All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (11/14)
त्रिः सान्द्रे स्त्री तु वन्दिः स्यात् प्रग्रहे ना तु वन्दतौ ।त्रि तु वन्दिनि वर्वीस्तु शकटे स्त्री द्वयोः पुनः ॥ १२०१ ॥
2.5.1201 · p. 145
अनुष्टुप्
शरभाख्यमृगेन्द्रे स्यादिति कश्चिदवोचत ।वटिरुद्देहिकाशूननाभ्योः कल्केऽपि कश्चन ॥ १२०२ ॥
2.5.1202 · p. 145
अनुष्टुप्
स्त्रियां पुंसि तु धातौ स्याद् वटतौ वेष्टनार्थके ।वसुर्नाग्नौ ह्रदे योक्त्त्रे किरणेऽन्धुकपादपे ॥ १२०३ ॥
2.5.1203 · p. 145
अनुष्टुप्
पादपे पीतमुद्गे चारत्निसंज्ञप्रमाणके ।आदिक्षत्त्रियभेदे च देवभेदेष्वथ त्रिषु ॥ १२०४ ॥
2.5.1204 · p. 145
अनुष्टुप्
प्रशस्तेऽथाजयः प्राह स्वादौ च द्वे तु मानुषे ।स आह शण्डलङ्गं तु सलिले द्रविणे मणौ ॥ १२०५ ॥
2.5.1205 · p. 146
अनुष्टुप्
वसिराख्ये च भैषज्ये क्षीरस्वामी वचोऽपठीत् ।वल्गु तु त्रिषु चारौ च मधुरे वाचि तु स्त्रियाम् ॥ १२०६ ॥
2.5.1206 · p. 146
अनुष्टुप्
क्ली नेत्ररोम्णि वप्ता तु त्रिषु व्रीह्यादिवापके ।कारके मुण्डनस्यापि ना तु ताते वणिक् पुनः ॥ १२०७ ॥
2.5.1207 · p. 146
अनुष्टुप्
क्रयविक्रयिके त्रि स्याद् वणिज्यायां पुनः स्त्रियाम् ।व(र्ष्मे?र्ष्म) न स्त्री परिच्छेदे शरीरश्रेष्ठयोरपि ॥ १२०८ ॥
2.5.1208 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुश्रुतिस्तु महत्याह सज्जनस्तु पठत्यदः ।शुष्मसंज्ञबलेऽन्यस्तु वदत्युच्छ्रायवाचिनम् ॥ १२०९ ॥
2.5.1209 · p. 146
अनुष्टुप्
वज्री तु वज्रयुक्ते त्रि पुल्लिँङ्गस्तु पुरन्दरे ।वर्णी वर्णवति त्रि स्याद् ब्रह्मचारिण्यथ स्त्रियाम् ॥ १२१० ॥
2.5.1210 · p. 146
अनुष्टुप्
स्त्रीमात्रे स्त्रीविशेषे च हरिद्रायां च वर्णिनी ।व्रती व्रतवति त्रि स्याद् द्वे त्वश्वे त्रि तु वन्दिवाक् ॥ १२११ ॥
2.5.1211 · p. 146
अनुष्टुप्
पाठके स्तुतिवाक्यस्य द्वे तु स्तवनजीविनोः ।वैदेहे मागधे चापि वशी तु त्रिः प्रभौ स्मृतः ॥ १२१२ ॥
2.5.1212 · p. 146
अनुष्टुप्
द्वयोस्तु जलमार्जारे वार्ता तु स्यात् स्त्रियामियम् ।वार्ताक्यां वर्तनोदन्तकृषिप्रभृतिवृत्तिषु ॥ १२१३ ॥
2.5.1213 · p. 146
अनुष्टुप्
निःसारारोग्ययोस्तु क्ली वृत्तिमन्नीरुजोस्त्रिषु ।सम्बन्धिनि च वृत्तस्य वृत्तेश्चाथ त्रिषु स्मृतः ॥ १२१४ ॥
2.5.1214 · p. 146
अनुष्टुप्
वामः स्यात् सुन्दरे सव्ये प्रतिकूले स्त्रियां पुनः ।महादेवस्य नवसु शक्तिष्वेकत्र योषिति ॥ १२१५ ॥
2.5.1215 · p. 146
अनुष्टुप्
योषिद्भेदे परे वामा स्यादश्वायां तु वाम्यसौ ।सज्जनस्तु द्वयोरुष्ट्रे ना तु स्याद्वरुणे स्मरे ॥ १२१६ ॥
2.5.1216 · p. 146
अनुष्टुप्
वालस्तु ना संवरणे चलने केशपुच्छयोः ।केचित्तु करिणः पुच्छे केचित् त्वश्वस्य वालधौ ॥ १२१७ ॥
2.5.1217 · p. 147
अनुष्टुप्
ह्री?रे ??????…?…?…?… ।वाली हर्षुलकन्यायामपि स्यात् तु नृलिङ्गकः ॥ १२१८ ॥
2.5.1218 · p. 147
अनुष्टुप्metre not read in every line
व्यासो द्वैपायनमुनौ विस्तारे चाप्यसौ तु नप् ।धनुर्विशेषे विगतक्षेपादौ तु त्र्यथो पुमान् ॥ १२१९ ॥
2.5.1219 · p. 147
अनुष्टुप्
व्यालो दुष्टगजे द्वे तु श्वापदे भुजगे तथा ।अजयस्त्वपठद्व्याघ्रे स एव त्रिः खलेऽपठीत् ॥ १२२० ॥
2.5.1220 · p. 147
अनुष्टुप्
बहुप्रदे शठे चाथ शार्दूले व्याघ्रवाग्द्वयोः ।व्याघ्री तु कण्टकार्यां स्त्री वाटस्तु नरि वेष्टने ॥ १२२१ ॥
2.5.1221 · p. 147
अनुष्टुप्
मण्डले नगरे सीम्नि भोजने वलये गृहे ।त्रयी तु वाटी गेहान्तःक्लृप्ते फलफले वने ॥ १२२२ ॥
2.5.1222 · p. 147
अनुष्टुप्
इत्कटे तु स्त्रियामेव वाटी मर्त्यान्तरे पुनः ।विण्मैत्रीजे द्वयोरस्त्री वृतौ वाशा पुनः स्त्रियाम् ॥ १२२३ ॥
2.5.1223 · p. 147
अनुष्टुप्
आटरूषे वाचि तु स्याद् वाशी नैरुक्तसम्मता ।आदित्यस्य गभस्तीनां शतानि त्रीणि सृष्टये ॥ १२२४ ॥
2.5.1224 · p. 147
अनुष्टुप्
हिमस्य तेषामेकस्मिन् शते रश्मिषु ताः स्त्रियः ।वाशं सामप्रभेदे क्ली कइंवेदेत्यृचि स्थिते ॥ १२२५ ॥
2.5.1225 · p. 147
अनुष्टुप्
अथ त्रिर्वशसम्बन्धे वाशिते तु स नृस्त्रियोः ।स्त्र्यर्थे वाशीति पूर्वत्र स्याद्वाशा तु परत्र सा ॥ १२२६ ॥
2.5.1226 · p. 147
अनुष्टुप्
वाश्रस्तु पुरुषे शब्दे सङ्घाते च पुमानथ ।वाश्रा धेनौ स्त्रियां वातः पुनर्वायौ नरि त्रि तु ॥ १२२७ ॥
2.5.1227 · p. 147
अनुष्टुप्
कृतवाने क्रियायां तु वातेः क्लीबमथ त्रिषु ।वानं शुष्कफले शुष्के व्यूतिशोषणयोस्तु नप् ॥ १२२८ ॥
2.5.1228 · p. 147
अनुष्टुप्
वातेर्धातोः क्रियायां च कटे त्वप्यजयोऽब्रवीत् ।वाणस्तु पुंसि वीणायां शब्दे चाथ नपुंसकम् ॥ १२२९ ॥
2.5.1229 · p. 148
अनुष्टुप्
ज्ञेयं हुडुक्कहिक्कायां वाणी तु गिरि सा स्त्रियाम् ।वाद्यं तु क्लीबमातोद्ये त्रिर्वाद्ये वादनीयके ॥ १२३० ॥
2.5.1230 · p. 148
अनुष्टुप्
वाहस्तु ना बलीवर्दे वहनेऽन्यस्त्ववोचत ।प्रस्थद्वयेऽर्धखार्यां स्यादन्यः कंसयुगेऽवदत् ॥ १२३१ ॥
2.5.1231 · p. 148
अनुष्टुप्
खारीचतुष्टये त्वन्ये द्वे तु गर्दभघोटयोः ।वाह्यं वाहयितव्ये च वोढव्ये वाहसाधुनि ॥ १२३२ ॥
2.5.1232 · p. 148
अनुष्टुप्
त्रिषु क्ली वाहने वाट्या पुनः स्त्री भेषजान्तरे ।बलासंज्ञे त्रिषु पुनर्वेष्ट्यवेष्टयितव्ययोः ॥ १२३३ ॥
2.5.1233 · p. 148
अनुष्टुप्
व्रातस्तु ना समूहे स्यादन्ये तु व्रातलक्षणम् ।प्राहुरुत्सेधजीवाश्च नानाजातीयका अपि ॥ १२३४ ॥
2.5.1234 · p. 148
अनुष्टुप्
अव्यवस्थितवृत्ताश्च सङ्घा व्राता इतीदृशम् ।मनुष्ये तु द्वयोरन्ये पुनर्व्रात्ये प्रचक्षते ॥ १२३५ ॥
2.5.1235 · p. 148
अनुष्टुप्
कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः ।व्रात्या व्राताश्च ते सर्व तत्सुताश्चावृतासु ये ॥ १२३६ ॥
2.5.1236 · p. 148
अनुष्टुप्
इत्येवमाहुर्व्रातस्य लक्षणं व्रात्यवाक् पुनः ।कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः ॥ १२३७ ॥
2.5.1237 · p. 148
अनुष्टुप्
तेषु नान्ये तु संस्कारहीनमात्रे प्रचक्षते ।द्वयोस्तु प्रतिलोमानां प्रतिलोमजमानुषे ॥ १२३८ ॥
2.5.1238 · p. 148
अनुष्टुप्
व्रात्या तु व्रातचर्यायां स्त्री त्रि तु व्रतसाधुनि ।चार्क्षं क्लीबं वने वृक्षसम्बन्धिनि पुनस्त्रिषु ॥ १२३९ ॥
2.5.1239 · p. 148
अनुष्टुप्
वाजिस्तु पुङ्खवसने (?) केशपङ्क्तावपि स्त्रियाम् ।द्वे त्वश्वे व्राजिवाक् सूत्रसार्थेऽश्वे तु द्वयोरयम् ॥ १२४० ॥
2.5.1240 · p. 148
अनुष्टुप्
वातिस्तु वायौ ना धातौ गतिगन्धनकर्मणि ।स्त्री तु तत्क्रिययोः शोषे वारिस्तु स्त्री मतङ्गजाः ॥ १२४१ ॥
2.5.1241 · p. 149
अनुष्टुप्
यत्र देशेषु गृह्यन्ते तत्र त्वाहाजयः कृती ।कलश्याप्सु तु न क्लीबे वाशिस्तु नरि पावके ॥ १२४२ ॥
2.5.1242 · p. 149
अनुष्टुप्
स्याद्वाशतौ वाशयतौ वाश्यतावपि धातुषु ।भेद्यलिङ्गं तु भीरौ स्यादिति केचित् स्त्रियां पुनः ॥ १२४३ ॥
2.5.1243 · p. 149
अनुष्टुप्
चतुष्पदि स्यात् प्रजनप्राप्तायामपरः पुनः ।द्वे गोमायाविति प्राह वारुस्तु द्वे तुरङ्गमे ॥ १२४४ ॥
2.5.1244 · p. 149
अनुष्टुप्
जङ्घायां तु स्त्रियां शुष्कफले तु नरि मन्यते ।षड्वर्गशबरस्वामी वास्तुस्तु नरशण्डयोः ॥ १२४५ ॥
2.5.1245 · p. 149
अनुष्टुप्
गृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च ।वाजी तु ना शरे वह्नौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥
2.5.1246 · p. 149
अनुष्टुप्
द्वे त्वश्वपक्षिणोर्वाजवति तु त्रिरथोषसि ।वाजीति स्त्र्यथ वाग्मी स्याद् वाचोयुक्तिपटौ त्रिषु ॥ १२४७ ॥
2.5.1247 · p. 149
अनुष्टुप्
शुके तु द्वे अथो वाली पुमान् सुग्रीवपूर्वजे ।अश्विन्याख्ये तु नक्षत्रे वालिन्यौ (तु?स्तः) स्त्रियावथ ॥ १२४८ ॥
2.5.1248 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
केशह्रीबेरपुच्छादिसंयुक्तार्थेऽभिधेयवत् ।विश्वा त्वतिविषाभूम्योः स्त्री शुण्ठ्यां स्त्रीनपुंसकम् ॥ १२४९ ॥
2.5.1249 · p. 149
अनुष्टुप्
सर्वनाम तु सर्वस्मिंस्त्रिषु क्ली तु जगत्यदः ।विश्वे तु देवभेदेषु पुंसि भूम्नि च मन्यताम् ॥ १२५० ॥
2.5.1250 · p. 149
अनुष्टुप्
विषा त्वतिविषायां स्त्री क्ष्वेडे तु स्यान्नृशण्डयोः ।जले तु क्ली विधा तु स्त्री भृतौ वृद्धिप्रकारयोः ॥ १२५१ ॥
2.5.1251 · p. 149
अनुष्टुप्
तथा विधाने हस्त्यन्ने विधाने तु नपुंसकम् ।उच्चारणप्रभेदेषु स्पृष्टतादिषु नप् पुनः ॥ १२५२ ॥
2.5.1252 · p. 150
अनुष्टुप्
वित्तं धने त्रिषु पुनः प्रथितेऽपि विचारिते ।विष्टिस्तु कर्मणि हठात् कारिते नाथ तत्कृति ॥ १२५३ ॥
2.5.1253 · p. 150
अनुष्टुप्
त्रिराज्संज्ञके त्वर्थे स्त्रीलिङ्गा शाश्वतः पुनः ।वेदनायामिति प्राह कालभेदे प्रवेशने ॥ १२५४ ॥
2.5.1254 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अजयस्त्वाह मूल्येऽपि हठात्कारितकारिणि ।विभुस्तु ना कुबेरेऽर्के त्रि तु सर्वगनित्ययोः ॥ १२५५ ॥
2.5.1255 · p. 150
अनुष्टुप्
स्वामिन्यथ विधुः पुंसि विष्णौ चन्द्रे हुताशने ।वायौ काले राक्षसे तु द्वे त्रि तु स्यादुपद्रुते ॥ १२५६ ॥
2.5.1256 · p. 150
अनुष्टुप्
अजयस्तु प्रकरणे दन्त्योष्ठ्यादिपदावलेः ।दन्त्योष्ठ्यादिं च विदुषो वाचकं विन्दुरित्यमुम् ॥ १२५७ ॥
2.5.1257 · p. 150
अनुष्टुप्
विप्रुड्वाचिनमोष्ठ्यादिबिन्दुशब्दं च विभ्रमात् ।एकं मत्वा द्वयोरर्थौ विन्दुर्ज्ञातरि विप्रुषि ॥ १२५८ ॥
2.5.1258 · p. 150
अनुष्टुप्
इत्युक्तवान् प्रहातव्यं त्वेतद्वेदविशारदैः ।विष्वक् तु नानागतिके त्रिस्तत्र स्त्र्यर्थता यदा ॥ १२५९ ॥
2.5.1259 · p. 150
अनुष्टुप्
तदा विषूची स्त्री त्वेव रोगभेदे विषूच्यथ ।इदं सर्वत इत्यर्थे स्यादव्ययमथो विराट् ॥ १२६० ॥
2.5.1260 · p. 150
अनुष्टुप्
स्त्री छन्दोजातिभेदेषु केषुचित् क्षत्त्रिये पुनः ।द्वे यज्ञभेदे तु पुमान् विष्णौ विद्युत् पुनः स्त्रियाम् ॥ १२६१ ॥
2.5.1261 · p. 150
अनुष्टुप्
तडिति त्रिषु तु ज्ञेयं दीप्रे विष्टप् पुनः स्त्रियाम् ।दिवि पुंसि तु सूर्येऽथ वीरो ना शर्वशक्रयोः ॥ १२६२ ॥
2.5.1262 · p. 150
अनुष्टुप्
स्कन्दे कुबेरे राहौ च पुत्रे शूरे तु स त्रिषु ।अजयस्तु परेऽप्याह तद्विचार्यं विचक्षणैः ॥ १२६३ ॥
2.5.1263 · p. 150
अनुष्टुप्
विगतप्रेरणे पक्षिक्षेपके नृस्त्रियोः पुनः ।विक्षेपे पक्षिणां क्षेपेऽप्यथ वीतं नपुंसकम् ॥ १२६४ ॥
2.5.1264 · p. 150
अनुष्टुप्
असारहस्तितुरगे हस्त्यारोहाङ्घ्रिकर्मणि ।वारणे चाङ्कुशस्य स्याद् गतिकान्त्यशनादिषु ॥ १२६५ ॥
2.5.1265 · p. 151
अनुष्टुप्
विगतौ त्रिस्तु विगते शान्ते कान्तगतादिषु ।वीध्रं पुंस्यनले वायौ मेघे क्ली तु नभस्यथ ॥ १२६६ ॥
2.5.1266 · p. 151
अनुष्टुप्
विमले त्रिषु वीर्यं तु क्लीबं स्यादन्नरेतसोः ।शक्त्याह्वयबले शौर्यसंज्ञके च पराक्रमे ॥ १२६७ ॥
2.5.1267 · p. 151
अनुष्टुप्
अजयस्त्वाह दीप्तौ च नैतदन्यत्र दृश्यते ।माहात्म्ये स्त्री तु वीर्यातिवलासंज्ञौषधेऽथ ना ॥ १२६८ ॥
2.5.1268 · p. 151
अनुष्टुप्
स्याद्वीकोऽर्थेऽनिले नाशे वसन्तेऽक्षिमले पुनः ।वीका स्त्रीत्यब्रवीत् कश्चिद् वीक्षाशब्दस्तु नृस्त्रियोः ॥ १२६९ ॥
2.5.1269 · p. 151
अनुष्टुप्
विस्मये वीक्षणाभिख्यक्रियायां चाप्यथ स्त्रियाम् ।वीचिः पङ्क्त्यूर्मिलेशेषु स्यात् पुंस्यपि च कश्चन ॥ १२७० ॥
2.5.1270 · p. 151
अनुष्टुप्
वीडुर्दृढे त्रि क्लीबं तु बले व्युष्टं तु नप्यदः ।प्रभाते च विवासे च व्युषिते तु त्रिषु स्मृतम् ॥ १२७१ ॥
2.5.1271 · p. 151
अनुष्टुप्
व्युष्टिः प्रयोजनाभिख्यफले प्राह तु सज्जनः ।महीरुहफले तत्तु स्यात् प्रमत्तस्य भाषितम् ॥ १२७२ ॥
2.5.1272 · p. 151
अनुष्टुप्
शास्त्रव्युष्टिरिति प्राहुः शास्त्रस्यैव प्रयोजनम् ।अग्निचित्येष्टकानां च भेदेष्वृद्धिविवासयोः ॥ १२७३ ॥
2.5.1273 · p. 151
अनुष्टुप्
स्त्री ना तु क्रतुभेदे स्याद् व्रतिभेदे तु स त्रिषु ।कालेऽष्टमेऽष्टमे भुङ्क्ते यस्तत्र वृषवाक् तु ना ॥ १२७४ ॥
2.5.1274 · p. 151
अनुष्टुप्
बृहस्पतौ बलीवर्दे धर्मे पुंसि पुरन्दरे ।राशौ च वृषभाभिख्ये पठ्यते बलकर्णयोः ॥ १२७५ ॥
2.5.1275 · p. 151
अनुष्टुप्
द्वे त्वश्वे मूषिके देवे त्रि तु स्याद्भूरिरेतसि ।श्रेष्ठेऽपि सुकुले क्ली तु रेतस्यन्तःपुरेऽथ सा ॥ १२७६ ॥
2.5.1276 · p. 151
अनुष्टुप्
वृषा कदल्यां न्यग्रोधीसंज्ञस्तम्बेऽपि भेषजे ।ऋद्धिसंज्ञेऽथ वृष्यं त्रिर्यत् किञ्चिच्छुक्रवर्धनम् ॥ १२७७ ॥
2.5.1277 · p. 152
अनुष्टुप्
तस्मिन् पुंसि तु माषाख्यधान्य इक्षौ च सा पुनः ।वृष्या स्त्रियां विदार्यां स्याद् वृद्धिसंज्ञे च भेषजे ॥ १२७८ ॥
2.5.1278 · p. 152
अनुष्टुप्
वृत्तं तु क्ली नरेऽप्यन्ये स्वरूपाचारवृत्तिषु ।पद्यव्यक्तिषु सम्भक्तौ त्रिषु तु स्याद्दृढे मृते ॥ १२७९ ॥
2.5.1279 · p. 152
अनुष्टुप्
अतीताधीतकठिनवर्तुलेषु वृतेऽथ नप् ।वृन्तं तरूणां प्रसवबन्धने चूचुकेऽथ ना ॥ १२८० ॥
2.5.1280 · p. 152
अनुष्टुप्
कालिङ्गसंज्ञवल्ल्यां स्याद् वृद्धस्तु स्थविरे त्रिषु ।त्रिमात्रसामवर्णे च स्यादेधितमनीषिणोः ॥ १२८१ ॥
2.5.1281 · p. 152
अनुष्टुप्
ना तु वैवस्वते क्ली तु शैलेये वृत्रवाक् तु ना ।दैत्यभेदे गिरौ मेधे शत्रौ ध्वान्ते च नप् पुनः ॥ १२८२ ॥
2.5.1282 · p. 152
अनुष्टुप्
पापे वृकस्तु ना सूर्ये चन्द्रे जाठरपावके ।वज्रे वृके देशभेदे पुनर्भूम्नि च नप् पुनः ॥ १२८३ ॥
2.5.1283 · p. 152
अनुष्टुप्
लाङ्गले त्रिषु तु स्तेने धूर्ते द्वे तु मृगान्तरे ।ईहामृगाख्ये शुनि च वृकी तु स्त्री यथोदितम् ॥ १२८४ ॥
2.5.1284 · p. 152
अनुष्टुप्
निरुक्ते वृद्धवाशिन्यां वृष्णिस्तु क्षत्त्रियान्तरे ।तद्वंश्येषु च मेषे तु द्वे अथावेष्टके स्त्रियाम् ॥ १२८५ ॥
2.5.1285 · p. 152
अनुष्टुप्
वृत्तिर्निरोधे सम्भक्तौ ना तु धात्वोः स वर्ततौ ।वृत्यतौ चाथ ना वेशो वेश्याजनसमाश्रये ॥ १२८६ ॥
2.5.1286 · p. 152
अनुष्टुप्
अजयस्तु पठत्येनं गृहमात्रेऽपि शब्दवित् ।प्रवेशे वेशके तु त्रिरथोग्रीवैश्यजे द्वयोः ॥ १२८७ ॥
2.5.1287 · p. 152
अनुष्टुप्
मर्त्यजात्यन्तरे वेश्यं पुनः क्ली मल्लिकान्तरे ।गणिकायां तु वेश्या स्त्री ना तु वे?स्त्रिविष्टपे ॥ १२८८ ॥
2.5.1288 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रूपे च कश्चित् क्लीबं तु व्योम्नि कश्चित्तु वारिणि ।वेणस्तु द्वे मनुष्याणां जातिभेदे प्रकीर्तितः ॥ १२८९ ॥
2.5.1289 · p. 153
अनुष्टुप्
पुत्रे वैदेहकाम्बष्ठ्योर्वेननाम्न्येव जीवति ।लङ्घनप्लवनाद्यैः स्यात् तूग्रराज्ञीसुतेऽपि च ॥ १२९० ॥
2.5.1290 · p. 153
अनुष्टुप्
मायासम्मोहनादीनि वृत्तिश्चेत् तस्य स त्वयम् ।वेणा स्यान्नृस्त्रियोर्ज्ञाननिशामनगतिष्वपि ॥ १२९१ ॥
2.5.1291 · p. 153
अनुष्टुप्
चिन्तायामपि वादित्रग्रहणेऽप्यथ वेनवाक् ।द्वे नृजात्यन्तरेऽम्बष्ठीवैदेहकसमुद्भवे ॥ १२९२ ॥
2.5.1292 · p. 153
अनुष्टुप्
स्यात् पारधैनुके चाथ वैदेह्यम्बष्ठजेऽपि च ।ना तु प्रजापतौ यज्ञे मेधाविनि तु स त्रिषु ॥ १२९३ ॥
2.5.1293 · p. 153
अनुष्टुप्
ध्यानिन्यप्यथ वेलो ना चूते क्ली तत्फलेऽथ सा ।वेला कूले समुद्रस्य तदम्बुविकृतावपि ॥ १२९४ ॥
2.5.1294 · p. 153
अनुष्टुप्
तरङ्गे वत्सरे काले व्यवस्थायामपि स्त्रियाम् ।वेल्ला तु वेल्लने नृस्त्री विडङ्गे तु नपुंसकम् ॥ १२९५ ॥
2.5.1295 · p. 153
अनुष्टुप्
वेटी स्त्री नावि वेटस्तु ना शब्दे वेष्टवाक् तु ना ।श्रीवेष्टसंज्ञे निर्यासे वेष्टने तु नरस्त्रियोः ॥ १२९६ ॥
2.5.1296 · p. 153
अनुष्टुप्
वेष्टा वेध्यं शरव्ये क्ली वाद्यभेदे तु सा स्त्रियाम् ।वेध्या वेणिस्तु केशानां बन्धभेदे जलस्रुतौ ॥ १२९७ ॥
2.5.1297 · p. 153
अनुष्टुप्
कश्चित्तु मध्ये नद्यादेर्मेष्यां स्याच्च लतान्तरे ।देवताडाह्वये ना तु धातौ स्याद्वेणतावथ ॥ १२९८ ॥
2.5.1298 · p. 153
अनुष्टुप्
वेदिर्वितर्दौ यागाय परिष्कृतमहीतले ।अग्निकुण्डे चतुष्कोणे त्वग्नि(द?कु)ण्डे परे विदुः ॥ १२९९ ॥
2.5.1299 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ना तु वेदयतौ ज्ञेयो वेगी तु नरि मारुते ।त्रि तु वेगवति त्रिस्तु वेधा विदुषि तं पुनः ॥ १३०० ॥
2.5.1300 · p. 153
अनुष्टुप्
कश्चित् सर्वविदि स्माह ना तु विष्णुविरिञ्चयोः ।देशेऽप्यन्येऽथ शङ्खोऽस्त्री ललाटात्थिगमर्मणोः ॥ १३०१ ॥
2.5.1301 · p. 154
अनुष्टुप्
सङ्ख्याभेदे निस्वर्वाख्यसङ्ख्याया दशकात्मके ।कम्बौ च वलये चाथ निधिभेदे पुमानयम् ॥ १३०२ ॥
2.5.1302 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
अमावास्यातिथौ सर्पराजभेदर्षिभेदयोः ।मणिभेदे शुक्तिसंज्ञभेषजेऽपि प्रयुज्यते ॥ १३०३ ॥
2.5.1303 · p. 154
अनुष्टुप्
शठो ना मातुलुङ्गे च भव्यधुर्धूरयोरपि ।सिते च सर्षपे तस्य फले चाथ नपुंसकम् ॥ १३०४ ॥
2.5.1304 · p. 154
अनुष्टुप्
पापे वङ्गाख्यलोहे च प्रसूनेऽत्रोक्तशाखिनाम् ।त्रिस्तु धूर्ते च शत्रौ च मार्जारे तु द्वयोरयम् ॥ १३०५ ॥
2.5.1305 · p. 154
अनुष्टुप्
शल्यमस्री शलाकायां शङ्कुसंज्ञायुधान्तरे ।अजयस्तु वदत्येनं काण्डेऽर्थस्तस्य चिन्त्यताम् ॥ १३०६ ॥
2.5.1306 · p. 154
अनुष्टुप्
वि?? शरीरं लग्नेऽन्तः पुमांस्तु मदनद्रुमे ।मद्रराजान्तरे चाथ श्वाविट्संज्ञमृगे द्वयोः ॥ १३०७ ॥
2.5.1307 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रं (syllables merged)
शय्या स्त्री शयनीये च ग्रन्थगुम्फे च सा त्रि तु ।शयताधौ पाणिभवे मन्दिरे तु नपुंसकम् ॥ १३०८ ॥
2.5.1308 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
शम्या तु युगकीले स्त्री माने षट्त्रिंशदङ्गुले ।अथो शमयितव्ये त्रिः शमितव्ये तु तन्नपि ॥ १३०९ ॥
2.5.1309 · p. 154
अनुष्टुप्
शमस्तु शान्तौ पुल्लिँङ्गो माने च चतुरङ्गुले ।शमी तु स्यात् सकुफलासंज्ञवृक्षान्तरे स्त्रियाम् ॥ १३१० ॥
2.5.1310 · p. 154
अनुष्टुप्
मुद्गमाषादिसस्यानां बीजकोदयां च कर्मणि(?) ।शशस्तु रोमकर्णाख्यमृगे द्वे वा तु भेषजे ॥ १३११ ॥
2.5.1311 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बोलसंज्ञे शलं तु क्ली श्वाविडः शलले त्रि तु ।गन्तर्यथ द्वयोः स स्याद् गर्दभाख्यचतु पदि ॥ १३१२ ॥
2.5.1312 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 तु (wrong syllable)
शफः पुंसि च शण्डे च लाङ्गलाङ्गान्तरे खुरे ।महावीराख्यपात्रस्य परिग्रहणकाष्ठयोः ॥ १३१३ ॥
2.5.1313 · p. 155
अनुष्टुप्
पृथश्च यस्येत्यृचि च गीतयोः सामभेदयोः ।शयो ना शयने पाणौ कृकलासे तु स द्वयोः ॥ १३१४ ॥
2.5.1314 · p. 155
अनुष्टुप्
शवस्तु कुणपे न स्त्री जले तु क्ली गतौ तु ना ।शष्पं बालतृणे क्लीबं रूपे च भगवांस्त्वमुम् ॥ १३१५ ॥
2.5.1315 · p. 155
अनुष्टुप्
नरं वररुचिः प्राह शस्त्रं तु क्लीबमायुधे ।अयस्यृङ्मन्त्रभेदेषु शंसायाः साधनेषु च ॥ १३१६ ॥
2.5.1316 · p. 155
अनुष्टुप्
छुरिकायां तु शस्त्री स्त्री शल्कं तु शकले नपि ।केचित्त्वात्तरसे प्राहुः शकले स्याच्च वल्कले ॥ १३१७ ॥
2.5.1317 · p. 155
अनुष्टुप्
मुद्गरे च त्रिषु त्वेष भीतौ पातरि चाप्यथ ।शको ना पशुविष्ठायां देशभेदे जले तु नप् ॥ १३१८ ॥
2.5.1318 · p. 155
अनुष्टुप्
शका तु गवयाभिख्यपशुजातौ स्त्रियामियम् ।शरः पुंसि शरद्वायौ क्षीरादेर्मुखबन्धने ॥ १३१९ ॥
2.5.1319 · p. 155
अनुष्टुप्