कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · अकारादयः

[अथाकारादयो यथा]

अजः कृष्णे स्मरे रुद्रे मेषे ब्रह्मण्यकं पुनः ।दुःखाघयोरघं पापे व्यसनाशर्मणोरपि ॥ २ ॥
5.1.2 · p. 161
अनुष्टुप्
अर्घो मूल्येऽर्चनेऽथाब्जो विधौ धन्वन्तरौ तरौ ।जम्बालशङ्खयोरब्जं संख्यायां कमलेऽपि च ॥ ३ ॥
5.1.3 · p. 161
अनुष्टुप्
अक्षो विभीतके तुत्थे रावणाङ्गजकर्षयोः ।रथाङ्गे शकटे जीवे पाशके च वराटके ॥ ४ ॥
5.1.4 · p. 161
अनुष्टुप्
अक्षमिन्द्रिय आकाशे तथा सौवर्चले स्मृतम् ।अलिर्भृङ्गे सुरायां चाभ्रं घने गगनेऽभ्रके ॥ ५ ॥
5.1.5 · p. 161
अनुष्टुप्
अर्कः शक्रे रवौ वृक्षान्तरे स्फटिकताम्रयोः ।अंशुर्दिवाकरे रश्मावङ्कश्चिह्नसमीपयोः ॥ ६ ॥
5.1.6 · p. 161
अनुष्टुप्
भूषायां रूपकोत्सङ्गनाटकाद्यंशमन्तुषु ।अन्त्योऽधमेऽन्त्यजाते चाध्वा मार्गे समये स्मृतः ॥ ७ ॥
5.1.7 · p. 162
अनुष्टुप्
अगः सूर्ये द्रुमे सर्पे पर्वतेऽन्तः स्वरूपके ।प्रान्तावयवोर्नाशे निश्चये निकटेऽपि च ॥ ८ ॥
5.1.8 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 प्रा (syllables merged)
प्रतिमापूर्जयोरर्चाग्रं श्रेष्ठे प्रथमेऽधिके ।अस्तः क्षिप्ते गिरेर्भेदेऽऽशू रथाङ्गे च सत्वरे ॥ ९ ॥
5.1.9 · p. 162
अनुष्टुप्
अस्रः कोणे तथा केशेऽथाश्रं रक्ताश्रुणोर्मतम् ।अर्थः कार्ये धने वस्त्वभिप्रायविषयेषु च ॥ १० ॥
5.1.10 · p. 162
अनुष्टुप्
अंह्रिः पादे तरोर्मूलेऽणुः स्तोकव्रीहिभेदयोः ।अब्दो मेघे गिरौ वर्षमुस्तयोर्वास्तवेऽपि च ॥ ११ ॥
5.1.11 · p. 162
अनुष्टुप्
अहिः सर्पे रवौ वप्रवृत्रयोः केतुपान्थयोः ।अद्रिः शैले रवावन्दूर्निगडे भूषणेऽपि च ॥ १२ ॥
5.1.12 · p. 162
अनुष्टुप्
अविर्मेषे गिरावर्के कम्बलेऽट्टश्चतुष्पथे ।हट्टे पाषाणभेदे चार्धः खण्डेऽर्धं समांशके ॥ १३ ॥
5.1.13 · p. 162
अनुष्टुप्
अर्यो वैश्ये प्रभावण्डं मुष्के कोशेऽप्यनन्तरे ।अर्चिः कीलोस्रयोरर्तिः पीडायामटनावपि ॥ १४ ॥
5.1.14 · p. 162
अनुष्टुप्
अलं भूषणसामर्थ्यनिषेधेष्वथ मङ्गले ।प्रारम्भकार्त्स्न्ययोः प्रश्नेऽनन्तार्थेऽप्यथो तथा ॥ १५ ॥
5.1.15 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अधि प्रश्नेऽधिके स्वामिशङ्कागर्हास्वपि स्मृतम् ।अति स्मृतौ जवेऽथान्नं भक्ते भुक्तेऽपि दृश्यते ॥ १६ ॥
5.1.16 · p. 163
अनुष्टुप्
अङ्गा भूम्न्येव देशार्थेऽङ्गं प्रधानेऽन्तिके तनौ ।शिक्षाद्याधारयोरङ्गामन्त्रणेऽव्ययमुच्यते ॥ १७ ॥
5.1.17 · p. 163
अनुष्टुप्
अशोको वीतशोके स्यात्कङ्केल्लौ वञ्जुलेऽपि च ।अशोका कटुरोहिण्यामभितः पार्श्वशीघ्रयोः ॥ १८ ॥
5.1.18 · p. 163
अनुष्टुप्
अनूकमन्वयेऽनूको गतजन्मावटो बिले ।महारण्येऽखिले कूपे दम्भजीविन्यपि स्मृतः ॥ १९ ॥
5.1.19 · p. 163
अनुष्टुप्
हरीतक्याममोघा स्यादमोघः सफले स्मृतः ।अलीकमप्रिये मिथ्यावचने करणेऽलिके ॥ २० ॥
5.1.20 · p. 163
अनुष्टुप्
अनन्तस्तु हरौ शेषबलयोरक्षरं शिवे ।परब्रह्मणि धर्मे चाध्वरवर्णनभःस्वपि ॥ २१ ॥
5.1.21 · p. 163
अनुष्टुप्
[13] अनन्तं प्रचुरे व्योम्नि जलेऽनन्ता मही स्मृता ।दूर्वामृतप्यथाङ्कूरमङ्कूरं च नवोद्गते ॥ २२ ॥
5.1.22 · p. 163
अनुष्टुप्
रक्ते जले तरौ रोम्ण्यभया तु स्याद्धरीतकी ।अभयो निर्भये वीरणीमूले मञ्जुलेऽपि च ॥ २३ ॥
5.1.23 · p. 164
अनुष्टुप्
अजिरं दर्दुरे काये विषये प्राङ्गणे तथा ।अत्ययोऽतिक्रमे दोषे कृच्छ्रे दण्डविनाशयोः ॥ २४ ॥
5.1.24 · p. 164
अनुष्टुप्
अभीषुः किरणे दीप्तावरिष्टः काकनिम्बयोः ।कङ्कते लशुने दैत्येऽथारिष्टं क्षेमतक्रयोः ॥ २५ ॥
5.1.25 · p. 164
अनुष्टुप्
शुभेऽपि सूतिकागारेऽङ्गजः कामे तनूद्भवे ।अञ्जनो दिग्गजे भूध्रेऽञ्जनं सौवीरयानयोः ॥ २६ ॥
5.1.26 · p. 164
अनुष्टुप्
कज्जलेऽथाञ्जना माता मारुतेरमरः सुरे ।स्नुहीवृक्षेऽस्थिसंहारकव्योरमृतमम्बरे ॥ २७ ॥
5.1.27 · p. 164
अनुष्टुप्
रसायने यज्ञशेषे तोये हृद्ये च गोरसे ।माक्षीकवर्णयोरन्ने सुधाकैवल्ययोरथ ॥ २८ ॥
5.1.28 · p. 164
अनुष्टुप्
अमृता मागधीपथ्यामलकीषु गुडूच्यपि ।अनयः पामरे नाशे व्यसनेऽथावधिर्बिले ॥ २९ ॥
5.1.29 · p. 164
अनुष्टुप्
सीमावधानयोश्चाथारुणो भास्कररक्तयोः ।सूर्यसारथिनिःशब्दकपिलार्थेष्वथारुणा ॥ ३० ॥
5.1.30 · p. 164
अनुष्टुप्
मञ्जिष्ठातिविषा श्यामाथाम्बरं गगनेंऽशुके ।द्रव्ये तूले सुगन्धेऽथार्जुनो धवलकेकिनोः ॥ ३१ ॥
5.1.31 · p. 165
अनुष्टुप्
पाण्डोः पुत्रे तृणे नेत्ररोगे हैहयसालयोः ।आतङ्को मुरजध्वानशङ्कयो रोगतापयोः ॥ ३२ ॥
5.1.32 · p. 165
अनुष्टुप्
आशुगो बाणरव्योः स्याद्वायावपि निरीक्ष्यते ।आप्लुतः स्नातके स्नानेऽथाकल्पो वेषकल्पयोः ॥ ३३ ॥
5.1.33 · p. 165
अनुष्टुप्
आरोहोऽथ गजारोह उच्छूये दैर्घ्यमानयोः ।स्त्रीकट्यामाकरो रत्ने खान्यां च निकरे तथा ॥ ३४ ॥
5.1.34 · p. 165
अनुष्टुप्
आयतिर्भावसंहत्योरेष्यत्काले स्वतन्त्रके ।आसत्तिः संगमे लाभेऽथात्मभूः कामरुद्रयोः ॥ ३५ ॥
5.1.35 · p. 165
अनुष्टुप्
विरञ्चे वासुदेवेऽथाशयोऽभिप्राय आश्रये ।आम्नाय आगमे वंशेऽप्यानर्तः समरे जने ॥ ३६ ॥
5.1.36 · p. 165
अनुष्टुप्
दैत्ये नृत्यगृहेऽथानद्धं मृदङ्गादिबद्धयोः ।आयस्तस्तेजिते क्षिप्ते कष्टिते कुपिते हते ॥ ३७ ॥
5.1.37 · p. 165
अनुष्टुप्
आक्रन्दः क्रन्दनध्वाने भृपे रौद्ररणेऽपि च ।आषाढो मासमेदे स्याद्व्रतिदण्डे द्रुमान्तरे ॥ ३८ ॥
5.1.38 · p. 165
अनुष्टुप्
आदित्यस्त्रिदशे सूर्येऽथानको जलदस्वने ।मर्दले पटहे भेर्यामपवर्गः शिवे स्मृतः ॥ ३९ ॥
5.1.39 · p. 166
अनुष्टुप्
साफल्यत्यागयोश्चाप्यवष्टम्भो हा[14]टके मतः ।संरम्भारम्भयोः स्तम्भेऽभिजातो शकुलीनयोः ॥ ४० ॥
5.1.40 · p. 166
अनुष्टुप्
अभिमानोऽथ हिंसायां प्रेम्णि गर्वे च विश्रुतः ।अवदातो विशुद्धे स्यात्स्वर्णवर्णे सिते तथा ॥ ४१ ॥
5.1.41 · p. 166
अनुष्टुप्
पराभवेऽभिषङ्गस्तु शपथाक्रोशयोरपि ।अङ्गारको महीपुत्र उल्मुकेऽपि कुरण्टके ॥ ४२ ॥
5.1.42 · p. 166
अनुष्टुप्
अङ्गारिणी शकट्यां स्यात्सूर्यत्यक्तदिगन्तरे ।अङ्कपाली परीरम्भधात्र्योः पालिगदद्रुहोः ॥ ४३ ॥
5.1.43 · p. 166
अनुष्टुप्
अतिमुक्तस्तु वासन्त्यां कलाहीने रथद्रुमे ।अपभ्रंशोऽपशब्देऽवपाते भाषान्तरे तथा ॥ ४४ ॥
5.1.44 · p. 166
अनुष्टुप्
अपदेशो निमित्ते च दम्मे लक्ष्ये निगद्यते ।अवध्वस्तं परित्यक्ते निन्दिते चूर्णितेऽपि च ॥ ४५ ॥
5.1.45 · p. 166
अनुष्टुप्
अष्टापदं सुवर्णेऽथाष्टापदः शरभे गिरौ ।अधिवासो गृहे वासेऽधिष्ठानं पुरचक्रयोः ॥ ४६ ॥
5.1.46 · p. 166
अनुष्टुप्
अनूचानो विवेकज्ञे वेदज्ञे ध्यानकारके ।अम्बरीषो बुधे सूर्ये भूपाले बालघोटके ॥ ४७ ॥
5.1.47 · p. 167
अनुष्टुप्
छर्दनेऽलम्बुषः प्रोक्तोऽलम्बुषा वारयोषिति ।गण्डीर्यां पक्षिभेदेऽप्यभिस्यन्दो नयनामये ॥ ४८ ॥
5.1.48 · p. 167
अनुष्टुप्
आवेशनं शिल्पिशालाच्छादनं वसने मतम् ।अपवारणे पिधाने चाक्षेपको निन्दको मतः ॥ ४९ ॥
5.1.49 · p. 167
metre not recognisednearly अनुष्टुप्
मरुद्व्याधौ तथा व्याध आत्माधीनो विदूषके ।प्राणाधारे सुते शाल आत्मयोनिः स्मरे हरे ॥ ५० ॥
5.1.50 · p. 167
अनुष्टुप्
आडम्बरस्तु संरम्भे बृंहितेऽपि च दृश्यते ।आस्कन्दनं तिरस्कारे शोषेऽनीकेऽपि कथ्यते ॥ ५१ ॥
5.1.51 · p. 167
अनुष्टुप्
आसुतीवल आख्यातः सुराजीवकयज्वनोः ।आत्मा विष्णौ विरञ्चेऽर्के शरीरेऽनिलयत्नयोः ॥ ५२ ॥
5.1.52 · p. 167
अनुष्टुप्
बुद्धौ चित्ते धृतावार्या दुर्गामात्रोस्तथैव च ।आजिर्युद्धे समक्ष्मायामाधिर्मानसवेदना ॥ ५३ ॥
5.1.53 · p. 167
अनुष्टुप्
पीडने बन्धनेऽथाज्ञा निर्देशे शपथेऽपि च ।आशीः सर्पस्य दंष्ट्रायामिष्टवस्तुप्रशंसने ॥ ५४ ॥
5.1.54 · p. 168
अनुष्टुप्
श्रीवासधृतयोराज्यमालिः श्रेणिः सखी पुनः ।आप्तः सत्ये हिते लब्धेऽथार्यो बुद्धे च कोविदे ॥ ५५ ॥
5.1.55 · p. 168
अनुष्टुप्
आशा ककुभि वाञ्छायामागो मन्तौ स्मृतं तथा ।
5.1.55 · p. 168