All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · गकारादयः
अथ गकारादयो यथा ।
गुञ्जा मञ्जुरवे वल्लीमेदे च पटहे पुनः ।गोण्डस्तु पामरे वृद्धनाभिकेऽपि तथोच्यते ॥ १५० ॥
5.9.150 · p. 180
अनुष्टुप्
गुडस्तु गोलके हस्तिसंनाहेक्षुविकारयोः ।गोष्ठं वने गवां स्थाने गोष्ठी संलापपर्षदोः ॥ १५१ ॥
5.9.151 · p. 181
अनुष्टुप्
कपोले गण्डके गण्डश्चिह्ने योगे खनावथ ।गोपस्तु वल्लवे भूपे ग्रामयुक्ते मुनीश्वरे ॥ १५२ ॥
5.9.152 · p. 181
अनुष्टुप्
गन्धो लेशे स्मये गन्धे गुरुः पित्रादिजीवयोः ।गौरः सितेऽरुणे पीते चन्द्रकर्पूरयोः शुचौ ॥ १५३ ॥
5.9.153 · p. 181
अनुष्टुप्
गौरं च सर्षपे श्वेते किञ्जल्केऽथ गुणो यथा ।रूपादावपि शौर्यादौ संध्यादौ तन्तुसूदयोः ॥ १५४ ॥
5.9.154 · p. 181
अनुष्टुप्
रज्जौ ज्याभीमयोरक्षेऽप्रधानेऽपि निरीक्ष्यते ।वप्रे जीवान्तरे गोधा प्रत्यञ्चाघातवारणे ॥ १५५ ॥
5.9.155 · p. 181
अनुष्टुप्
गोत्रो भूध्रेऽथ गोत्रं स्याच्छत्रेऽरण्ये च वर्त्मनि ।नाम्नि क्षेत्रेऽन्वये गोत्रा भूमौ गोनिचये पुनः ॥ १५६ ॥
5.9.156 · p. 181
अनुष्टुप्
गिरिः पूज्ये गिरौ गर्भे कन्तुके नेत्ररुज्यथ ।गुच्छः स्तम्बे कलापेऽपि हारस्तबकयोः पुनः ॥ १५७ ॥
5.9.157 · p. 181
अनुष्टुप्
गर्भः कुक्षौ बले संधौ ग्रामः संवसथे स्वरे ।गणः सैन्यान्तरे पूगे संख्यायां प्रथमे तथा ॥ १५८ ॥
5.9.158 · p. 181
अनुष्टुप्
गुल्मो वृक्षान्तरे घट्टविशेषे कटके स च ।ग्रहोऽर्कादावुपादाने गतिर्यात्रा दशापि च ॥ १५९ ॥
5.9.159 · p. 182
अनुष्टुप्
गुप्तो दासीसुते गूढे गुहः स्कन्दे च गहरे ।गन्धर्वः खेचरे त्वश्वे गायने हरिणान्तरे ॥ १६० ॥
5.9.160 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ग (wrong syllable)
ग्रहणं स्वीकृते चोपरागे यत्ने गुणे ध्वनौ ।ग्रन्थिकं पिप्पलीमूले ग्रन्थिको ग्रहचारवित् ॥ १६१ ॥
5.9.161 · p. 182
अनुष्टुप्
विडङ्गे ग्रन्थिपर्णेऽपि गण्डको विघ्नखड्गिनोः ।गण्डकी तु नदीभेदे गोरङ्कुः खगनग्नयोः ॥ १६२ ॥
5.9.162 · p. 182
अनुष्टुप्
गोलको जारजे रण्डापुत्रे मणिकसंज्ञके ।गोपतिर्वल्लवे रुद्रे सागरे वरुणेन्द्रयोः ॥ १६३ ॥
5.9.163 · p. 182
अनुष्टुप्
सूर्ये षण्डेऽथ गोदन्तो दंशिते हरितालके ।गोस्तनी च लतावृत्तिर्हारहूरा?पि कथ्यते ॥ १६४ ॥
5.9.164 · p. 182
अनुष्टुप्
गोपुरं नगरद्वारे मुस्तकद्वारयोः पुनः ।ग्रामणीः स्वामिनि श्रेष्ठे गर्जितो वारणान्तरे ॥ १६५ ॥
5.9.165 · p. 182
अनुष्टुप्
गर्जितं मेघजे शब्दे गह्वरं दम्भरन्ध्रयोः ।[21] गैरिकं धातुभेदेऽपि स्वर्णे स्पाद्गालवो मुनौ ॥ १६६ ॥
5.9.166 · p. 183
अनुष्टुप्
गाङ्गेयं सुन्दरे स्वर्णे मुस्तकेऽपि कशेरुके ।कृपणे गाढमुष्टिश्च कृपाणेऽपि निबध्यते ॥ १६७ ॥
5.9.167 · p. 183
अनुष्टुप्
गन्धवाहो मृगे वायौ गन्धवाहा च नासिका ।गोमेदकं च काकोले पत्रके रत्नभिद्यपि ॥ १६८ ॥
5.9.168 · p. 183
अनुष्टुप्
गन्धवत्यचलामद्यव्यासमातृषु पत्तने ।गदयित्नुः स्मरे शस्त्रे सुरायां गन्धमादनी ॥ १६९ ॥
5.9.169 · p. 183
अनुष्टुप्
गोजागरिकशब्दस्तु मङ्गले भक्ष्यकारके ।ग्राममद्गुरिका युद्धे शृङ्ग्यामथ च गन्धके ॥ १७० ॥
5.9.170 · p. 183
अनुष्टुप्