शौष्कल
śauṣkalaवि · adj.In 9 kośas: 7 synonym verses, 4 as a nānārtha head word.
genderपुंmasc.
परान्नः परपिण्डादः परजातः परैधितः ।सर्वान्नीनः सर्वभक्षो मांसादी शौष्कलः स्मृतः ॥ ३५१ ॥
अनुष्टुप्
genderविadj.
अपस्नातो मृतस्नान आमिषाशी तु शौष्कलः ।शौष्कलः शष्कुलः शास्ता देशकोऽथ बुभुक्षितः ॥ ३१ ॥
अनुष्टुप्
genderविadj.
कर्मस्थिरस्तु विस्रब्धश्चामिषाशी तु शौष्कलः ।अशनार्थी जिघत्सुः स्यात्क्षुधितस्तु बुभुक्षितः ॥ ६४६ ॥
अनुष्टुप्
genderविadj.
पिशिताशी च शाष्कुलः शौष्कलो मांसभक्षकः ॥ ६४७ ॥
metre not recognised
genderपुंmasc.
आमिषाशी शौष्कलः स्यात् शुष्कलोऽपि निगद्यते ।बुभुक्षितो जिघत्सुः स्यात् क्षुधितोऽप्यशनायितः ॥
अनुष्टुप्
genderविadj.
मांसाशिनि शाष्वलः स्याच्छौष्कलः शाष्कलिस्तथा ।मौष्कुलिर्मौष्कुलो, लिप्सौ लोलुपो लोलुभोऽपि च ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderपुंmasc.doubtful
कुन्तलः कल्पितः केशे यवे जनपदान्तरे ।शौष्कलश्चामिषाशी स्याच्छुष्कमांसपणायकः ॥
अनुष्टुप्
अन्तरेऽपि च कपाटरोधकेनिर्मलं विमलवाचि वाच्यवत् ।देवभुक्तकुसुमेऽभ्रके तथाशुष्कमांसपणिके तु शौष्कलः ॥ २० ॥
रथोद्धता
meaningsशुष्कमांसपणिक
मांसभोजिनि तथा स वाच्यवत् ।शस्कुली भवति शुष्कमांसके ।मांसमात्रविषयेऽथ पांसुलःपुंश्चले त्रिषु पुमांस्तु खिंखिरे ॥ २१ ॥
रथोद्धता
meaningsमांसभोजिन्
doubtful
शैवलं पद्मकाष्ठे स्याच्छैवाले तु भवेत्पुमान् ।शौष्कलः स्याच्छुष्कमांसे पणके पिशिताशिनि ॥
अनुष्टुप्