All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
कान्ताः · कपादः
॥ कपादः ॥
अथ कान्ता निगद्यन्ते पादेन क्रमशस्त्वमी ।श्लोको यशसि पद्ये स्याल्लोकस्तु भुवने जने ॥
1.1.1 · p. 2
अनुष्टुप्
स्तोकः स्याच्चातके स्वल्पे शूकोऽनुक्रोशशुङ्गयोः ।नाको गगने स्वर्गे च तर्क ऊहाभिकाङ्क्षयोः ॥
1.1.2 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
तोके दुहितृपुत्रौ स्तः शल्के शकलवल्कयोः ।वल्कं स्याद्वल्कले खण्डे पङ्कं कर्दमपापयोः ॥
1.1.3 · p. 2
अनुष्टुप्
मूकोऽप्यवाङ्मतो दैत्य एके मुख्यान्यकेवलाः ।लङ्का रक्षःपुरी शाखा शङ्का त्रासवितर्कयोः ॥
1.1.4 · p. 2
अनुष्टुप्
पाकः क्लेदननिष्ठयोर्जरसिजे स्थाल्यादिके शावकेशाको द्वीपविशेषके निगदितः शक्तौ च वृक्षान्तरे ।किष्कुः स्याद्विततप्रकोष्ठमहितो हस्तो वितस्तिस्तथारोकस्तु क्रयणान्तरे च विवरे रोकस्तु दीप्तौ स्मृतः ॥
1.1.5 · p. 2
शार्दूलविक्रीडितम्
जम्बुकौ क्रोष्टुवरुणौ कृषकौ फालकर्षकौ ।वञ्चको जम्बुके धूर्ते वर्तकोऽश्वखुरे खगे ॥
1.1.7 · p. 3
अनुष्टुप्
निपाकौ पचनस्वेदौ खल्वकौ स्वल्पपामरौ ।पिष्टकोऽक्षिगदे पिष्टे टुण्टुकौ स्वल्पशो[3]णकौ ॥
1.1.8 · p. 3
अनुष्टुप्
अलीके त्वप्रियासत्ये सूतकौ जन्मपारदौ ।अभीकौ कामुकात्रस्तौ कलङ्कोऽङ्कापवादयोः ॥
1.1.9 · p. 3
अनुष्टुप्
भस्मके व्याधिविडङ्गे गैरिकं धातुरुक्मयोः ।वाहिकौ ढक्कगोवाहौ तक्षकस्त्वष्टृनागयोः ॥
1.1.10 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
अणुको निपुणे स्वल्पे लूनकः पशुकिण्वयोः ।म्रामकौ शठपाषाणौ कीटकौ मागधकृमी ॥
1.1.11 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ध (wrong syllable)
नरकौ दैत्यनिरयौ पृथुकौ चिपिटार्भकौ ।लासको नर्तके वेष्टे तर्ककौ गृध्रकाङ्क्षिणौ ॥
1.1.12 · p. 3
अनुष्टुप्
विपाकः पाकदुर्गत्योः प्रसेकः च्युतिसेकयोः ।मण्डूको बन्धभेदे च मशकोऽल्पगदेऽपि च ॥
1.1.13 · p. 4
अनुष्टुप्
ऊर्मिका तूत्तरीयेऽपि रसिका रसनापि च ।नर्तकी गन्धभेदे च पुत्रिका पुत्तलीषु च ॥
1.1.14 · p. 4
अनुष्टुप्
नग्निका स्यात्कुमारी च दूषिकाक्षिमलेऽपि च ।झिल्लिकातपरुग्झिञ्झी धेनुका धेनुर्हस्तिनी ।यूथिकाम्लानयूथ्योः स्यादम्बिका धात्रिकाम्बयोः ॥
1.1.15 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नु (wrong syllable)