णकम् ।जलादौ वासिते द्वे तु भावितं वासितं त्रिषु ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.100 · p. 144
स्निग्धं मसृणमामृष्टं चिक्कणं चिक्कचक्कणे ।सुधूपिते व्यञ्जनादौ भवितं वासितञ्च तत् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1152 · p. 142
श्रीसंज्ञं देवकुसुमं लवङ्गं च परे समे ।तक्कोलकोशफलके त्रिषु भावितवासिते ॥ ११५२ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास तश्लोकः Dharaṇikośa 15.3.18 · p. 84
वासिता स्त्री करिणी स्याद्वासितं सुरभीकृतम् ।ख्याते ध्वाने ज्ञानमात्रे वासितं वस्त्रवेष्टितम् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.28 · p. 222
सूतायां तु भवेत्स्त्रियां च विकृतेऽन्याभं विजातं कृतेखण्डे रुग्भिदि वालुकासु सिकता देशेऽस्त्रियां शार्करे ।ध्वाने चाङ्गविलेपनेऽथ परवत्त्वामोदिते वासितंस्त्रीभ्योः स्त्री पिशितं पुनश्च पलले मांस्यां स्त्रियां सम्मतम् ॥ २८ ॥
शार्दूलविक्रीडितम्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.133 · p. 222
व्याघातः स्यादन्तराये प्रहारे योगभिद्यपि ।वासिता हस्तिनीनार्य्योः क्लीबं स्याद्भाविते रुते ॥
अनुष्टुप्

वासित as a meaning in nānārtha verses