कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वालहस्त

vālahastaपुं · masc.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1244 · p. 48
अथ पुच्छं वालहस्तो लाङ्गूलं लूम वालधिः ॥ १२४४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.84
पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.441 · p. 51
लूनं पुच्छं तु लाङ्गूलं वालहस्तश्च वालधिः ।प्रोथ इत्युच्यते घोणा मध्यं कश्यं खुरः शफः ॥ ४४१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.210 · p. 112
स्यात्पिच्छोपि च तत्रैव वालहस्तर्थकः पुमान् ।ललाम च ललामं च लूमवालस्ततः पुनः ॥ २१० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.157 · p. 71
गलोद्देशो निगालः स्यात्खुरा अश्वशफा मताः ।लाङ्गूलमथ पुच्छं स्याद्वालहस्तोऽपि वालधिः ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2251 · p. 367
अथ पुच्छं च लाङ्गूलं लाङ्गुलं लूम वालधिः ।वालहस्तश्चेति नामानि पुच्छस्य संभवन्ति वै ॥ २२५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.744 · p. 95
उभौ तु लोमलाङ्गूले वालहस्तश्च वालधिः ।वङ्कः पर्याणशृङ्गे स्यात् पञ्चाङ्गी कविका कवी ॥ ७४४ ॥
अनुष्टुप्
genderपुंmasc.