कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शाक

śākaपुं · masc.

In 19 kośas: 26 synonym verses, 8 as a nānārtha head word, 19 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.113 · p. 46
मूलपत्त्रकरीराग्रफलकाण्डाविरूढकाः ॥ ११८३ ॥त्वक्पुष्पं कबकं शाकं दशधा शिग्रुकं च तत् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.197
शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.34
अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका ॥ ३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.148 · p. 477
स्याच्छाटककुन्दुकयोर्नाकमञ्चकयोरपि ।विटङ्कशाकयोः सत्रा मेचकेन ततोऽपि च ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.75 · p. 149
भूमीसहो द्वारदारु वरदारु खरच्छदः ।स्थिरकच्छो महापत्रः शाकः सुरभिसारकः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.43 · p. 179
मूले पत्रे करीराग्रफलकाण्डे विरूढकाः ।त्वक्पुष्पं कवकं चेति शाकं शिग्रु च न स्त्रियाम् ॥ ४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 247
शकटारो नन्दमन्त्री शाकश्चेति नृपाः परे ।सर्वे रामप्रभृतयो मता मौखरजा नृपाः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.34 · p. 111
genderपुंक्लीm. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.104 · p. 58
शाके कोलफलो द्वारदारुर्योगी हलीमकः ।गन्धसारः स्थिरसारः स्थिरको ध्रुवको ध्रुवः ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.45 · p. 13
निम्बे पार्वतकैडर्यद्वेषिच्छर्दनमाथिकाः ।हलिः पृथुच्छदः शाकः पुत्रजीव्यक्षकः फलः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.132 · p. 227
मेचकः कण्टकश्चैव बालको वर्णकः पुनः ।पिनाकमालकौ शाकस्तम्बकौ यावकोऽपि च ॥ १३२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.452 · p. 83
शाकमात्रे तु शिग्रुः स्याच्छाकं हरितकं तथा ।कडम्बश्च कलम्बश्च कपोतक्यादिनालके ॥ ४५२ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.272 · p. 19
पैष्टिका काञ्जिका काञ्जी पर्पटो माषमण्डकः ।तैलं तिलद्रवः स्नेहः शाकस्तेमनतैमलौ ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.53 · p. 39
सूपः स्यात्प्रहितं सूदोऽन्धः कूरं भक्तमोदनम् ।व्यञ्जनं तेमनं शाकः पूपः पूपा च पोलिका ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.255 · p. 352
शाकं च शिग्रुकं चेति दशधा खाद्यवस्तुनि ।
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.31 · p. 48
जम्बुप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः ।सप्त द्वीपा निगदिताः क्रमादेते मनीषिभिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.251 · p. 76
ओषधिर्जातिमात्रे स्यादजातौ सर्वमौषधम् ।पत्रपुष्पादिकं शाकं लोकशास्त्रानुसारतः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.72 · p. 142
अस्त्री शाकन्तु शिग्रुर्ना क्लीबे हरितकं भवेत् ।वास्तूकादिशाके तु त्रयमस्य तु नाडिका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वा (syllables merged)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.43 · p. 191
शाकं साकं हरितके करम्भो दधिसक्तुषु ।करम्बोऽपि घार्तिके तु पूरः स्याद्घृत-पिष्टतः ॥ ४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.375 · p. 50
जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः ।द्वीपवृक्षा इमे सप्त द्वीपास्तन्नामपूर्वकाः ।नीवृज्जनपदौ देशविषयौ राष्ट्रमण्डले ॥ ३७५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.723 · p. 92
कुक्कुराः शूरसेनीयाः कैकेया उपमोचकाः ।शाका उत्तरमाद्रेया आवर्तप्रभवा हयाः ॥ ७२३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1447 · p. 175
साजाजीडाडिमव्योषं पटे घट्टं (घृष्टं?) च सट्टकम् ।शाकोऽस्त्रियां हरितकं शिग्रुः पुंस्यस्य नालिका ॥ १४४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.4 · p. 30
केतुमालममूनि स्युर्भुवो वर्षाणि वै नव ।जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.76 · p. 51
पिचुले झावुकः शाके पृथुच्छदहलीमकौ ।उन्मत्ते धूर्तधुत्तूरधुस्तूरकितवाः शठः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.62 · p. 128
गोरक्षतण्डुलश्चाथ शाको मर्कटकः समौ ।माषादयः शमीधान्ये शूकधान्ये यवादयः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.90 · p. 166
शाकोऽस्त्री हरितं शिग्रुः स्त्री तन्नाले कडंबकः ।कन्दमस्त्री मूलसस्यं वेशवार उपस्करः ॥ ९० ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.5 · p. 2
पाकः क्लेदननिष्ठयोर्जरसिजे स्थाल्यादिके शावकेशाको द्वीपविशेषके निगदितः शक्तौ च वृक्षान्तरे ।किष्कुः स्याद्विततप्रकोष्ठमहितो हस्तो वितस्तिस्तथारोकस्तु क्रयणान्तरे च विवरे रोकस्तु दीप्तौ स्मृतः ॥
शार्दूलविक्रीडितम्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.13 · p. 137
नाकोऽस्त्रियां व्योमदिवोः शिशौ तुनिष्ठा जरा क्लेदनम[त्र] पाकः ।शक्तौ नरि द्वीपभिदीह राज-भेदे द्रुभेदे[च]वदन्ति शाकम् ॥ १३ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1341 · p. 157
शाको हरितके पत्रपुष्पादिदशके तरोः ।मूलपत्त्रकरीराग्रफलकाण्डाधिरूढकम् ॥ १३४१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1342 · p. 157
त्वक् पुष्पं कवकं चेति शाकं दशविधं स्मृतम् ।इत्युक्ते वृक्षभेदे तु ना पृथुच्छदसंज्ञके ॥ १३४२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1343 · p. 157
अजयो द्वीपभेदेऽपि ब्रवीत्यस्य ह्यनन्तरे ।शकटे च पुमांस्त्री तु शाकी शाके महत्यसौ ॥ १३४३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र कद्विः Śivakoṣa 1.2.12 · p. 2
शाकोऽस्त्री हरिते ना तु द्रेष्कायां च स्मरच्छदे ।शुकः शिरीषे स्थौणेये टिण्टुपूगे तु न द्वयोः ॥ १२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.22 · p. 178
शूकोऽस्त्री शृङ्गदययोः शङ्का त्रासवितर्कयोः ।शाको द्वीपान्तरे शक्तौ द्रुमे ना हरितकेऽस्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.23 · p. 178
शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम् ।शुकः कीरे व्याससुने तथा रावणमन्त्रिणि ॥
अनुष्टुप्
doubtful

शाक as a meaning in nānārtha verses

  • धरणिकोश वर्वरामन्दुरा वाजि[82]शालायां शयनार्थे च वस्तुनि । वर्वरा कुसुमे शाके वर्वराः प्राकृता जनाः ॥ Dharaṇikośa 26.2.47
  • कोषकल्पतरु पालङ्कसस्ये तथोत्तमाङ्गे- ऽथाक्षेपेऽङ्के मलेऽप्ययसः । प्रथमे कलङ्क उक्तः पालङ्कः शाकशल्लक्योः ॥ ५ ॥ Koṣakalpataru 6.1.5
  • कोषकल्पतरु बर्बरीकशाके महाकालगणेऽप्यथान्त्ये स्यात्तर्तरीकं च वहित्रवाचि । पारीणवाची तु विशेष्यवत्स्या- त्सूर्ये सुधावाच्यपि पर्परीकः ॥ ५७ ॥ Koṣakalpataru 6.1.57
  • कोषकल्पतरु पाण्डुषण्ढे पुंसि मतौ तु योषिति भवेत्पण्डोऽथ पाण्डुः सिते कुन्तीभर्तरि चास्त्रियां तु गदितः शाके च मस्तुन्यपि । एरण्डेऽपि च मण्डनेऽग्रगजले सारे च मण्डोऽथ स स्त्री धात्र्यां ना तु विधुंतुदे च दनुजे मुण्डोऽस्त्रियां मूर्धनि ॥ ७८ ॥ Koṣakalpataru 6.12.78
  • कोषकल्पतरु वमथुगजस्य तद्वत्करसीकरे स्या- द्विच्छा सु(?)शाकेष्वपि दृश्यते च । संबद्धशक्तेऽपि हिते समर्थः । सिद्धार्थ उक्तो मुनिसिंहकेऽपि ॥ ८ ॥ Koṣakalpataru 6.18.8
  • कोषकल्पतरु कलम्बसिद्धार्थके नीपतरौ कदम्बो वृन्देऽन्तिमे बाणकदम्बयोस्तु । पुमान्कलम्बो वनिता तु शाके कादम्ब उक्तः कलहंसबाणे ॥ ३२ ॥ Koṣakalpataru 6.24.32
  • कोषकल्पतरु ब्राह्मीसमा तु वर्षे वृषणे तु सीमा स्त्री ब्रह्मशक्तावपि फञ्जिकायाम् । ब्राह्मी च शाकेऽपि गिरां च देव्यां घाटे स्थितौ क्षेत्रकचेलयोश्च । क्षुमातसीनालिकयोश्च नाम्नि परत्विषि स्यादथ कान्तिकीर्त्त्योः ॥ ७७ ॥ Koṣakalpataru 6.25.77
  • कोषकल्पतरु शिग्रुस्यात्पिङ्गले वाच्यसमोऽथ शिग्रुः शोभाञ्जने स्त्रीरहितश्च शाके । शरुस्तु कोपे कुलिशे च पुंसि स्वरुर्मखे यूपकृपाणयोश्च ॥ ६२ ॥ Koṣakalpataru 6.27.62
  • नानार्थार्णवसंक्षेप चिल्लीक्लिन्नेऽक्ष्णि च त्रिः क्लिन्नाक्षेऽप्यथ द्वे विहगान्तरे । आतापिसंज्ञेऽथो चिल्ली शाकजात्यन्तरे स्त्रियाम् ॥ ४२१ ॥ Nānārthārṇavasaṃkṣepa 2.5.421
  • नानार्थार्णवसंक्षेप कचपजलपात्रेऽथ कणयः शरभेदे च भाषितः । ऋतुभेदे च कचपः पुनः शाकपलालयोः ॥ ६७ ॥ Nānārthārṇavasaṃkṣepa 3.2.67
  • नानार्थार्णवसंक्षेप कलम्बबाणे चाथ कलम्बोऽस्त्री शतपर्वसमाख्यके । स्तम्बे शाके कदम्बस्तु सर्षपे ना च नीपके ॥ ४०३ ॥ Nānārthārṇavasaṃkṣepa 4.403
  • नानार्थार्णवसंक्षेप कुक्कुटशूद्राज्जाते निषाद्यां च सुनिषण्णाह्वये पुनः । शाके पुंसि द्वयोस्तु स्यात् कुक्कुरः शुनि नप् पुनः ॥ ५०३ ॥ Nānārthārṇavasaṃkṣepa 4.503
  • नानार्थार्णवसंक्षेप हलिजशाकसंज्ञे कदम्बद्रौ केतक्यां च नपि त्वदः । तेषां स्यात् प्रसवे ना तु हविष्यः स्यात् तिले त्रि तु ॥ २०३० ॥ Nānārthārṇavasaṃkṣepa 4.2030
  • नानार्थार्णवसंक्षेप सुवर्चलाधान्ये शाकविशेषे च सोमवल्ली त्ववल्गुजे । ब्राह्मीगुडूच्योश्चाथ स्याद् विद्युद्विद्युद्विशेषयोः ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 6.56
  • शिवकोष नलिकानलिका नाडिका शाके निर्मध्यायां च नीलिका । जलनीली युग्मफलाशेफालीनीलिनीषु च ॥ ३२ ॥ Śivakoṣa 1.3.32
  • शिवकोष चुञ्चुचुञ्चु शाके वर्धमाने चोचं त्वचि गुडत्वचि । दाक्षिणात्यफले तालफले च नवनीतके ॥ ९९ ॥ Śivakoṣa 5.1.99
  • शब्दरत्नावली चर्चारीकमहाकाले च सीमन्ते शाके चर्चारीको द्विधा । किन्नरायामुमौषध्यां भवेत् चण्डालिका स्त्रियाम् ॥ Śabdaratnāvalī 7.1.170
  • शब्दरत्नावली वितण्डान स्त्रियां श्रवणाक्ष्णोश्च मले च सेचपात्रके । भेरुण्डी यक्षिणीभेददेवतान्तरयोः स्त्रियाम् ॥ भयानके भिन्नलिङ्गं भेरुण्डं गर्भधारणे । मार्तण्डो मिहिरे क्रोडे शिखण्डो वर्हचूडयोः ॥ मारुण्डोऽपि च सर्पाण्डे पथगोमयमण्डले । वण्डोशाविकाश(?) स्त्रीवर्त्तिभेदेषु च स्त्रियाम् ॥ वितण्डा स्त्री वादभेदे कच्वी शाके शिफाद्वये । सरण्डः सरटे धूर्ते कामुके भूषणान्तरे ॥ Śabdaratnāvalī 7.13.35
  • शब्दरत्नावली ब्रह्मीब्रह्मी मत्स्यप्रभेदे स्यात्फञ्जिकाशाकयोः स्त्रियाम् । ब्राह्मी स्त्रियां सोमवल्लीभारतीब्रह्मशक्तिषु ॥ भ्रमः कुन्दभमणयोः भ्रान्तौ च जलनिर्गमे । भामः स्याद्भास्करे क्रोधे दीप्तौ च भगिनीपतौ ॥ Śabdaratnāvalī 7.25.15