व्यायोग
vyāyogaपुं · masc.In 7 kośas: 8 synonym verses.
स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।व्यायोगः समवकारो विथ्यङ्केहामृगा इति ॥ २८४ ॥अभिनेयप्रकाराः स्युर्भाषाः षट्संस्कृतादिकाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderपुंmasc.
ईहामृगः प्रकरणं समवाकार इत्यपि ।व्यायोगश्चेति रूपाणि नाट्यस्यैतानि कल्पनाः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
त्रिष्वेते नाटकं भाणो डिमः प्रहसनं पुनः ।व्यायोगश्च प्रकरणं वीथी समवकारकः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
नेता धीरोद्धतक्ष्मापतिरपि दिविजो हास्यशृङ्गारशान्तायत्र स्युर्नाङ्गिनोऽमी सुबहुतरनरः स्वल्पनारीजनश्च ।एकेनाङ्केन युक्तो विरहितसुदतीहेतुयुद्धप्रयोगोव्यायोगोऽयं विमर्शं न कलयति तथा कैशिकीं गर्भसंधिम् ॥ ६० ॥
स्रग्धरा
genderपुंmasc.
अङ्कः प्रकुरणं चैव व्यायोगेहामृगौ तथा ।वीथ्यसमवकारश्च नाटकादौ प्रयुज्यते ॥ ४११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
genderपुंmasc.
त्रियुगं तु युगासारो व्यायोगस्तु युगद्वयम् ।अहोरात्रस्तु पैत्रः स्यान्मासेनाब्देन दैवतः ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
स्युर्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।व्यायोगः समवाकारौ वीथ्यङ्केहामृगा इति ॥ १८१८ ॥
अनुष्टुप्
genderपुंmasc.
व्यायोगश्चेति रूपाणि नाट्यस्यैता विकल्पनाः ।भारती सात्त्वती चैवं कैशिक्यारभटीति च ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.