कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मद्र

madraक्ली · neut.

In 9 kośas: 11 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.86 · p. 7
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः ।क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥ ८६ ॥
गीतिः
genderक्लीneut.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर सामान्यकाण्डः Abhidhānacintāmaśiloñcha 6.7 · p. 5
निषादो निषधो गर्जो गर्जा मद्रोऽपि मन्द्रवत् ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.89 · p. 415
शातं सातमथो भद्रं भगं मद्रं च भावुकम् ।भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.51 · p. 7
कल्याणं कुशलं कल्याणं गोजागरिकं भाविकं च शुभम् ।मद्रं भद्रं भन्दभन्दाके श्रेयो निःश्रेयसमपि भव्यम् ॥ ५१ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.44 · p. 116
कुन्तला उपहाराः स्युरान्ध्रास्तेलङ्गनामकाः ।देशभेदास्तु पञ्चाला मत्स्या मद्राश्च गुर्जराः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.63 · p. 10
श्रेयः श्वःश्रेयसं क्षेमं कुशलं श्वोवसीयसम् ।भावुकं भविकं भव्यं भद्रं मद्रं तथा शुभम् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2559 · p. 414
मन्द्रो गम्भीरशब्दः स्यान् मद्रोऽपि मन्यते बुधैः ।कलः स्यान् मधुरशब्दः मन्दे मिष्टे च काकली ॥ २५५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 6 र (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.306 · p. 21
अरिष्टं कुशलं रिष्टं मद्रञ्च शस्तमित्यपि ॥
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि प्रथमः काण्डः Śabdaratnākara 1.15 · p. 176
क्षपणे नग्न-नग्नाटौ श्रमणः श्रवणोऽपि च ।क्षेमे मद्रं भद्र-भन्द्रे प्रशस्तं शस्तमित्यपि ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.24 · p. 251
रेषण-रेषे, तन्त्र्यास्तु प्रक्वाणः-प्रक्वणो रवे ।गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.376 · p. 50
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.77 · p. 314
जारो भवेच्चोपपतौ स्त्रियां तुस्याद्यावनाले मुदि मद्रमन्त्ये ।देशे पुमान्स्याद्विबुधैस्त्विरोक्ताकादम्बरीवाग्वसुधासुधासु ॥ ७७ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.926 · p. 122
भूपालेऽप्यथ भौमो ना पृथिवीतनयग्रहे ।भूमिसम्बन्धिनि त्रि स्याद् मद्रं तु क्ली सुखे तथा ॥ ९२६ ॥
अनुष्टुप्
meaningsसुख
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.927 · p. 122
सज्जनस्तु शुभे प्राह त्रि तु तद्वति भाषितः ।पुंभूम्नि नीवृद्भेदेऽथ मन्द्रो ना सामवर्तिनाम् ॥ ९२७ ॥
अनुष्टुप्
doubtful