लोलुप
lolupaवि · adj.In 12 kośas: 12 synonym verses, 2 as a meaning of another word.
गृध्नुस्तु गर्धनस्तृष्णग्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ४२९ ॥लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।काङ्क्षाशंसागर्धवाञ्छाशेच्छेहातृण्मनोरथाः ॥ ४३० ॥कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः ।अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥
अनुष्टुप्
genderविadj.
सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः ।लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ ॥ २२ ॥
अनुष्टुप्
genderविadj.
लोलुभं लोलुपं लोलं लालसं लम्पटं विदुः ।प्रतूर्णस्त्वरितस्तूर्ण उत्सुकः प्रसृतः स्मृतः ॥ ३५३ ॥
अनुष्टुप्
genderविadj.
लालसो लोलुपो लिप्सुर्लम्पटश्चाभिलाषुकः ।लुब्धो गृध्नुर्गर्द्धनः स्यात्मायी कुरकजालिकौ ॥ ३६ ॥
अनुष्टुप्
genderविadj.
कम्रः कामयिताभीकः कामनः कमनोभिकः ।कामिः कामी च कमुको लुब्धे लोलुपलोलुभौ ॥ ३८ ॥
अनुष्टुप्
genderविadj.
लोलुपो लोलुभश्चाभिलाषुको लम्पटश्च सः ।कमनोऽथ महात्मा स्यान्महाचित्तो महाशयः ॥ २३ ॥
अनुष्टुप्
genderविadj.
उन्मदिष्णून्मादयुक्तौ गृध्नुगर्धननलोभनाः ।लुब्धोऽभिलाषुकश्चैव लोलुभो लोलुपोऽपि च ॥ ९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
स्थिरे स्थिरतरः स्थास्नुः स्थेयान्स्थेमः(मा?) स्थितिप्रियः ।लोले तु लोलुपं लोभं चलनं चञ्चलं चलम् ॥ ६९८ ॥
अनुष्टुप्
genderविadj.
genderविadj.
मांसाशिनि शाष्वलः स्याच्छौष्कलः शाष्कलिस्तथा ।मौष्कुलिर्मौष्कुलो, लिप्सौ लोलुपो लोलुभोऽपि च ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderविadj.
गृध्नुर्गर्द्धनलोलुपलोलुभलोलाभिलाषुकसतृष्णाः ।तृष्णग्लम्पट ईप्सुः साशो धन्यस्तु पुण्यवान् सुकृती ॥ १५९३ ॥
गीतिःmetre not read in every line
genderविadj.
लोलुपे लोलुभो लोलो लंपटो लालसोऽपि च ।बुभुक्षुः क्षुधितः श्रान्तो जिघत्सुरशनायितः ॥ ३६ ॥
अनुष्टुप्
genderविadj.
लोलुप as a meaning in nānārtha verses
- तन्त्राभिधान ॡका(शा)न्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् । दशमी सुस्थिरो माता नीलपीतो गजाननः ॥ ३३ ॥ Tantrābhidhāna 2.11.33
- वैजयन्ती लोललोलं चले लोलुपे च व्यग्रो व्यापृत आकुले । वल्गु मंजौ च वामस्तु सौम्ये सव्यप्रतीपयोः ॥ १६ ॥ Vaijayantī 6.4.16