कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वाल

vālaपुं · masc.

In 16 kośas: 20 synonym verses, 4 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.568 · p. 25
तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ ५६७ ॥वालाः स्युस्तत्पराः पाशो रचना भार उच्चयः ।हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥ ५६८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.95
चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.530 · p. 60
केशाः शिरसिजमूर्धजकचचिकुरशिरोरुहाः स्मृता वालाः ।तद्बन्धविशेषाः स्युर्वेणी धम्मिल्लकुन्तलकवर्यः ॥ ५३० ॥
गीतिः
genderपुंmasc.
सहचारः सहचरः स्याज्झिण्टीसहगामिनोः ।आवालं वालमुद्दिष्टं(?) फले शुष्के मनीषिभिः ॥ २७० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.134 · p. 35
द्वयोर्वाला वेल्लिताग्राः केशकन्तारकुन्तलाः ।हस्तः पक्षः कलापश्च भार उच्चय इत्यपि ॥ १३४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.210 · p. 112
स्यात्पिच्छोपि च तत्रैव वालहस्तर्थकः पुमान् ।ललाम च ललामं च लूमवालस्ततः पुनः ॥ २१० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.81 · p. 141
अपि स्तम्बकरिर्गुच्छो वालस्त्रिष्वपि चास्त्रियाम् ।काण्डेऽफले पलालोऽस्त्री पलोथापि कडङ्गरे ॥ ८१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.61 · p. 468
… कालपुद्गलयोरपि ।गोलाजगलवालानां तद्वत्कामलतालयोः ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.146 · p. 477
वालंकालकतङ्कानां निष्कतालकयोरपि ।स्यान्मूलकफलकयोस्तिलकान्दुकयोस्ततः ॥ १४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 221
अस्रो हलो वेल्लिताग्रस्तीर्थवाप(क)श्च कुन्तलः ।शिरोरुहः शिरसिजः कचो वालस्तु न स्त्रियाम् ॥ २१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.21 · p. 96
रात्राश्च प्राक् संख्याहीनाःकल्लोल्लोलौ तल्लः खल्लः ।वालः पुच्छे गोलः पालःकालो वृन्दे वातुलश्च ॥ २१ ॥
metre not recognised
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.373 · p. 199
उलपे बल्वजा वालः केशी दृढलताऽपि च ।इक्षौ रसालो गण्डीरी गण्डकी खड्गपत्रकः ॥ ३७३ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 195 · p. 90
केशं शिरोरुहं वालं कचं चिकुरमीहयेत् ।चूडापाशं च धम्मिल्लं कबरी केशबन्धनम् ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.233 · p. 130
मुण्डं मौलिः कचाः केशास्तीर्थवाकाश्च कुन्तलाः ।वालाः स्युश्चिकुरास्तुल्या रचना भार उच्चयः ॥ २३३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.908 · p. 138
शिरसिजाः कचाः केशाः तीर्थवाकाश्च कुन्तलाः ।वालाश्च वेल्लिताग्रोऽस्रः चिकुराश्चिहुरास्तथा ॥ ९०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.321 · p. 103
उत्तमाङ्गं कं शिरञ्च कञ्चापि मान्तव्ययम् ।चिकुरः कचवालौ च केशकुन्तलकुञ्जराः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 मा (syllables merged)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.197 · p. 234
लयमृणाला-मृणाले अवदाहेष्टकापथम् ।इष्टकापथावदाहौ बालके वाल इष्यते ॥ १९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मृ (wrong syllable); pāda 3, syllable 4 प (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1088 · p. 134
मूर्धाथ कुन्तलं केशो वालः शिरसिजः कचः ।शिरोरुहोऽथ तंद्वृन्दे कौशिकं कैश्यमित्युमे ॥ १०८८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.160 · p. 171
पतद्ग्रहः प्रतिग्राहो वालोऽस्त्री दारुणा कृतः ।आसन्दी स्त्री नरि प्रेंखो दीपवल्ली तु दीपिका ॥ १६० ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.98 · p. 181
वालाः कंजास्तीर्थवाहाः कुन्तलाश्च शिरोरुहाः ।कुंचितास्ते कर्कराला बर्बरा अलका अपि ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1217 · p. 147
वालस्तु ना संवरणे चलने केशपुच्छयोः ।केचित्तु करिणः पुच्छे केचित् त्वश्वस्य वालधौ ॥ १२१७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.28 · p. 278
बालः केशे शिशौ मूर्खे वालधौ वालमौषधौ ।बालाऽलङ्कारभेदे स्याद्योषिति स्त्रीत्रुटावपि ॥
अनुष्टुप्
meaningsऔषध
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1994 · p. 242
विधुर्निशाकरे विष्णौ वाज्यश्वे सायके खगे ।वयः क्लीबे खगे प्राये वालः पुच्छे शिरोरुहे ॥ १९९४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.54 · p. 218
वेणू वेदसहस्रांशू गोष्ठाध्वनिवहा व्रजाः ।वालौ पुच्छाश्वपुच्छौ च व्याजश्छद्मापदेशयोः ॥ ५४ ॥
अनुष्टुप्

वाल as a meaning in nānārtha verses