कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सौष्ठव

sauṣṭhavaक्ली · neut.

In 5 kośas: 4 synonym verses, 1 as a nānārtha head word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.759 · p. 87
सौष्ठवं स्यादवष्टम्भो हठः प्रसभमुच्यते ।प्रग्रहो ग्रहको वन्दी पणोऽक्षेषु ग्लहः स्मृतः ॥ ७५९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.266 · p. 118
खलूरिका तु तद्भूभिरवष्टम्भश्च सौष्ठवम् ।युग्या गुणनिका ग्राह्या काण्डोऽस्त्री विशिखः पुमान् ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1335 · p. 162
यत्रांसौ विनतावुरः प्रविततं शिख्यञ्चितं मस्तकंपादौ स्थानरतौ त्रिकं समनतं पूर्वापरौ शोभितौ ।दृष्टिर्लक्षगता न रिक्तमुदरं पार्श्वप्रदेशावृजूनासा सायकचुम्बिनी भवति चेत् तत् स्यात् पदं सौष्ठवम् ॥ १३३५ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.208 · p. 121
अविषादो धृतिर्धैर्यमवष्टंभस्तु सौष्ठवम् ।वीराणां यद्रणे नृत्तं तस्मिन्वीरजयन्तिका ॥ २०८ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.90 · p. 40
नावः स्यात् सेकपात्रे च सिक्तौ चाप्यथ सौष्ठवम् ।अवष्टम्भे प्रशस्तत्वे हयनं तु गतावपि ॥ ९० ॥
अनुष्टुप्