All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
प्रथमः काण्डः · कालाध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे शब्दाध्यायः षष्ठः ॥
कालाध्यायः
कालस्तु समयोऽनेहा दिष्टः सूक्ष्मस्तु स त्रुटिः ।अष्टौ तु ता निमेषस्तौ लिप्तिका स्यादमूर्नव ॥ २३० ॥
1.8.230 · p. 32
अनुष्टुप्
काष्ठा तास्तु कला त्रिंशत् तास्तु त्रिंशत् क्षणोऽथ ते ।षण्णाडी घटिका ते तु मुहूर्तः पुंनपुंसके ॥ २३१ ॥
1.8.231 · p. 32
अनुष्टुप्
ते तु त्रिंशदहोरात्रः सुप्रातः शोभनोषसि ।प्रभातः प्रत्युषः काल्यविभातोषांस्यहर्मुखम् ॥ २३२ ॥
1.8.232 · p. 32
अनुष्टुप्
व्युष्टं प्रत्यूषगोसर्गौ प्रगे प्रातश्च न त्रिषु ।दिनाहनी तु घस्रो वा षण्डौ दिवसवासरौ ॥ २३३ ॥
1.8.233 · p. 32
अनुष्टुप्
समानौ प्राह्णपूर्वाह्णौ समौ संगतसंगवौ ।मध्यंदिनं तु मध्याह्नोऽथांशोऽह्नः कुतपोऽष्टमः ॥ २३४ ॥
1.8.234 · p. 32
अनुष्टुप्
चरमाह्णस्तु सायाह्नोऽपराह्णः सायमव्ययम् ।त्रिसंध्यं प्राह्णमध्याह्नापराह्णा मैथिलस्त्वयम् ॥ २३५ ॥
1.8.235 · p. 32
अनुष्टुप्
प्रदोषः स्याद्रात्रिमुखमथ संध्या पितृप्रसूः ।रात्रिस्तु वासतेयी रजनितमीशर्वरीतमस्विन्यः ॥ २३६ ॥
1.8.236 · p. 32
अनुष्टुप्metre not read in every line
क्षणदाक्षपात्रियामावसतिश्यामानिशानिशीथिन्यः ।विभावरी यामिनी च तमिस्रा तामसी निशा ॥ २३७ ॥
1.8.237 · p. 32
metre not recognised
ज्यौत्स्नी चन्द्रिकया धौता गणरात्रं निशागणः ।या पक्षाभ्यामिवाहोभ्यां युक्ता सा पक्षिणी निशा ॥ २३८ ॥
1.8.238 · p. 33
अनुष्टुप्
सर्वैकदेशसंख्यातसंख्याशब्देभ्य उत्तरा ।रात्रिः पुमानदन्तः स्यादह्नोऽप्यह्नः कचिद्भिदा ॥ २३९ ॥
1.8.239 · p. 33
अनुष्टुप्
निशीथः स्यादर्धरात्रो मध्यरात्रो महानिशा ।समौ यामप्रहरकौ प्रतिपत्पक्षती समे ॥ २४० ॥
1.8.240 · p. 33
अनुष्टुप्
निपक्षतिर्द्वितीया स्याद् भूतेष्टा तु चतुर्दशी ।स्त्रीपुंसे तु तिथिः पौर्णमासी पूर्णा च पूर्णिमा ॥ २४१ ॥
1.8.241 · p. 33
अनुष्टुप्
कलोनेऽनुमतिः पूर्णे राका सा रजनीकरे ।अमावास्या त्वमावस्या स्यादमावास्यमावसी ॥ २४२ ॥
1.8.242 · p. 33
अनुष्टुप्
अप्यमामास्यमामस्यौ दर्शः सूर्येन्दुसंगमः ।सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ॥ २४३ ॥
1.8.243 · p. 33
अनुष्टुप्
पक्षोऽर्धमासः स द्वेधा पूर्वापरविभागतः ।पूर्वस्तु शुक्लः कृष्णः स्यादपरो बहुलोऽपि सः ॥ २४४ ॥
1.8.244 · p. 33
अनुष्टुप्
क्षीयमाणतिथिः पक्षो रिक्तः स्यादपरस्त्वणिः ।मासस्त्रिंशदहोरात्रस्तस्य भेदाः स्युरुत्तरे ॥ २४५ ॥
1.8.245 · p. 33
अनुष्टुप्
चान्द्रः सौरः सावनश्च नाक्षत्रश्च चतुष्टये ।मासौ चैत्रादिकौ द्वौ द्वावृतुरेते तु षट् समाः ॥ २४६ ॥
1.8.246 · p. 33
अनुष्टुप्
उत्तरं दक्षिणं यानमुष्णांशोरयने उभे ।चैत्रादयः फाल्गुनान्ता मासा द्वादश वत्सराः ॥ २४७ ॥
1.8.247 · p. 34
अनुष्टुप्
तुल्यरात्रिंदिवे काले विषुवद्विषुवे समे ।चित्रायुक्ता पौर्णमासी चैत्री यत्र स नामतः ॥ २४८ ॥
1.8.248 · p. 34
अनुष्टुप्
मासश्चैत्रो यथैवं स्युर्वैशाखप्रमुखाः परे ।चैत्रे मधुश्चैत्रिकोऽथ वैशाखे राधमाधवौ ॥ २४९ ॥
1.8.249 · p. 34
अनुष्टुप्
ज्येष्ठे तु शुक्र आषाढे शुचिः श्रावणिके नभाः ।श्रावणोऽथ प्रोष्ठपदभाद्रभाद्रपदास्त्रयः ॥ २५० ॥
1.8.250 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रो (wrong syllable)
नभस्ये स्युरिषस्त्वाश्वयुज आश्विन इत्यपि ।अमी ऊर्जः कार्तिकिकः कार्तिको बहुलः समाः ॥ २५१ ॥
1.8.251 · p. 34
अनुष्टुप्
मार्गस्तु मार्गशीर्षः स्यादाग्रहायणिकः सहाः ।पौषस्तैषः सहस्यश्च तपा माघेऽथ फाल्गुनः ॥ २५२ ॥
1.8.252 · p. 34
अनुष्टुप्
स्यात्तपस्यः फाल्गुनिकः सान्ता ये तेऽत्र न स्त्रियाम् ।वसन्ते तु मधुः पुष्पसमयः सुरभिस्त्रयः ॥ २५३ ॥
1.8.253 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 फा (wrong syllable)
मरुवककर्णिकारबकुलाम्रामधूकतुष-क्रमुकनमेरुसालतिलकागुरुदन्तशठाः ।कुरवकसिन्धुवारकृतमालतमालयुगच्छद-करकप्रियालघननागसमित्तरवः ॥ २५४ ॥
1.8.254 · p. 34
metre not recognised
लवङ्गः पुण्ड्रकोऽशोक इत्याद्याः पुष्पिणो मधौ ।स्त्रीणां गीत्या प्रियालो विकसति तिलको वीक्षणासिन्धुवारःश्वासाद्धासान्नमेरुः कुरवकतरुरालिङ्गनादङ्घ्रिसंगात् ॥ २५५ ॥
1.8.255 · p. 35
अनुष्टुप्two metres in one verse
कङ्केलिश्चूतशाखी करपरिमिलनाच्चम्पकः शीथुरागात्संलापात्कर्णिकारो वदनमधुरसासेकतः केसरोऽपि ।निदाघ उष्णको ग्रीष्म उष्ण ऊष्मागमस्तपः ॥ २५६ ॥
1.8.256 · p. 35
स्रग्धराtwo metres in one verse
क्रमात्प्रावृट् च वर्षाश्च स्त्रीत्वैकत्वबहुत्वयोः ।प्रावृषेण्यं त्रिषु प्रावृड्भवं प्रावृषिकं त्रिषु ॥ २५७ ॥
1.8.257 · p. 35
अनुष्टुप्
त्रिषु मेघंकरं मेघविधायिनि शरत् स्त्रियाम् ।हिमकालस्तु हेमन्तः शिशिरः पुंनपुंसके ॥ २५८ ॥
1.8.258 · p. 35
अनुष्टुप्
समाः स्त्रियः शरत्स्त्री स्यादस्त्रियौ वर्षहायनौ ।संवत्सरो वत्सरोऽब्दः कृताद्यं तु चतुर्युगम् ॥ २५९ ॥
1.8.259 · p. 35
अनुष्टुप्
त्रियुगं तु युगासारो व्यायोगस्तु युगद्वयम् ।अहोरात्रस्तु पैत्रः स्यान्मासेनाब्देन दैवतः ॥ २६० ॥
1.8.260 · p. 35
अनुष्टुप्
ब्राह्मो युगसहस्राभ्यां दैवताभ्यां नृणां तु तौ ।कल्पौ मन्वन्तरं दिव्ययुगानामेकसप्ततिः ॥ २६१ ॥
1.8.261 · p. 35
अनुष्टुप्
परिवर्तस्तु संवर्तः प्रलयो भूतसंप्लवः ।क्षयो युगान्तः कल्पान्तः समस्वापो जगत्क्षयः ॥ २६२ ॥
1.8.262 · p. 35
अनुष्टुप्
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः ।नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ २६३ ॥
1.8.263 · p. 36
अनुष्टुप्