शफ
śaphaपुं · masc.In 14 kośas: 15 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.
genderपुंmasc.
genderक्लीneut.
लूनं पुच्छं तु लाङ्गूलं वालहस्तश्च वालधिः ।प्रोथ इत्युच्यते घोणा मध्यं कश्यं खुरः शफः ॥ ४४१ ॥
अनुष्टुप्
genderपुंmasc.
प्रोथोऽस्त्री नासिकाश्वस्य कश्यं मध्यमथापि च ।शफोऽस्त्रियां खुरः पुंसि पुटो विङ्खोथ वालधिः ॥ २०८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कण्ठला जालगोणी स्यात्स्त्रियां रेभा तु रेभणम् ।पुंसि प्रोथो नासिकाग्रं शफं क्लीबे खुरः पुमान् ॥ ४४८ ॥
अनुष्टुप्
genderक्लीneut.
वष्पविष्टपयोश्चापि तथैव शफबिम्बयोः ।डिंभजम्भकुसुम्भानां निभस्य कलभस्य च ॥ १७० ॥
अनुष्टुप्
genderपुंक्लीm. n.
तस्य पश्चिमतः कूर्चः कुष्टिके स्त्री तयोरधः ।खुरसंधिस्ततोऽधस्ताच्छफं त्वस्त्री खुरः पुमान् ॥ ५१ ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
द्वीपो निपः कुणपमण्डपबाष्पशष्प-यूपानि विष्टपयुतः कुतपोष्मपौ च ।तल्पः शफोऽप्यथ च कम्बु सडिम्ब[बि]म्बंजम्भः कुसुम्भकलभौ ककुभो निभश्च ॥ ५४ ॥
वसन्ततिलका
genderपुंक्लीm. n.
एते तृष्णादयः शब्दाः स्त्रियां भवन्ति । इयं तृष्णा पिपासा । कृपा दया । पताका चिह्नम् । रथ्या मार्गः । कृषिर्वैश्यवृत्तिः । काकिणी पणचतुर्भागः । प्रतिशीरा तिरस्कारिणी । धारा प्रपतनं ऊर्णामयी पर्वतस्य रेखा च ।नेमिश्चक्रपिण्डिका ।चतुःपथयुगलछलचेलखोलधिष्ण्यार्गलशफानाम् ।विद्धि नपुंसकभावं पण्यस्य च पिच्छपलयोश्च ॥ ६८ ॥
metre not recognised
genderक्लीneut.
गलोद्देशो निगालः स्यात्खुरा अश्वशफा मताः ।लाङ्गूलमथ पुच्छं स्याद्वालहस्तोऽपि वालधिः ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.
आवापचापसूर्पाणि दीपस्तूपोडुपाः शफः ।कुतपोऽथ डिम्बबिम्बकलभाः ककुभो निभः ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
genderपुंक्लीm. n.
अश्वस्य नासिका प्रोथं कश्यं तु मध्यभागकम् ।गलोद्देशो निगालः स्यात् खुराः शफाः भवन्ति वै ॥ २२५० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable); pāda 4, syllable 3 श (wrong syllable)
genderपुंmasc.
खुरः क्षुरः शफं क्लीबे विङ्खा विङ्खः पुटोऽस्त्रियाम् ।पुच्छोऽस्त्री पिच्छलाङ्गूललङ्गूललूमलाङ्गूलम् ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अलंकारे निगालस्तु गलोद्देशः शफं खुरः ।घोणा तु प्रोथमस्त्री स्याद्दन्तवेष्टस्तु नालिका ॥ ७३६ ॥
अनुष्टुप्
genderक्लीneut.
पुच्छोऽस्त्री लूम लांगूलं बालहस्तश्च वालधिः ।खुरः शफः शको विष्ठा घासस्तु यवसः शरिः ।रोमन्थनन्तु रोमन्थो रोमोर्णोर्णास्तुकोऽपि च ॥ ७४.५ ॥
अनुष्टुप्
genderपुंmasc.
रेफो रकारे त्रिषु कुत्सिते स्या-च्छफोऽस्त्रियां गोप्रभृतेः खुरे च ॥ २४ ॥
उपजातिःmetre not read in every line
meaningsखुर
doubtful
doubtful
शफः पुंसि च शण्डे च लाङ्गलाङ्गान्तरे खुरे ।महावीराख्यपात्रस्य परिग्रहणकाष्ठयोः ॥ १३१३ ॥
अनुष्टुप्
पृथश्च यस्येत्यृचि च गीतयोः सामभेदयोः ।शयो ना शयने पाणौ कृकलासे तु स द्वयोः ॥ १३१४ ॥
अनुष्टुप्
doubtful
शफ as a meaning in nānārtha verses
- कोषकल्पतरु नरङ्गकामे त्वनङ्गः खहृदोस्तु षण्ढे शालौ पतंगः शलभे खगेऽर्के । स्यात्पारदेऽन्त्येऽथ वरण्डकेऽपि नरङ्ग ऊर्मौ चरमे शफे स्यात् ॥ १९ ॥ Koṣakalpataru 6.3.19
- कोषकल्पतरु खुरस्यात्पत्तने पाटलिपुत्रके च गृहोर्ध्वगेहे नरि गुग्गुलौ स्यात् । क्लीबे तु देहे च पुराव्ययं स्यात् खुरः पुनः कोलदले शफे च ॥ ६ ॥ Koṣakalpataru 6.27.6
- नानार्थार्णवसंक्षेप खुरकोरो वृक्षाङ्कुरे बालपुष्पे चाथ खुरः शफे । शुक्तिसंज्ञौषधे चाथ खेदिः स्यात् किरणे तथा ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 2.2.38
- शब्दरत्नावली खुरऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
- त्रिकाण्डशेष खुरभद्रमुस्ते गुवाके च खपुरोऽथ द्रुमे पुमान् । रूप्ये खले च खर्ज्जूरः खुरः कोलदले शफे ॥ ३४४ ॥ Trikāṇḍaśeṣa 3.3.344