वृक्षान्तर
vṛkṣāntaraIn 3 kośas: 0 synonym verses, 9 as a meaning of another word.
वृक्षान्तर as a meaning in nānārtha verses
- धरणिकोश शाकपाकः क्लेदननिष्ठयोर्जरसिजे स्थाल्यादिके शावके शाको द्वीपविशेषके निगदितः शक्तौ च वृक्षान्तरे । किष्कुः स्याद्विततप्रकोष्ठमहितो हस्तो वितस्तिस्तथा रोकस्तु क्रयणान्तरे च विवरे रोकस्तु दीप्तौ स्मृतः ॥ Dharaṇikośa 1.1.5
- नानार्थार्णवसंक्षेप शमीशमस्तु शान्तौ पुल्लिँङ्गो माने च चतुरङ्गुले । शमी तु स्यात् सकुफलासंज्ञवृक्षान्तरे स्त्रियाम् ॥ १३१० ॥ Nānārthārṇavasaṃkṣepa 2.5.1310
- नानार्थार्णवसंक्षेप सालप्राकारे ना तु विटपिमात्रे वृक्षान्तरे तथा । अश्वकर्णाह्वये गत्यां मत्स्यभेदे तु स द्वयोः ॥ १४८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1487
- नानार्थार्णवसंक्षेप अश्मन्तकअङ्गारकस्तु ना भौमे द्वयोस्तु विहगान्तरे । अश्मन्तकं तु नप्स्त्रीत्वे चुल्ल्यां वृक्षान्तरे तु ना ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 6.45
- नानार्थार्णवसंक्षेप मेषशृङ्गीअत्रापि पूर्ववत् सादि मेषशृङ्गस्तु पुन्नयोः । विषभेदे स्त्री तु मेषशृङ्गी वृक्षान्तरे स्मृता ॥ ५०८ ॥ Nānārthārṇavasaṃkṣepa 6.508
- परमानन्दीयनाममाला अर्कअर्कः शक्रे रवौ वृक्षान्तरे स्फटिकताम्रयोः । अंशुर्दिवाकरे रश्मावङ्कश्चिह्नसमीपयोः ॥ ६ ॥ Paramānandīyanāmamālā 5.1.6
- परमानन्दीयनाममाला गुल्मगुल्मो वृक्षान्तरे घट्टविशेषे कटके स च । ग्रहोऽर्कादावुपादाने गतिर्यात्रा दशापि च ॥ १५९ ॥ Paramānandīyanāmamālā 5.9.159
- परमानन्दीयनाममाला पलाशप्रवालो विद्रुमे वीणादण्डे पादपपल्लवे । पलाशो राक्षसे वर्णभेदे वृक्षान्तरेऽपि च ॥ ३१० ॥ Paramānandīyanāmamālā 5.19.310
- परमानन्दीयनाममाला सालस्थूलः पीने जडे सालो दुर्गे वृक्षान्तरे स्मृतः । सिन्धुर्दन्तिमदे नद्यां नदसागरयोरपि ॥ ३६५ ॥ Paramānandīyanāmamālā 5.27.365