कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

प्रथमः काण्डः · शब्दाध्यायः

इति श्रीवत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे मेघाध्यायः पञ्चमः ॥

शब्दाध्यायः

शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
1.7.223 · p. 30
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
मेर्या नादष्टट्टरो बर्हिणानां केका हम्भा स्याद्गवां रम्भणं च ।हेषा ह्रेषा वाजिनां वारणानां शब्दे गर्जा गर्जितं बृंहितं च ॥ २२४ ॥
1.7.224 · p. 30
शालिनी
घोणाशब्दे घोरितं घोटकादेस्तिर्यक्छब्दे वाशनं वाशितं च ।विस्फारः स्यात्कार्मुकाणां स्थानां चीत्कारः स्याच्छिञ्जितं भूषणानाम् ॥ २२५ ॥
1.7.225 · p. 31
शालिनीmetre not read in every linenearly शालिनी
वृकाणां रेषणं रेषा भषितं भुक्कितं शुनाम् ।क्रन्दनं योधि संरावे स्रोतसां खरकस्वनः ॥ २२६ ॥
1.7.226 · p. 31
अनुष्टुप्
पर्दनं पायुजे शब्दे कर्दनं कुक्षिकूजिते ।कोलाहलः कलहलो मार्जना मुरजध्वनिः ॥ २२७ ॥
1.7.227 · p. 31
अनुष्टुप्
निक्वाणो निक्वणः क्वाणः प्रक्वाणः प्रक्वणः क्वणः ।वीणायाः क्वणिते शब्दे तुमुलं भृशसंकुले ॥ २२८ ॥
1.7.228 · p. 31
अनुष्टुप्
उच्चैःस्वरो ध्वनिस्तारः कलस्तु मधुरास्फुटः ।मन्द्रस्त्वत्यन्तगम्भीरस्त्रयोऽमी तद्वति त्रिषु ॥ २२९ ॥
1.7.229 · p. 31
अनुष्टुप्