कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्ष्वेडा

kṣveḍāस्त्री · fem.

In 16 kośas: 17 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.46 · p. 53
क्ष्वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.177
क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.785 · p. 90
सिंहनादो भवेत् क्ष्वेडा गण्डूषो मुखपूरणम् ।प्रभावतां वदन्त्यार्याः प्रभुतां प्रभविष्णुताम् ॥ ७८५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.355 · p. 128
क्ष्वेडा स्त्री सिंहनादो ना क्ष्वेडितं पुंनपुंसकम् ।नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम् ॥ ३५५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.393 · p. 293
लैङ्गी स्वयंभूश्चण्डाली कृतच्छिद्रा चुजालिनी ।मृदङ्गवल्लिनी क्ष्वेडा सैवोक्ता कृतवेधना ॥ ३९३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.8 · p. 318
द्विपः पञ्चशिखश्चाथ नादेऽप्यस्य मरुत्प्लवः ।टक्कारोऽपि च चुत्कार स्त्रियां क्ष्वेडाऽथ भीरुकः ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.8 · p. 461
क्ष्वेडा वंशशलाकायां वाद्यभेदे तथा ध्वनौ ।गृह्या शाखापुरे प्रान्तेऽन्तिका कीला रताहते ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.61 · p. 72
रेषा रेषणमेष वृकोत्थःकुक्कुरजे स्तो बुक्क[न]भषणे ।विस्फारः स्याद्धनुषो नादोमौर्वीनिनदष्टंकारः स्यात् ।समरेषु पराक्रम्य शूराणां हर्षजे ध्वनौ ।घु(बु)क्कारः सिंहनादः स्यात्क्ष्वेडा क्ष्वेडितमन्तिमे ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.34 · p. 98
स्रुग्गीतिवल्लीभिदि बन्धुता स्या-द्गजस्य बन्धे घटिकासु वारिः ।क्ष्वेडा तु शल्यध्वनिवाद्यभेदेस्याद्दुन्दुभिः पाशकबिन्दुवाची ॥ ३४ ॥
उपजातिः
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र लताकाण्डः Nighaṇṭuśeṣa 3.321 · p. 173
कोशातक्यां कृष्णच्छत्रा जाली घोषा सुतिक्तिका ।मृदङ्गफलिका क्ष्वेडा घण्टाली कृतवेधना ॥ ३२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.296 · p. 89
क्ष्वेडा सिंहध्वनिः शब्दस्तुमुलो व्याकुलः स्वनः ।भटानां तु कलकलः कोलाहल इतीरितः ॥ २९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.40 · p. 215
शल्यवाद्यभिदोः क्ष्वेडा वारिः स्त्री गजबन्धभूः ।अश्मन्ते त्वन्तिकारण्यानी यवानी हिमान्यपि ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.243 · p. 17
सिंहनादो वीरनादः क्ष्वेडा विजयनिःस्वनः ।आतो मृगव्यं मृगया मांसं पललमामिषम् ॥ २४३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2549 · p. 413
पर्दनं गुदजः शब्दः कर्दनं कुक्षिजः पुनः ।क्ष्वेडा तु सिंहनादोऽस्ति भटानां गर्जना युधि ॥ २५४९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.21 · p. 251
निनादो निनदो नाद आरावो राव आरवः ।रवो विरावः संरावः, क्ष्वेडा क्ष्वेडित-क्ष्वेलिते ॥ २१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1362 · p. 165
क्ष्वेडा स्त्री सिंहनादः स्यात् पादातं पत्तिसंहतिः ।पत्तिः पदातिः पदिकः पदाजिः पादातिकोऽसौ पदगश्च पद्गः ॥ १३६२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
क्ष्वेडा तु सिंहनादे स्याद्वने तु गडुरित्यपि ।शिग्रुर्मोच इति प्रोक्तो मोचा स्याच्छाल्मली द्रुमे ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.84
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास डश्लोकः Dharaṇikośa 12.2.9 · p. 46
क्ष्वेडः कर्णामये शब्दे विषघोषकयोरपि ।योधानां सिंहनादोऽपि क्ष्वेडा वाद्यं च वैणवम् ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.282 · p. 67
लतायां स्यात् सुविख्याता राजकोशातकीति या ।विषे ध्वनौ च ना यौधसिंहनादे तु सा स्त्रियाम् ॥ २८२ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.283 · p. 67
क्ष्वेडा वंशशलाकायामपि क्षेत्रं पुनर्नपि ।लवणे स्यादूषरजे क्षेत्रसाधौ तु तत् त्रिषु ॥ २८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दू (wrong syllable)
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास क्षकारादयः Paramānandīyanāmamālā 5.29.379 · p. 210
उत्सवेऽथ मतः क्ष्वेडो वक्रे च गरले तथा ।क्ष्वेडा सिंहध्वनौ देशे काले क्ष्वेडं दुरासदे ॥ ३७९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.6 · p. 204
क्ष्वेडा तु सिंहनादे स्याच्शलाकायामपि स्त्रियाम् ॥
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.21 · p. 231
युगेऽक्षपाते पर्याप्ते कृतं क्ली विहितेऽर्थवत् ।क्ष्वेडा वेणुशलाकायां सिंहनादे विषे तु ना ॥ २१ ॥
अनुष्टुप्