कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · सकारादयः

[अथ सकारादयो यथा]

स्तोमो मखे चये स्तोकः चातकस्वल्पयोरपि ।स्थाणुः कीले हरे सूनमङ्कुरे कुसुमे मतम् ॥ ३६१ ॥
5.27.361 · p. 207
अनुष्टुप्
सूनुर्द्रुमेऽनुजे पुत्रे सौम्यो धिष्ण्ये बुधेऽपि च ।सूतस्तु पारदे तक्ष्णि मागधे सारथावपि ॥ ३६२ ॥
5.27.362 · p. 207
अनुष्टुप्
सीता तु जानकी देवसिन्धुर्लाङ्गलपद्धतिः ।सालिर्भुजंगमे कीले मूर्खे रोगे युगान्तरे ॥ ३६३ ॥
5.27.363 · p. 207
अनुष्टुप्
सर्गो वर्गे स्वभावे च निर्माणोत्साहयोरपि ।सत्त्वं गुणान्तरे जीवे क्रियाकारस्वभावयोः ॥ ३६४ ॥
5.27.364 · p. 208
अनुष्टुप्
स्थूलः पीने जडे सालो दुर्गे वृक्षान्तरे स्मृतः ।सिन्धुर्दन्तिमदे नद्यां नदसागरयोरपि ॥ ३६५ ॥
5.27.365 · p. 208
अनुष्टुप्
सह्यो राज्ञि गिरौ सह्यं सोढव्ये रोगवर्जिते ।साधुर्मुनौ तथार्ये च सोमः कर्पूरचन्द्रयोः ॥ ३६६ ॥
5.27.366 · p. 208
अनुष्टुप्
दिव्यौषध्यां कपौ विष्णौ शक्रसूर्यशिवेषु च ।सिद्धिर्मोक्षे च योगस्य निष्पत्तावपि कथ्यते ॥ ३६७ ॥
5.27.367 · p. 208
अनुष्टुप्
सुधा गङ्गेष्टिका पृथ्वी भोजने तु दिवौकसाम् ।सिंहो हर्यक्षराश्योश्च [32] श्रेष्ठार्थे चोत्तरस्थितः ॥ ३६८ ॥
5.27.368 · p. 208
अनुष्टुप्
सव्यं तु दक्षिणे वामे सूदः स्यात्सूपकारके ।स्वामी गुहेऽधिपे स्वस्ति पुण्यकल्याणयोर्मतः ॥ ३६९ ॥
5.27.369 · p. 208
अनुष्टुप्
सारङ्गः कुञ्जरे शैले हरिणे चातके खगे ।चञ्चरीके गजे भेके संभोगो रतभोगयोः ॥ ३७० ॥
5.27.370 · p. 208
अनुष्टुप्
संगरोऽङ्गीकृतौ युद्धे विनाशे गरलेऽपि च ।संबाधः संकटे योनौ सावित्रः पार्वतीपतौ ॥ ३७१ ॥
5.27.371 · p. 208
अनुष्टुप्