लाङ्गूल
lāṅgūlaक्ली · neut.In 14 kośas: 15 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.
अथ पुच्छं वालहस्तो लाङ्गूलं लूम वालधिः ॥ १२४४ ॥
अनुष्टुप्
genderक्लीneut.
शिश्ने तु लङ्गुलं शङ्कु लाङ्गूलं शेफशेफसी ॥ १२६ ॥
अनुष्टुप्
genderक्लीneut.
पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः ।
अनुष्टुप्
genderक्लीneut.
लूनं पुच्छं तु लाङ्गूलं वालहस्तश्च वालधिः ।प्रोथ इत्युच्यते घोणा मध्यं कश्यं खुरः शफः ॥ ४४१ ॥
अनुष्टुप्
genderक्लीneut.
लाङ्गूलमपि लङ्गूलं ललामः स्यात् ललाम च ।नेमी नेमिश्च कथिता अलिरालिरली समाः ॥ २०७ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्री पुच्छस्तु लाङ्गूलं क्लीबे लाङ्गुलमित्यपि ।स्त्रियां क्लीबे च लङ्गूलं पुच्छमस्त्री लजः पुमान् ॥ २०९ ॥
अनुष्टुप्
genderक्लीneut.
स्याद्धलाहलजम्बालवल्कलानां ततः पुनः ।सहेन्द्रनीलगरललाङ्गूलैः खण्डलस्य च ॥ १८६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कश्यं तु मध्यमश्वानां बालहस्तस्तु वालधिः ।लाङ्गूलं लूमं पुच्छोऽस्त्री पिच्छः पुंसि च सम्मतः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मं (wrong syllable)
genderक्लीneut.
गलोद्देशो निगालः स्यात्खुरा अश्वशफा मताः ।लाङ्गूलमथ पुच्छं स्याद्वालहस्तोऽपि वालधिः ॥ १५७ ॥
अनुष्टुप्
genderक्लीneut.
काकोलकोलाहलतैलतूलंजम्बाललाङ्गूलकपालमुल्वः ।कङ्कालगाण्डीवशरावभावानिष्ठेवरावौ शवदैवपूर्वाः ॥ १६० ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
पुंश्चिह्नं मेहनं मेढ्रः शिश्नं च शेपशेपसी ।लाङ्गूलं लङ्गुलं लिङ्गं नाङ्गूलं च शेफशेफसी ॥ ९८४ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
अथ पुच्छं च लाङ्गूलं लाङ्गुलं लूम वालधिः ।वालहस्तश्चेति नामानि पुच्छस्य संभवन्ति वै ॥ २२५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
खुरः क्षुरः शफं क्लीबे विङ्खा विङ्खः पुटोऽस्त्रियाम् ।पुच्छोऽस्त्री पिच्छलाङ्गूललङ्गूललूमलाङ्गूलम् ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
लाङ्गूलं शङ्कु लङ्गूलं मुष्क आण्डाण्डकौ नरि ।अण्डं पेलं पेलकोऽप्यथोरुरूरूश्च सक्थनि ॥ १८४ ॥
अनुष्टुप्
genderक्लीneut.
कण्ठजो रोचमानः स्यात् स्वामिसौभाग्यवर्धनः ।पर्याणं स्यात् पल्यनं लाङ्गूलं पुच्छमस्त्रियाम् ॥ ७४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (syllables merged)
genderक्लीneut.
लांगूलं वालधौ मेढ्रे वर्जनं त्यागहिंसयोः ।वरांगं स्त्रीभगे मूर्ध्नि च्छेदे वृद्धौ च वर्धनम् ॥ २९ ॥
अनुष्टुप्
doubtful
लाङ्गूल as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) ललामभूषायां लाङ्गूले प्रधानशृङ्गप्रभावपुण्ड्रेषु । ध्वजलक्ष्मतुरङ्गेषु च नवसु ललामं प्रचक्षते प्राज्ञाः ॥ ८५५ ॥ Abhidhānaratnamālā (Halāyudha) 5.855
- नानार्थार्णवसंक्षेप गोपुच्छहारभेदे पुमान् गोस्तु लाङ्गूले पुन्नपुंसकम् । गोरक्षो नागरङ्गे ना गवां तु त्रातरि त्रिषु ॥ ६८९ ॥ Nānārthārṇavasaṃkṣepa 4.689