पलाश
palāśaपुं · masc.In 22 kośas: 46 synonym verses, 8 as a nānārtha head word, 21 as a meaning of another word.
पत्त्रं पलाशं छदनं बर्हं पर्णं छदं दलम् ।
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
genderपुंmasc.
genderक्लीneut.
genderपुंmasc.
जनी जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि ।कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः ॥ १५४ ॥सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः ।
अनुष्टुप्
genderपुंmasc.
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।अङ्कूरश्चाङ्कुरः प्रोक्तो वृन्तं प्रसवबन्धनम् ॥ १८५ ॥
अनुष्टुप्
genderक्लीneut.
ब्रह्मवृक्षः पलाशः स्यात्किंशुकश्च त्रिपत्त्रकः ।महावृक्षः स्नुहिः प्रोक्तः शेलुः श्लेष्मातकः स्मृतः ॥ १९७ ॥
अनुष्टुप्
genderपुंmasc.
छदस्तु छदनं पत्रं पलाशं छदनादलम् ।पर्णं बर्हं च पत्रं च कोशिका मुकुलोऽपि च ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.
उदुम्बरे तु मशकी पलाशे किंशुकोऽपि च ।हस्तिकर्णिदले कृत्तिर्बिल्वे मालूरमङ्गलौ ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
उदुम्बरे तु रुशकिः प्लक्षे तु गिरिलक्षणः ।शुभाङ्गः श्रीफलो बिल्वे पलाशे वसुपुष्पकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
समिन्धनेन्धने च द्वे निःकुहः कोटरोऽस्त्रियाम् ।पत्रं पलाशं पात्रं स्याद्दलं पर्णं छदः पुमान् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
नमेरुः सुरपुन्नागः सुरेष्टः सुरपर्णिका ।सुरतुङ्गः पलाशस्तु किंशुको वक्रपुष्पकः ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.
कीनाशश्च पलाशश्च नृचक्षा यातुरस्त्रियाम् ।क्लीबे भूतं च रक्षश्च पुं वा नैरृतनिरृती ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderपुंmasc.
गौरो हरिद्रासदृशः सितरञ्जन इत्यपि ।सितरूपस्तालकाभः पलाशो हरितो हरित् ॥ १६४ ॥
अनुष्टुप्
genderविadj.
पालाशो हरित-हरित्-पलाश-पीत-नीलाः स्युः स च हरितालसंनिभोऽपि ।श्या[36b]म-श्यामल-शिति-काल-कृष्ण-रामाःनीलोऽस्त्री त्वसित इहास्ति मेचकोऽपि ॥ ३० ॥
प्रहर्षिणीmetre not read in every linenearly प्रहर्षिणी
genderविadj.
पलाशं छदनं पर्फरीकं कि[स]लयं नवे ।किसलं पल्लवस्त्वस्त्री प्रवालस्त्वचिरोद्गतः ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
खरस्कन्धश्चाम्लफलो राजाह्वो फलनो वरः ।पलाशः किंशुकः किर्मी ब्रह्मवृक्षस्त्रिपर्णकः ॥त्रिवृन्तः कटुपर्णश्च वातपोथः समिद्वरः ।क्षारश्रेष्ठो रक्तपुष्पो यज्ञियश्च गणेरुकः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् ।राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् ।दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥
metre not recognised
genderक्लीneut.
स्थाल्यादीनां स्त्रीत्वं भवति । इयं स्थाली रन्धनभाण्डम् । सभा गोष्ठी । जरा वृद्धत्वम् । स्थली उच्चनिर्जलो देशः । वीची तरङ्गः । छविर्लावण्यम् । कटिः श्रोणी । मञ्जरी वृक्षस्य । वल्ली लता ।शिल्पं छर्दिस्त्वन्नं शमलमरकतपलाशकृच्छ्राणि ।मन्दिररिक्ते च नपुंसके मन्दुरां तु स्त्रियां विद्धि ॥ ८० ॥
metre not recognised
genderक्लीneut.
पलाशे किंशुकः पर्णः खरपर्णस्रिपत्रकः ।त्रिवृन्तास्यो रक्तपुष्पः क्षीरश्रेष्ठः समिद्वरः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
शट्यां पलाशः षड्ग्रन्था गन्धोली हिमजा वघूः ।कर्चूरः सुव्रता ग्रन्थमूली पृथुपलाशिका ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
पलाशो किंशुकः पर्णो वातपोतस्त्रिपर्णकः ।बिल्वे मालूरमाङ्गल्यौ नारङ्गे तक्रवासनः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
चामरश्चामरं ज्येष्ठं बर्हिष्ठं जटिलं जटी ।शैलमूलं तु कच्चोरं पलाशो हिमजा शटिः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
काष्ठं तु दलिकं दारु मञ्जरिर्वल्लरिः समे ।पर्णं बर्हं पलाशं च दलं पत्रं छदं पुनः ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
सहकारोऽपि माकन्द पलाशः किंशुकः पुनः ।त्रिपत्रो ब्रह्मवृक्षोऽसौ मोचा रभ्भा कदल्यथ ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
पलाशः पल्लवः पर्णं दलं पत्रं छदोऽङ्घ्रिकम् ।कलिका कोरकः कुड्मी प्रफुल्लो विकचः स्फुटः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
जटी वटो जटापादो न्यग्रोधः प्लक्ष आश्रितः ।कद्रुः पलाशस्त्रिदलः किंशुको वक्रपुष्पकः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.
मकरन्दः पुष्परसः परागं पुष्पजं रजः ।पत्रं पर्णं दलं बर्हं पलाशं छदनं छदः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderक्लीneut.
पत्रं पर्णं पलाशं च छदनं चापि छदं दलम् ॥ १९७२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पलाशः किंशुकः पर्णः वातपीथस्त्रिपत्रकः ।ब्रह्मपादपनाम्नाऽत्र पलाशः प्रथितो बुधैः ॥ १९९९ ॥
अनुष्टुप्
genderपुंmasc.
पलाशः पीतनीलश्च पालाशो हरितो हरित् ।तालकाभः पुनर्नाम मन्यते हरितस्य वै ॥ २५३३ ॥
अनुष्टुप्
genderविadj.
पलाशः कर्वुरो यातुरक्षसी भूतनैऋतौ ।वरुणो जम्बुकः पाशी मेघनादो जलेश्वरः ॥
अनुष्टुप्
genderपुंmasc.
पलाशषण्डो मगधश्च पलाशोऽन्धक इत्यपि ।दासेरकस्त्रिगर्तः स्यादवन्ती चेदिमानवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पत्रं पात्रं दलं पर्णं पलाशञ्च च्छदः पुमान् ।च्छादनं च्छदनं बर्हं बर्हणञ्चापि पत्रकम् ॥
अनुष्टुप्
genderक्लीneut.
शटी सटी गन्धसटी सुगन्धा च शटिः सटिः ।गन्धमूला गन्धमूली पलाशः कर्वूरोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्वू (wrong syllable)
genderपुंmasc.
किङ्किराटः, पलाशे तु दन्त्य-तालव्यमध्यगः ।किंसुकस्तृणराजे तु तलस्तालश्च तद्भिदि ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
पीतनीले तु पालाशः पलाशो हरितो हरिः ।लोहितो रोहितो रक्ते, पीतरक्ते तु पिङ्गलः ॥ १७ ॥
अनुष्टुप्
genderविadj.
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
वसन्ततिलका
genderक्लीneut.
तत्फलेऽथ स्त्रियामेव शिम्बी स्यात् फलकोशिका ।अश्वत्थपिप्पलगजाशनबोधिवृक्ष-यज्ञद्रुमाश्चलदलोऽथ पलाशपर्णौ ।यज्ञीयकिंशुकसमिद्द्रुमवातपोताब्रह्मद्रुमे स्युरथ दन्तशठः कपित्थः ॥ ४५७ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
बोधिद्रुमे तु श्रीवृक्षः पलाशः स्यात्त्रिपर्णकः ।समानौ बिल्वमङ्गल्यौ मातुलुङ्गे तु लुङ्गकः ॥ १७८७ ॥
अनुष्टुप्
genderपुंmasc.
सन्ध्याबलो रात्रिमठो हनूषः शमनीषदः ।पलाशो विखुरः शंकुः कापीशेयस्तु पिण्डकः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षः कारस्करो गच्छः पलाशो विष्टरः स्थिरः ।चैत्यो देवतरुर्देवावासे करिभकुञ्जरौ ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
विस्तारो विटपः स्तम्ब उच्छ्रायस्तु ममुन्नतिः ।छदस्तु छदनं पत्रं पलाशं पतनं दलम् ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
पलाशे किंशुकः पर्णो वातपोथस्त्रिपर्णकः ।आस्फोतो ब्रह्मवृक्षश्च हस्तिकर्णदले कृती ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शैलमूलं तु कच्चोरं पलाशो हिमजा जटी ।अर्शोघ्न्यां मुसली ताली तालमूली फलिन्यपि ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
तरुपत्त्रे किंशुकस्य प्रमूने द्वे तु राक्षसे ।पन्नगस्त्वोषधीभेदे पुमान् सर्पे तु स द्वयोः ॥ १०६९ ॥
अनुष्टुप्
doubtful
प्रवालो विद्रुमे वीणादण्डे पादपपल्लवे ।पलाशो राक्षसे वर्णभेदे वृक्षान्तरेऽपि च ॥ ३१० ॥
अनुष्टुप्
पलाशं तु दले ब्रह्मवृक्षराक्षसयोः पुमान् ।प्रणिधिः प्रार्थने चारे प्रस्तरस्त्वश्मरत्नयोः ॥ २१२४ ॥
अनुष्टुप्
पलाश as a meaning in nānārtha verses
- कोषकल्पतरु रक्तरेणुस्याद्रक्तरेणुर्युजि नागरक्ते पलाशकल्युद्गमने च तद्वत् । उत्क्षेपणं तु व्यजने च धान्य- विमर्दवस्तुन्युदितः प्रवीणैः ॥ ५१ ॥ Koṣakalpataru 6.15.51
- कोषकल्पतरु हस्तिकर्णगणभेदे तु पलाशे चैरण्डे हस्तिकर्णः स्यात् । निम्बे तु शीर्णपर्णः खर्जूरीपादपे तद्वत् ॥ ६३ ॥ Koṣakalpataru 6.15.63
- कोषकल्पतरु मुनिमुनिर्द्वयोर्बुद्धयतीङ्गुदीषु पियालकेऽगस्तिमुनौ पलाशे । योनिर्द्वयोराकरकामधाम्नो- र्ज्यानिः स्रवन्त्यां गदिता च हानौ ॥ ५ ॥ Koṣakalpataru 6.21.5
- कोषकल्पतरु राजादनराजादनः पियाले स्त्री न पलाशेऽथ षण्ढे स्यात् । क्रौञ्चादनं मृणालेऽथ समुल्लेखे तथोद्धृतौ * * ॥ १४ ॥ Koṣakalpataru 6.21.14
- कोषकल्पतरु किर्मीकिर्मी पलाशे गृहहेमपुत्र्योः स्त्रियां तदेनेहसि पुंसि सर्मः । ऊर्मिर्द्वयोर्वेगतरंगभङ्ग- प्रकाशलेखार्तिषु वेदनायाम् । स्याद्वस्त्रसंकोचन उत्कतायां कृमिः क्रिमिर्ना जतुकासु कीटे ॥ ७३ ॥ Koṣakalpataru 6.25.73
- कोषकल्पतरु शमीकान्तौ फलिन्यामपि ऋद्धिनामौ- षधौ सभायामपि लोहपुत्र्याम् । वल्लीपलाशेऽपि च बिल्ववृक्षे शमी द्वयोः शङ्कुफला च शम्बा ॥ ७५ ॥ Koṣakalpataru 6.25.75
- कोषकल्पतरु पलंकषास्याद्गुग्गुलुद्रौ च पलाशलाक्षा- मुण्डीरिकासु स्त्र्यथ राक्षसे ना । सूर्येऽम्बुधा[87a]वव्यथिषः पुमान्स्या- त्स्त्रियां रजन्यां गदितो धरण्याम् । स्याद्वीरवृक्षः ककुभद्रुमे च भल्लातके स्यादथ राजवृक्षः ॥ ७१ ॥ Koṣakalpataru 6.30.71
- नानार्थार्णवसंक्षेप पर्णपलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना । पलं नृशण्डयोर्मांसे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.716
- नानार्थार्णवसंक्षेप किंशुकपक्षिभेदे तथा वीणाभेदे चण्डालवल्लकी । इति ख्याते किंशुकस्तु पलाशाख्यमहीरहे ॥ ४८४ ॥ Nānārthārṇavasaṃkṣepa 4.484
- नानार्थार्णवसंक्षेप राजादनराजादनः फलाध्यक्षसंज्ञके पादपान्तरे । ना पलाशद्रुमे क्ली तु प्रियालाह्वयपादपे ॥ ५२४ ॥ Nānārthārṇavasaṃkṣepa 6.524
- नानार्थार्णवसंक्षेप वानप्रस्थद्वे तु विप्रेऽथ ना वानप्रस्थो वैखानसे तथा । मधूकवृक्षे वृक्षे च पलाशाख्ये तयोस्तु नप् ॥ ५५३ ॥ Nānārthārṇavasaṃkṣepa 6.553
- शिवकोष किंशुकअथ किंशुकः पलाशे नन्दीवृक्षे च पीततैलायाम् । योषिति कुशिकस्त्वक्षे रक्ते सर्जे च दीर्घपत्रे च ॥ २२ ॥ Śivakoṣa 1.3.22
- शिवकोष याज्ञिकयाज्ञिकः कुशपालाशखदिरे यावको निशि । अलक्तके सिल्हके च यूथिकाऽम्लानबालयोः ॥ ४४ ॥ Śivakoṣa 1.3.44
- शिवकोष पर्णपर्णं पलाशे पर्णस्तु सप्तपर्णे समिद्वरे । पर्ण्युग्रगन्धाशम्पाकमहाक्लीतनिकासु च ॥ १५५ ॥ Śivakoṣa 11.1.155
- शिवकोष रक्तपुष्पपलाशतुङ्गचण्डातबन्धुजीवमनोहरे । रक्तपुष्पा चर्मरङ्गासिन्दूरीतरणीभिदि ॥ ३०२ ॥ Śivakoṣa 17.3.302
- शब्दरत्नावली हस्तिकर्णहस्तिकर्णः पलाशे स्यादेरण्डगणभेदयोः । Śabdaratnāvalī 7.15.94
- शब्दरत्नाकर छदछदः पक्षे पलाशे च च्छन्दोऽभिप्रायवाञ्छयोः । कान्त्यनातपयोश्छाया प्रतिबिम्बार्कभार्ययोः ॥ १९२२ ॥ Śabdaratnākara 4.1.1922
- शब्दरत्नाकर पत्रपलाशे वाहनं पत्रं छुरिकायां गरुत्यपि । पात्रं योग्ये भाजने च वित्ते कूलद्वयान्तरे ॥ १९५९ ॥ Śabdaratnākara 4.1.1959
- त्रिकाण्डशेष छदशिवजूटे वराटेऽपि कपर्दोऽथाऽमये गदः । विष्णोर्भ्रातरि चास्त्रे स्त्री पलाशे गरुति च्छदः ॥ २०६ ॥ Trikāṇḍaśeṣa 3.3.206
- वैजयन्ती वानप्रस्थवृषसानुः पुंसि मृत्यौ विष्णौ रुद्रे वृषाकपिः । वानप्रस्थौ मधुष्ठीलपलाशावथ संकरे ॥ ४० ॥ Vaijayantī 8.1.40
- वैजयन्ती ब्रह्मवृक्षपलाशे ब्रह्मतोऽश्वत्थे श्रीतः कारस्करे विषात् । मुनेः पलाशसरलस्योनारकेंगुद्यगस्तिषु ॥ १९ ॥ Vaijayantī 8.6.19