All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)
तृतीयः काण्डः (1/3)
पुंसि पूरुष-पुरुषौ पुलषो ना नरोऽपि च ।मुनुष्यो मानुषो मर्त्यो मर्तोऽपि बालिशः शिशौ ॥ १ ॥
3.1 · p. 188
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)
बालः क्षीरात् कण्ठः पश्च स्तनयः स स्तनन्धयः ।कुमार-कुमरौ दह्र-दहरावथ शैशवे ॥ २ ॥
3.2 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
बाल्यवद्बालिमा पाकं पाकिमा ना, वयस्यके ।युवा युवानस्तरुणस्तलुनश्चाथ यौवनम् ॥ ३ ॥
3.3 · p. 188
अनुष्टुप्
यौवनिकापि तारुण्ये स्थविरे तु जरन् जरी ।जरन्तश्च जीन-जीर्णावतिवृद्धे दश्म्ययम् ॥ ४ ॥
3.4 · p. 188
metre not recognised
दशमीस्थोऽथ संस्तान्तः प्राज्ञो ज्ञः प्रज्ञकः कविः ।कवी स्त्री कविता काव्यो वैदुषो विदुषस्तथा ॥ ५ ॥
3.5 · p. 188
अनुष्टुप्
विद्वांश्च शूरि-सूरी तु, सूर्येऽपि, बुद्धयुग्बुधः ।प्रवीणे निष्ण-निष्णातौ नदीष्णः कृतकृत्यकः ॥ ६ ॥
3.6 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
कृती कृतार्थश्च विज्ञोऽभिज्ञो वैज्ञानिकोऽपि च ।विदग्धे छेक-च्छेकालौ छेकिलश्च कलाविदि ॥ ७ ॥
3.7 · p. 188
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 क (wrong syllable)
कलाज्ञश्च कलज्ञोऽपि क्षुण्णः संस्कृतवाचकः ।तृतीयवर्गप्रान्त्याप्तो, वक्नुर्वग्नु-वचक्नुकौ ॥ ८ ॥
3.8 · p. 188
अनुष्टुप्
वाग्मिनि स्यात्, वक्तरि तु वदावद-वदौ समौ ।अवाक्श्रुतावेडमूकानेडमूकावनेडकः ॥ ९ ॥
3.9 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
कलमूकश्चान्ध-शठ-मूर्खवाच्यपि सम्मतः ।सतामनेडमूकश्चाऽस्फुटवाचि तु काहलः ॥ १० ॥
3.10 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
लोहलोऽपि जड-कडौ, ज्ञायके विदुरस्थथा ।विन्दुरस्त्रिक-तुर्यवर्गमध्यौ कटुर-कद्वरौ ॥ ११ ॥
3.11 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
अत्यन्तकुत्सिते, क्षिष्णुर्णान्तो निराकरिष्णुके ।प्रियंवदे शक्नु-शक्लौ वदान्यश्च वदन्ययुक् ॥ १२ ॥
3.12 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
दानशीलेऽप्यमू, मूर्खे, बालिशो बाडिशो जडः ।जलो मुहेर-मुहिरावायोऽयः पूर्वशूलिकः ॥ १३ ॥
3.13 · p. 189
अनुष्टुप्
भवेद्राभासिके, लोकप्रीणके तु पृण-प्रिणौ ।प्रीणश्च लोकंपूर्वाः स्युः परायत्ते परात्परौ ॥ १४ ॥
3.14 · p. 189
अनुष्टुप्
वश-वान्तौ गृह्यकश्च गृह्याऽऽगृह्यकसंयुतः ।नायके नेत्र-नेतारावीडीश ईश्वरस्तथा ॥ १५ ॥
3.15 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श (wrong syllable)
पति-पाती ऋज-रिजाविडीडौ डान्तिमावुभौ ।ह्रस्व-दीर्घादी प्रभुयुग् विभुश्चाप्यथ वेतने ॥ १६ ॥
3.16 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
भृति-भृत्ये भर्म भर्मण्या कर्मण्याऽथ भारिके ।भारवाड्भारवाहश्चाप्यथो वार्तावहे जने ॥ १७ ॥
3.17 · p. 189
अनुष्टुप्
वैवधिको विवधिको वीवधिकोऽथ भारके ।भरो विवधो वीवधः स्यादथो भारयष्टिका ॥ १८ ॥
3.18 · p. 189
metre not recognised
विहङ्गिका विहङ्गिमा, विक्रान्ते शूर-सूरकौ ।कातरे भीरुको भीरुर्भीलुकस्वस्नु-त्रस्तकौ ॥ १९ ॥
3.19 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ङ्गि (wrong syllable); pāda 4, syllable 5 स्नु (wrong syllable)
भृशाकुले समुत्पिञ्ज उत्पिञ्जल-कपिञ्जलौ ।अथो महेच्छेऽनुदार उदारोदात्तकावपि ॥ २० ॥
3.20 · p. 189
अनुष्टुप्
दयालौ तु कृपालुः स्यात् कृपारुरनुकम्पने ।कारुण्यं करुणा हिंस्रे हिंसीरोऽपि, निबर्हणे ॥ २१ ॥
3.21 · p. 190
अनुष्टुप्
विशारणं विशरणं निर्वासन-प्रवासने ।उद्वासनं वधार्हे तु शैर्षच्छेदिकसंयुतः ॥ २२ ॥
3.22 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
शीर्षच्छेद्यो, मृते प्रेत-परेतौ, तदहेऽर्पणे ।तदर्थं चोर्ध्वदेहिकमौर्ध्वदेहिकमित्यपि ॥ २३ ॥
3.23 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 हि (wrong syllable)
ऊर्ध्वदैहिकमप्यग्न्याधाने तु मृतदाहगे ।चिति-चित्या-चिताः प्रोक्ताः, ऋजो तु प्राञ्जलोऽञ्जसः ॥ २४ ॥
3.24 · p. 190
अनुष्टुप्
अनृजौ तु शठः शण्ठो, धूर्ते व्यंशक-व्यंसकौ ।शठ-शण्ठौ च षण्ढेऽपि, जालिके मायि-मायिकौ ॥ २५ ॥
3.25 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable)
मायावी, दाण्डाजनिको, दण्डाजनिक इत्यपि ।मायायां शठता-शाठ्ये व्याज्ये लक्ष्यं तु लक्षयुक् ॥ २६ ॥
3.26 · p. 190
अनुष्टुप्
संख्यायामपि पिशुने मत्सरो मत्सरी खलः ।प्रखलः खुल्लकः क्षुल्लः क्षुद्रकः क्षुद्रसंयुतः ॥ २७ ॥
3.27 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
कौलीने वादिको जाते जातो जातात्परो मतः ।तस्करे चोरटश्चोर-चोरौ पाटच्चरान्वितः ॥ २८ ॥
3.28 · p. 190
अनुष्टुप्
पटच्चरश्चौरकर्म चौर्यं चोरिका स्तेनवत् ।स्तेयं स्तैन्यं हृतधने, लोप्त्रं लोत्रं च लोद्रकम् ॥ २९ ॥
3.29 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable)
मन्दे त्वलस आलस्यश्चतुरे दक्ष-दक्षिणौ ।उष्णकोष्णौ, दातरि, तु स्यादुदारोऽनुदारयुक् ॥ ३० ॥
3.30 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
बहुप्रदे स्थूललक्षः स्थूललक्ष्योऽपि यान्तिमः ।दानेंहतिरंहितिश्च प्रादेशन-प्रदेशने ॥ ३१ ॥
3.31 · p. 190
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ति (wrong syllable); pāda 4, syllable 3 श (wrong syllable)
निर्वापणं निर्वपणं याचके तु वनीपकः ।वनीयक-वनबकौ, प्रार्थनायां तु याचना ॥ ३२ ॥
3.32 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
याञ्चैषणाऽध्येषणापि भवितरि भविष्णुयुक् ।भूष्णुर्भविष्यति भवी भाव्यथो स्यात् प्रसारिणि ॥ ३३ ॥
3.33 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 वि (wrong syllable)
विसारी च विसृमरो विसृत्वरयतो मतः ।लज्जाशीले तु लज्जालुर्लज्जूः स्यात्, क्षमिता क्षमी ॥ ३४ ॥
3.34 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
क्षन्ता सहिष्णुः, सहने, ईर्ष्यालुः कुहने स्मृतः ।ईर्ष्युश्च, क्रोधने क्रोधी, बुभुक्षायां तु रोचकः ॥ ३५ ॥
3.35 · p. 191
अनुष्टुप्
रुचिः क्षुधा-क्षुधौ, तृष्णक् तृषिते तृष्णकोऽपि च ।क्षुदसहे क्षुधारुः स्यात् क्षुधालुः, शीतकाऽसहे ॥ ३६ ॥
3.36 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
शीतारुश्च सशीतालुः, पिपासायां तृषा-तृषौ ।तृष्णा-तर्षौ च, लिप्सायां त्रयोन्त्या अपि, भक्षके ॥ ३७ ॥
3.37 · p. 191
अनुष्टुप्
आशितश्चाशिरो, भक्ते कुरुः, कूरं च दग्धिका ।भिः साटा भिस्सटा भिस्सा, दधिसर्वरसाग्रके ॥ ३८ ॥
3.38 · p. 191
अनुष्टुप्
दधिमण्डं मण्डमपि, भक्तमण्डे तु प्राड्स्रवः ।निप्रात् स्रावश्च, श्राणायां विलेपी च विलेपिका ॥ ३९ ॥
3.39 · p. 191
metre not recognised
विलेपनी विलेप्यापि क्वाथिका क्वथिकाऽपि च ।तरलं तरला, सूपे सूदाप्यथ तिलान्नके ॥ ४० ॥
3.40 · p. 191
अनुष्टुप्
कृसर-त्रिसरौ पुंस्त्री, पिष्टके पूप-पूपकौ ।पूपिकायां पौलि-पौल्यौ पूलिका पोलिकापि च ॥ ४१ ॥
3.41 · p. 191
अनुष्टुप्
पूपली चेषत्पक्वे त्वभ्यूषाऽभ्योषाऽभ्युषास्त्रयः ।निष्ठानोऽस्त्री तेमने स्यात् सठः पत्रफलादिके ॥ ४२ ॥
3.42 · p. 191
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
शाकं साकं हरितके करम्भो दधिसक्तुषु ।करम्बोऽपि घार्तिके तु पूरः स्याद्घृत-पिष्टतः ॥ ४३ ॥
3.43 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
घृतवरोऽवसेकिमे वटको वटसंयुतः ।स्नेहभृष्टतण्डुलेषु भरुजी भरुजापि च ॥ ४४ ॥
3.44 · p. 191
metre not recognised
मर्मराले पर्पटश्चपटः पृथुके चेः पुटः ।चिपिटश्चिपिटिका शर्करायामुपला सिता ॥ ४५ ॥
3.45 · p. 192
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 के (wrong syllable); pāda 3, syllable 6 टि (wrong syllable)
सितोपला मधुधूलौ खण्डो वर्गद्वितीयखः ।फाणिते स्यात्तु मत्स्याण्डी मत्स्यण्डिश्च मत्स्यण्ड्यपि ॥ ४६ ॥
3.46 · p. 192
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable); pāda 4, syllable 5 म (wrong syllable)
मत्सण्डी खण्डतो योज्या शर्करा सर्करापि च ।शिखरण्यां रसाला स्याद् रसिता मार्जितायुता ॥ ४७ ॥
3.47 · p. 192
अनुष्टुप्
मर्जिता, मुद्गादिरसे यूर्यूषस्त्रिषु जुषयुक् ।दुग्धे गव्यं गोरसश्च रसोत्तमरसे समे ॥ ४८ ॥
3.48 · p. 192
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्गा (syllables merged)
क्षीरस्य विकृतौ कूर्चिः कूचीका कूचिकान्विता ।कूर्चिकापि किलाटी स्याद् किलाटा च किलाटयुक् ॥ ४९ ॥
3.49 · p. 192
अनुष्टुप्
द्रप्स-द्रप्स्ये दध्न्यघने, हविष्य-हविषी घृते ।रसायन-गोरसौ द्वौ घोले, तक्रे त्वरिष्टयुक् ॥ ५० ॥
3.50 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
रिष्टमौदश्वितौदश्वित्के संस्कृत उदश्विति ।पिच्छिले विजलं प्रोक्तं विजिलं विज्जलं विजम् ॥ ५१ ॥
3.51 · p. 192
अनुष्टुप्
विजेविलं विजिपिलमारनाले तु काञ्चिकम् ।काञ्चिकं च सुवीराऽम्लं सौवीरं चाभितः षुतम् ॥ ५२ ॥
3.52 · p. 192
अनुष्टुप्
कुल्माषाभिषुतं चैव कुल्माषं चार्घराद्धके ।माषादौ तु कुल्माषः स्यात् कुल्मासश्चाप्युपस्करे ॥ ५३ ॥
3.53 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
दन्त्य-तालव्य-मूर्धन्यमध्यः स्याद्द्वेषवारकः ।तिन्तिडीक-तन्तिडीके चुक्रे पक्षण्यपि स्मृते ॥ ५४ ॥
3.54 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
राजिकायामासुरी स्यादसुरी च क्षुधा-क्षतात् ।परोऽभिजननः शब्दो योज्यते शब्दवेदिभिः ॥ ५५ ॥
3.55 · p. 192
अनुष्टुप्
कुस्तुम्बुरुर्वार्ध्युकारस्तस्मिन् धान्यं च धान्यकम् ।धन्या धन्याकं धान्याकं धानेयक-धनीयके ॥ ५६ ॥
3.56 · p. 192
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कं (wrong syllable)
धनकोऽथ कोलके स्याद् मरीचं मरिचं तथा ।ऊषणं ह्युषणं विश्वा शुण्ठी शुण्ठिश्च, पिप्पली ॥ ५७ ॥
3.57 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
उषणा स्यादूषणापि, कृष्णा च कृष्णतण्डुला ।गजपिप्पल्यां वशिरो वसिरः, सर्वग्रन्थके ॥ ५८ ॥
3.58 · p. 193
metre not recognised
ग्रन्थकं शिरोऽनादन्तः क्ली सान्तं चटकाशिरः ।व्योषे त्रेः कटु-कटुके, अजाजी जीर-जीरकौ ॥ ५९ ॥
3.59 · p. 193
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रोऽ (wrong syllable); pāda 3, syllable 4 क (wrong syllable)
जीरणो जरणः कणः जीरकः कृष्णजीरके ।सुषवी दन्त्यमूर्धन्यतालवयान्तर्गता पृथुः ॥ ६० ॥
3.60 · p. 193
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क (wrong syllable); pāda 4, syllable 2 लव (syllable split)
पृथ्वी उत्कुञ्चिका चोपकुञ्चिकाप्यथ हिङ्गुनि ।वाल्हीकं वाल्हिकं, जग्धौ खादनं खदनं घसिः ॥ ६१ ॥
3.61 · p. 193
अनुष्टुप्
निघसोऽपि विष्वाणाऽवष्वापौ जमन-जेगने ।ग्रासे गुडेरक-गुडौ गुडेरोऽपि गडोलयुक् ॥ ६२ ॥
3.62 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
गण्डोलः कवलोपेतः कवकः सुहिते पुनः ।आघ्राता-ऽऽघ्राणकौ, भुक्तत्यक्ते फेला च फेलियुक् ॥ ६३ ॥
3.63 · p. 193
अनुष्टुप्
मांसाशिनि शाष्वलः स्याच्छौष्कलः शाष्कलिस्तथा ।मौष्कुलिर्मौष्कुलो, लिप्सौ लोलुपो लोलुभोऽपि च ॥ ६४ ॥
3.64 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
लोलोऽपि गर्धनो गृध्नु-गृध्नौ चेहेह ईहने ।कामश्च कामना, धृष्टौ धृष्णुः स्याद्धृष्णजा सह ॥ ६५ ॥
3.65 · p. 193
अनुष्टुप्
शुभंयुः शुभसंयुक्ते शुभंयश्चाप्यहंकृति ।अहंयोऽहंयुसंयुक्तः, कामुके कामि-कामिनौ ॥ ६६ ॥
3.66 · p. 193
अनुष्टुप्
कामनः कमनः कम्रः कमरः कमितापि च ।कामयिताऽभिक-भीकावन्तर्दुर्विपरो मनाः ॥ ६७ ॥
3.67 · p. 193
अनुष्टुप्metre not read in every line
विचेतस्याभिशस्ते तु स्यादक्षारित-क्षारितौ ।तिरस्कारे परीभावः परापर्यभितो भवः ॥ ६८ ॥
3.68 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
न्यक्कारः सनिकारः स्तात्, जागरूके तु जागरी ।जागरिका, जागरणे जागर्या जागरस्तथा ॥ ६९ ॥
3.69 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ग (wrong syllable)
जागरा जाग्रिया, शङ्की संशयालुर्भवेदयम् ।सांशयिको दक्षिणार्हे दक्षिण्यो दक्षिणीयकः ॥ ७० ॥
3.70 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 यि (wrong syllable)
दण्डिते दाप्यतः प्रोक्तो दायितोऽपि तथोच्यते ।अर्च्ये प्रतीक्ष्यो निर्योऽपि, पूजिते त्वपचायितः ॥ ७१ ॥
3.71 · p. 194
अनुष्टुप्
अपचितोऽथार्हणायां पूजा पूज्याऽथ पीनके ।बहुलो बहलः स्थूर-स्थूलौ पीवा सपीवरः ॥ ७२ ॥
3.72 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
मांसलांसलौ निर्दिग्धे, कृशे शात-शितौ स्मृतौ ।तीक्ष्णेऽप्येतौ, बृहत्कुक्षौ तुन्दी तुन्दिक-तुन्दिलौ ॥ ७३ ॥
3.73 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लौ (wrong syllable)
तुन्दिभौऽप्युदरिकश्चोदरिलोदरिणौ समौ ।अनासिके विख्र-विखू विग्रोऽपि, नतनासिके ॥ ७४ ॥
3.74 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
अवाद्भ्रट-टीट-नाटा नाशायां तन्नतावपि ।खरनासे खरणसः खरणाः, खुरसदृग्नसि ॥ ७५ ॥
3.75 · p. 194
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ट (wrong syllable); pāda 4, syllable 1 खर (syllable split)
खुरणाः स्यात् खुरणसः श्रोणे पङ्गुः सपङ्गुलः ।स्यात् खल्वाटे तु खलति-खलतावल्पकायके ॥ ७६ ॥
3.76 · p. 194
अनुष्टुप्
पृश्नि-पृष्णी गडुले तु न्युब्ज-कुब्जौ, कुहस्तके ।कुणि-कूणी ह्रस्वकरपादे खर्वो निखर्वयुक् ॥ ७७ ॥
3.77 · p. 194
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 डु (wrong syllable); pāda 3, syllable 5 ह्र (wrong syllable)
ह्रस्वशाखे वामनश्च वामा नान्तो, द्विनग्नके ।वण्डो दन्तौष्ठ्यवादिः स्यादल्पमेढ्रेऽपि खञ्जके ॥ ७८ ॥
3.78 · p. 194
अनुष्टुप्
खोड-खोरौ च खोटोऽपि, पोगण्डो विकलाङ्गके ।अपोगण्डोऽप्यूर्ध्वजानावूर्ध्वज्ञोर्ध्वज्ञकौ समौ ॥ ७९ ॥
3.79 · p. 194
अनुष्टुप्
विलजानौ प्रज्ञुः स्यात् प्रज्ञोऽपि, युतजानुके ।संज्ञु-संज्ञौ च सर्वत्र जञसंयोग उच्यते ॥ ८० ॥
3.80 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नौ (syllables merged)
वलियुक्ते वलिनः स्याद् वलिभः, शस्तकेशके ।केशवः केशिकः केशी, तुण्डिलो वृद्धनाभिके ॥ ८१ ॥
3.81 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लि (wrong syllable)
तुण्डिभस्तुन्दिलोऽभ्यान्ताऽभ्यमितौ ग्लान-ग्लास्नुकौ ।व्याधिते, कच्छुरे तु स्यात्पामनः पामरस्तथा ॥ ८२ ॥
3.82 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न (wrong syllable)
सातिसारेऽतिसारक्यतीसारकी, कफान्विते ।श्लेष्मणः श्लेष्मलः, क्लिन्ननेत्रे तद्वति पिल्लयुक् ॥ ८३ ॥
3.83 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
चिल्लश्चुल्लोऽपि मूर्ते तु मूर्च्छालो मूर्च्छितोऽपि च ।पित्ते पलाग्निः पललज्वरोऽथ खेटयुक् खटः ॥ ८४ ॥
3.84 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
व्लासो दन्त्य-तालव्यप्रान्तकः कथितो बुधैः ।कफे, व्याधौ रोग-रुजौ रुजाऽप्यामय आमकः ॥ ८५ ॥
3.85 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 व्ला (syllables merged)
अमः, क्षये राजयक्ष्मा यक्ष्मा जक्ष्मापि नान्तकः ।जक्ष्म-यक्ष्मावदन्तौ द्वौ क्षवे क्षुत् क्षुतमप्यथ ॥ ८६ ॥
3.86 · p. 195
अनुष्टुप्
क्षवथौ काशः कासोऽपि, खसे पामा तु पामया ।कच्छूः कच्छुः स्त्रियां सर्वे, खर्ज्वां कण्डूयनं मतम् ॥ ८७ ॥
3.87 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शः (wrong syllable)
कण्डूः कण्डूति-कण्डूये, व्रणे रुषो रुषा सह ।ईर्मोऽस्त्रियामीर्म नान्तं गण्डे विस्फोट-स्फोटकौ ॥ ८८ ॥
3.88 · p. 195
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable); pāda 4, syllable 5 ट (wrong syllable)
पिटकः पिटका तद्वत्पिटकं च किलासके ।सिध्म-सिध्मे, कुष्ठभेदे दर्द्रुर्दद्रूश्च दद्रुयुक् ॥ ८९ ॥
3.89 · p. 195
अनुष्टुप्
दद्रूर्दर्दूश्च, कोठके मण्डलकं च मण्डलम् ।हृल्लासे हिक्का हेक्कापि, पीनसे स्यादपीनसः ॥ ९० ॥
3.90 · p. 195
metre not recognised
आपीनसः प्रतिश्यायः प्रतिश्या, श्वयथौ पुनः ।शोफ-शोथौ, छर्दने तु च्छर्दिश्छर्दी प्रच्छर्दिका ॥ ९१ ॥
3.91 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 प्र (wrong syllable)
वमनं वमि-वमथू, कुरण्डस्त्वण्डवर्धने ।कूरण्डोऽपि प्रमेहे तु मेहोऽपि च, चिकित्सके ॥ ९२ ॥
3.92 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः ।जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥
3.93 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्वे (wrong syllable)
उपचर्यापि, सत्कृत्यालङ्कृतस्वकनीदये ।कूकुदः कूपदश्चाऽऽपदापदे विपदे विपदा विपद् ॥ ९४ ॥
3.94 · p. 196
अनुष्टुप्
विपत्तौ, कृच्छ्रवञ्च्ये तु समौ दूडाभ-दूडभौ ।समर्धुकस्तु वरदे स्यात् समर्धक इत्यपि ॥ ९५ ॥
3.95 · p. 196
अनुष्टुप्
सदस्ये तु पारिषद्य-पार्षद्यावथ संसदि ।परिषत्-पर्षदौ तुल्ये समज्या च समाजयुक् ॥ ९६ ॥
3.96 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
आस्थानमास्था, दैवज्ञे नैमित्तिको निमित्तवित् ।नैमित्तोऽपि च मौहूर्तो मौहूर्तिकेऽथ लेखके ॥ ९७ ॥
3.97 · p. 196
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्ति (wrong syllable); pāda 4, syllable 3 र्ति (wrong syllable)
लिपिकरो लिविकरोऽक्षरन्यासे लिपिर्लिविः ।मषी-मस्यौ मलिनाऽप्सु कितवे त्रितयं स्मृतम् ॥ ९८ ॥
3.98 · p. 196
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable); pāda 3, syllable 6 लि (wrong syllable)
धार्तो धूर्तोऽक्षधूर्तश्च, दुरोदर-दरोदरे ।द्यूतेऽथाऽक्षे पाशकः स्यात् प्रासकः शारितः फलम् ॥ ९९ ॥
3.99 · p. 196
अनुष्टुप्
फलकोऽष्टापदे शारिः शारः खेलनिकोच्यते ।व्यालग्राह्यहितुण्डिक आहितुण्डिक इत्यपि ॥ १०० ॥
3.100 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्डि (wrong syllable)
मनोजवस्ताततुल्ये मनोजवसकोऽपि च ।क्षेमङ्करो रिष्टतात्यरिष्टताती तथाऽस्तिके ॥ १०१ ॥
3.101 · p. 196
अनुष्टुप्
श्राद्ध-श्रद्धालू च, सहे प्रभविष्णुः प्रभूष्णुयुक् ।शक्त-शक्लावसामर्थ्यजीवके चानवस्थिते ॥ १०२ ॥
3.102 · p. 196
अनुष्टुप्
चत्वारोऽमी पराः कर्णात् टिरिटिरि-ष्टिरेष्टिरा ।चुरुचुरु-श्चुरुचुरा शिथिलः शिथिरः श्लथे ॥ १०३ ॥
3.103 · p. 196
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 टि (wrong syllable); pāda 3, syllable 3 चु (wrong syllable)
स्थित ऊर्ध्वंदमश्चोर्ध्वो निर्वकारो वकारवान् ।ऊर्ध्वदमस्तद्भवे तु ऊर्द्धात् दमिक-दामिकौ ॥ १०४ ॥
3.104 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
ऊर्ध्वंदमिकोऽप्यध्वगे तु स्यादध्वन्योऽध्वनीनवत् ।गन्तु-गान्तू पथिकश्च पान्थः, शम्बल-सम्बले ॥ १०५ ॥
3.105 · p. 197
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 थि (wrong syllable)
पाथेये, जङ्घाकारे तु जङ्घाकरिक-जाङ्घिकौ ।त्वरिते जवी च जवनः सहायेऽभ्यनुतश्चरः ॥ १०६ ॥
3.106 · p. 197
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ङ्घा (wrong syllable)
अनुगाम्यनुगश्चापि सेवायां स्यादुपासना ।उपास्त्युपेता चोपास्या परेश्चैषणमेषणा ॥ १०७ ॥
3.107 · p. 197
अनुष्टुप्
पत्तौ पदातिः पादातौ पादातिक-पदातिकौ ।पदकः पदगः पद्गः पादाविक-पदाजिकौ ॥ १०८ ॥
3.108 · p. 197
अनुष्टुप्
प्रष्ठे सरोऽग्रेऽग्र-पुरः-परतो गम-गामि-गाः ।पुरस्तः आवेशेके तु स्तः प्राघूर्णक-प्राघुणौ ॥ १०९ ॥
3.109 · p. 197
अनुष्टुप्metre not read in every line
अतिथ्योऽतिथिरातिथ्य आङ्परौ गान्तु-गन्तुकौ ।आवेशिक आतिथेय्यातिथेयातिथ्यनिःस्वनाः ॥ ११० ॥
3.110 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
ग्रामे भवे तु ग्रामीण-ग्रामीणौ ग्राम्य इत्यपि ।ग्रामेयकश्च लोके तु जनो जनपदस्तथा ॥ १११ ॥
3.111 · p. 197
अनुष्टुप्
देवलोके देवविशा देवविद्वाऽभिजातके ।जात्याभिजौ कुलीनश्च कुल्यकौलेयकौ समौ ॥ ११२ ॥
3.112 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
महाकुलीनसहितौ महाकुल-महाकुलौ ।गोत्रेऽन्वयोऽन्ववायश्च संतानः संततिस्तथा ॥ ११३ ॥
3.113 · p. 197
अनुष्टुप्
स्त्रियां महेला महिला मेहला च महेलिका ।वामिर्वामा जोषा योषा स्याद्योषिदपि योषिता ॥ ११४ ॥
3.114 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जो (wrong syllable)
स्यान्मत्तकासिनी मत्तगामिन्यां मत्तकाशिनी ।स्त्र्यलङ्कारे कुट्टुमितं द्व्युकारं कन्यका कनी ॥ ११५ ॥
3.115 · p. 197
अनुष्टुप्
कुमार्यां, मध्यमवयःस्त्रियां स्यात् तरुणी तथा ।तलुनी, युवतिश्चोक्ता युवत्याद्यवयःस्त्रियाम् ॥ ११६ ॥
3.116 · p. 197
अनुष्टुप्
सुवासिनी स्ववासिनी वधूटी वध्वटीति च ।चिरिण्टी स्याच्चिरण्टी च चरिण्टी सचरण्टिका ॥ ११७ ॥
3.117 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 सि (wrong syllable)
पत्न्यां सधर्मिणी सहधर्मिणीगृहिणीगृहाः ।कलत्रं कडत्रं दारः पुंसि वा भूम्नि दारया ॥ ११८ ॥
3.118 · p. 198
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 स (wrong syllable); pāda 3, syllable 5 ड (wrong syllable)
जनिर्जनी कुटुम्बिन्यां स्यात् पुरन्ध्रिः पुरन्ध्र्यपि ।स्नुषायां तु वधूयुक्ता वधूटी च जनिर्जनी ॥ ११९ ॥
3.119 · p. 198
अनुष्टुप्
कुलस्त्रियां तु कुलतो वालिका पालिकाऽपि च ।कान्तायां प्रेयसी प्रिष्ठा षटकार-ठकारभाक् ॥ १२० ॥
3.120 · p. 198
अनुष्टुप्