All kośas › Abhidhānaratnamālā (Halāyudha)
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)
889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)
सामान्यकाण्डम्
इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालायां पातालकाण्डं तृतीयं समाप्तम् ॥ ३ ॥
चतुर्थं सामान्यकाण्डम्
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
4.686 · p. 79
metre not recognised
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
4.687 · p. 79
अनुष्टुप्
सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः ।किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥
4.688 · p. 79
अनुष्टुप्
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
4.689 · p. 79
शार्दूलविक्रीडितम्
अग्र्यं प्रधानं प्रमुखं पुरोगं,मुख्यं परार्ध्यं प्रवरं प्रवर्हम् ।अग्रेसरं सत्तममुत्तमं च,ग्रामण्यमग्रण्यमुदाहरन्ति ॥ ६९० ॥
4.690 · p. 80
इन्द्रवज्रा
शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
4.691 · p. 80
अनुष्टुप्
समीपं सनीडं समर्यादमारात्,सदेशं सवेशं ससीमोपकण्ठम् ।तथाभ्यर्णमभ्यग्रमभ्याशमाहु-र्बुधाः सन्निधानान्तिके सन्निकृष्टम् ॥ ६९२ ॥
4.692 · p. 80
भुजङ्गप्रयातम्
आसन्नं सविधं पार्श्वमुपान्तमपदान्तरम् ।विप्रकृष्टं परं दूरमाराद्व्यवहितं स्मृतम् ॥ ६९३ ॥
4.693 · p. 80
अनुष्टुप्
सदृक् समानः सदृशः सदृक्षः,प्रख्यः प्रकाशः प्रतिमः प्रकारः ।तुल्यः समः सन्निभ इत्यभिन्नाः,शब्दाः प्रयोगेषु गवेषणीयाः ॥ ६९४ ॥
4.694 · p. 80
उपजातिः
लोलं चपलं चटुलं प्रचलं तरलं परिप्लवमधीरम् ।पारिप्लवं च धीराश्चलाचलं चञ्चलं च कथयन्ति ॥ ६९५ ॥
4.695 · p. 80
गीतिः
वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् ।भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥
4.696 · p. 80
आर्या
द्राक् चपलं लघु मङ्क्षु स्राक् तूर्णं त्वरितमाशु शीघ्रमरम् ।अह्नाय सत्वरं च क्षिप्रं द्रुतमञ्जसा झटिति ॥ ६९७ ॥
4.697 · p. 81
आर्या
सततं सन्ततमनिशं नित्यमजस्रं च शश्वदश्रान्तम् ।अविरतमनवरतं स्यादेकार्थमनारतमसक्तम् ॥ ६९८ ॥
4.698 · p. 81
आर्या
वृहदुरु गुरु विस्तीर्णं पुरु पृथु पृथुलं महद्विशालं च ।व्यूढं विपुलं रुद्रं वरिष्ठमेकार्थमुद्दिष्टम् ॥ ६९९ ॥
4.699 · p. 81
आर्या
युग्मं युगं च युगलं द्वन्द्वं द्वितयं यमं यमलम् ।स्त्रीपुंसयोस्तु युग्मं मिथुनं परिकथ्यते सद्भिः ॥ ७०० ॥
4.700 · p. 81
उपगीतिः
प्राज्यं भूरि प्रभूतं च प्रचुरं बहुलं बहु ।पुरुजं पुष्कलं पुष्टमदभ्रमभिधीयते ॥ ७०१ ॥
4.701 · p. 81
अनुष्टुप्
आचितं निचितं व्याप्तं छन्नं कीर्णं च सङ्कुलम् ।आकुलं भरितं पूर्णं नातिनानार्थवाचकाः ॥ ७०२ ॥
4.702 · p. 81
अनुष्टुप्
प्रत्याख्यातं प्रतिक्षिप्तं प्रत्यादिष्टं निराकृतम् ।निरस्तमपविद्धं च प्राज्ञाः परिहृतं विदुः ॥ ७०३ ॥
4.703 · p. 81
अनुष्टुप्
घोरं प्रतिभयं भीमं दारुणं स्याद्भयानकम् ।आभीलं भीषणं भीष्मं भैरवं च भयावहम् ॥ ७०५ ॥
4.705 · p. 81
अनुष्टुप्
सख्यं साप्तपदीनं सौहार्दं सौहृदं तथा स्नेहः ।मैत्री प्रीतिरजर्यं सभाजनं सङ्गतं प्रोक्तम् ॥ ७०६ ॥
4.706 · p. 81
metre not recognised
आदिरग्रं पुरा पूर्वं प्रथमं प्राक् पुरः स्मृतम् ।उपज्ञोपक्रमारम्भौ पश्चाच्च चरमं भवेत् ॥ ७०७ ॥
4.707 · p. 82
अनुष्टुप्
रहः प्रच्छन्नमेकान्तं निःशलाकमुपह्वरम् ।उपांशु विजनं प्रोक्तं रहस्यं गुह्यमुच्यते ॥ ७०८ ॥
4.708 · p. 82
अनुष्टुप्
कैतवं कपटं कूटं व्याजच्छद्मोपधिच्छलम् ।मिषं निभं च निर्दिष्टं व्यपदेशश्च सूरिभिः ॥ ७०९ ॥
4.709 · p. 82
अनुष्टुप्
इच्छा वाञ्छा स्पृहा काङ्क्षा कामनेप्सा रुचिस्तथा ।आशंसा चेति तुल्यार्था निश्चितं नियतं स्मृतम् ॥ ७१० ॥
4.710 · p. 82
अनुष्टुप्
जीर्णं जरत्पुराणं प्रत्नं प्रतनं पुरातनं प्रोक्तम् ।नव्यं नवं नवीनं स्यान्नूतनमभिनवं नूत्नम् ॥ ७११ ॥
4.711 · p. 82
आर्या
निवृतं वेष्टितमुक्तं परिवृत्तं वलयितं परिक्षिप्तम् ।आवर्हितमुन्मूलितमुत्पाटितमुद्धृतं च समम् ॥ ७१२ ॥
4.712 · p. 82
आर्या
कृत्स्नं समग्रं सकलं समस्तं,सर्वं च विश्वं निखिलाखिले च ।खण्डार्धनेमाः शकलं च भित्तं,सामीत्यसम्पूर्णसमानसंज्ञाः ॥ ७१३ ॥
4.713 · p. 82
इन्द्रवज्रा
अवकीर्णमवध्वस्तं त्यक्तमुत्सृष्टमुज्झितम् ।अनादृतमवज्ञातमपहस्तितमिष्यते ॥ ७१४ ॥
4.714 · p. 82
अनुष्टुप्
आगूः सङ्गरसन्धाप्रतिश्रवाः संश्रवः प्रतिज्ञा च ।हेला स्यादवहेलं रीढावज्ञावलीढा च ॥ ७१५ ॥
4.715 · p. 82
आर्या
मूलीकर्म प्रोक्तं संवननं कामर्णं वशीकरणम् ।विप्रतिसारोऽनुशयः पश्चात्तापोऽनुतापः स्यात् ॥ ७१६ ॥
4.716 · p. 83
आर्याmetre not read in every line
क्षामं शातं कृशं क्षीणं पेलवं तलिनं तनु ।निरन्तरं घनं सान्द्रं बहुलं विरलेतरम् ॥ ७१७ ॥
4.717 · p. 83
अनुष्टुप्
निविडं निविरीशं च दृढं गाढं प्रचक्षते ।कामं प्रकामं पर्याप्तं नितान्तं भृशमुच्यते ॥ ७१८ ॥
4.718 · p. 83
अनुष्टुप्
परस्परं मिथः प्रोक्तमन्योन्यमितरेतरम् ।कौतूहलं विनोदः स्यात्कौतुकं च कुतूहलम् ॥ ७२० ॥
4.720 · p. 83
अनुष्टुप्
आली श्रेण्यावली पङ्क्तिर्वीथी राजी च कथ्यते ।क्षौरं च भद्राकरणं मुण्डनं वपनं स्मृतम् ॥ ७२१ ॥
4.721 · p. 83
अनुष्टुप्
दर्पो मदोऽवलेपो मानो गर्वो भवेदहङ्कारः ।आवेशः संवेगः संरम्भः सम्भ्रमस्तथाटोपः ॥ ७२२ ॥
4.722 · p. 83
metre not recognised
प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः ।प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः ॥ ७२३ ॥
4.723 · p. 83
अनुष्टुप्
अनुक्रोशः कृपा शूकं दया च करुणा घृणा ।प्रतिक्षणमभीक्ष्णं च भूयः स्यादसकृन्मुहुः ॥ ७२४ ॥
4.724 · p. 83
अनुष्टुप्
आतङ्को भयमाशङ्का दरस्त्रासश्च साध्वसम् ।मर्षः क्षमा तितिक्षा च क्षान्तिरुक्ता सहिष्णुता ॥ ७२५ ॥
4.725 · p. 83
अनुष्टुप्
वैणवो लगुडो रम्भो दण्डो यष्टिश्च कथ्यते ।गतिर्वीखा विहारः स्यात्परिसर्पः परिक्रमः ॥ ७२६ ॥
4.726 · p. 84
अनुष्टुप्
अणिरश्रिस्तथा कोटिरश्रः कोणश्च कथ्यते ।कश्मलं मलिनं म्लानं मलीमसमुदाहृतम् ॥ ७२७ ॥
4.727 · p. 84
अनुष्टुप्
भृतिर्भृत्या च कर्मण्या वेता मूल्यं च वेतनम् ।लिपिरालेख्यलेखा स्याल्लिपिर्लेखाक्षरस्य च ॥ ७२८ ॥
4.728 · p. 84
अनुष्टुप्
कल्पनं कर्तनं प्रोक्तं वर्धनं छेदनं तथा ।व्यत्ययः स्याद्विपर्यासो वैपरीत्यं विपर्ययः ॥ ७२९ ॥
4.729 · p. 84
अनुष्टुप्
अपह्नवोऽपलापः स्यादपज्ञानमपात्ययः ।श्रन्थनं ग्रन्थनं गुम्फः सन्दर्भो रचना स्मृता ॥ ७३० ॥
4.730 · p. 84
अनुष्टुप्
उद्वर्तनमुत्सादनमाहुः सोत्प्रासहसितमुपहसितम् ।उत्पिञ्जलमाकुलकं स्यादनुपदमन्वगन्वक्षम् ॥ ७३१ ॥
4.731 · p. 84
आर्या
गौरः श्वेतः सितः शुभ्रो वलक्षो धवलोऽर्जुनः ।हरिणः पाण्डुरः पाण्डुरवदातश्च पाण्डरः ॥ ७३२ ॥
4.732 · p. 84
अनुष्टुप्
अरुणः शोणो रक्तो माञ्जिष्ठः पाटलस्तथा ताम्रः ।लोहित इत्येकार्थाः कविभिः शब्दाः प्रयुज्यन्ते ॥ ७३३ ॥
4.733 · p. 84
metre not recognised
असितं शिति कृष्णं च कालं नीलं च मेचकम् ।श्यामं तु श्यामलं रामं पालाशं हरितं हरित् ॥ ७३४ ॥
4.734 · p. 84
अनुष्टुप्
हरिः कद्रुः कडारश्च पिङ्गलः परिकीर्तितः ।पीतं हारिद्रमाख्यातं श्यावं तु कपिशं स्मृतम् ॥ ७३५ ॥
4.735 · p. 84
अनुष्टुप्
पिङ्गः पिशङ्ग इत्युक्तो बभ्रुः कपिलः पिङ्गलः ।सारङ्गः शबलो वर्णः कल्माषः कृष्णपाण्डुरः ॥ ७३६ ॥
4.736 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 लः (wrong syllable)
पिञ्जरः पीतरक्तः स्याद्धूसरः स्तोकपाण्डुरः ।रक्तश्यामो भवेद्धूम्रो धूमलः स च कथ्यते ॥ ७३७ ॥
4.737 · p. 85
अनुष्टुप्
श्येनी कुमुदपत्राभा शुकाभा हरिणी स्मृता ।जपाकुसुमसंकाशा लोहिनी परिकीर्तिता ॥ ७३८ ॥
4.738 · p. 85
अनुष्टुप्
परिपाट्यानुपूर्वी स्यादुपशायोऽनुपात्ययः ।अनुक्रमश्च पर्यायो विशायः परिकीर्तितः ॥ ७३९ ॥
4.739 · p. 85
अनुष्टुप्
ईर्ष्या स्यात्कुहना दम्भो मिथ्याचर्या च कुक्कुटिः ।कुसृतिर्निकृतिर्माया शाम्बरी पथकल्पना ॥ ७४० ॥
4.740 · p. 85
अनुष्टुप्
चित्रकिर्मीरकल्माषशबलोन्मिश्रकर्बुराः ।करम्बः कवरः शारः सम्पृक्तः खचितः समाः ॥ ७४१ ॥
4.741 · p. 85
अनुष्टुप्
आयल्लकमुत्कण्ठा स्यादुत्कलिका रतिश्च रणरणकम् ।औत्सुक्यं हृल्लेखो विरहवियोगौ च तुल्यार्थौ ॥ ७४२ ॥
4.742 · p. 85
आर्या
प्रतिकूलं प्रतिलोमं प्रतीपमुक्तं प्रसव्यमेकार्थम् ।अपवारितं च पिहितं संवीतं संवृतं स्थगितम् ॥ ७४३ ॥
4.743 · p. 85
आर्या
आहुः प्रतीकमवयवमपघनमङ्गं तथैकदेशं च ।उल्वणमुद्धतमुद्भटमुत्कटमिति नातिनानार्थाः ॥ ७४४ ॥
4.744 · p. 85
आर्या
समाजः संसदास्थानी सभा स्यात्परिषत्सदः ।चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥
4.745 · p. 85
अनुष्टुप्
प्रेङ्खोलितं तरलितं प्रेङ्खितं लुलितं स्मृतम् ।युक्तं स्यादुचितं न्याय्यं प्राप्तमौपयिकं तथा ॥ ७४६ ॥
4.746 · p. 86
अनुष्टुप्
आहितं निहितं न्यस्तमारोपितमिति स्मृतम् ।बद्धं पिनद्धमामुक्तमपिनद्धं च कथ्यते ॥ ७४७ ॥
4.747 · p. 86
अनुष्टुप्
वञ्चनं चातिसन्धानं व्यलीकं स्यात्प्रतारणम् ।विप्रलम्भो विसंवादो विप्रलापश्च कीर्तितः ॥ ७४८ ॥
4.748 · p. 86
अनुष्टुप्
व्यलीकमपराधः स्यादागो मन्तुश्च विप्रियम् ।प्रणतिः स्यादनुनयः प्रणिपातश्च सान्त्वनम् ॥ ७४९ ॥
4.749 · p. 86
अनुष्टुप्
उद्घात उक्तः प्रस्तावो वारश्चावसरः क्षणः ।वदन्त्युपनतं प्राज्ञा उपसन्नमुपस्थितम् ॥ ७५० ॥
4.750 · p. 86
अनुष्टुप्
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं दीर्घमायतम् ।अयन्त्रितं स्यादुद्दाममुच्छृङ्खलमनर्गलम् ॥ ७५१ ॥
4.751 · p. 86
अनुष्टुप्
विशदं प्रकटं स्पष्टं प्रकाशं स्फुटमिष्यते ।तत्क्षणैकपदे तुल्ये सद्यः सपदि च स्मृते ॥ ७५२ ॥
4.752 · p. 86
अनुष्टुप्
विशङ्कटं विशालं स्यात्करालं विकटं तथा ।निस्तलं वर्तुलं वृत्तं स्थपुटं विषमोन्नतम् ॥ ७५३ ॥
4.753 · p. 86
अनुष्टुप्
अवगाहो जलद्रोणी निर्वेदः खेद उच्यते ।प्रमादोऽनवधानं स्यादत्याधानमतिक्रमः ॥ ७५४ ॥
4.754 · p. 86
अनुष्टुप्
निर्वेश उपभोगः स्यादाभोगः परिपूर्णता ।अवगीतं मुहुर्दृष्टमुपलब्धं च यद्भवेत् ॥ ७५५ ॥
4.755 · p. 86
अनुष्टुप्
वामं सव्यं विदुः प्राज्ञा अपसव्यं च दक्षिणम् ।प्रतिकूलानुकूलार्थे अपष्ठु त्वनपष्ठु च ॥ ७५६ ॥
4.756 · p. 87
अनुष्टुप्
विपरीतं पराचीनमपाचीनं पराङ्मुखम् ।स्मृतं कौसीद्यमालस्यमुपधा तु परीक्षणम् ॥ ७५७ ॥
4.757 · p. 87
अनुष्टुप्
विवधो वीवधो भारः पर्याहारश्च कथ्यते ।काचं शिक्यमिति प्रोक्तं भारयष्टिर्विहङ्गिका ॥ ७५८ ॥
4.758 · p. 87
अनुष्टुप्
सौष्ठवं स्यादवष्टम्भो हठः प्रसभमुच्यते ।प्रग्रहो ग्रहको वन्दी पणोऽक्षेषु ग्लहः स्मृतः ॥ ७५९ ॥
4.759 · p. 87
अनुष्टुप्
प्रायः स्याद्भोजनत्यागः संन्यासोऽनशनं स्मृतम् ।मोघं मुधाऽफलं बन्ध्यं नतं नम्रं च बन्धुरम् ॥ ७६० ॥
4.760 · p. 87
अनुष्टुप्
स्मृतं वणिज्यं वाणिज्यं वणिज्या च समं त्रयम् ।युद्धार्थे द्वे प्रयुज्येते दौर्मद्यं च करीरकम् ॥ ७६१ ॥
4.761 · p. 87
अनुष्टुप्
आकूतं स्यादभिप्रायो व्याकूतिर्भङ्गिरुच्यते ।स्थण्डिलं संस्कृता भूमिरयनं स्थानमुच्यते ॥ ७६२ ॥
4.762 · p. 87
अनुष्टुप्
प्रत्यग्रमुक्तं सद्यस्कमुपाग्रमुपसर्जनम् ।दोला प्रेङ्खोलनं प्रेङ्खा उत्सवः स्यान्महः क्षणः ॥ ७६३ ॥
4.763 · p. 87
अनुष्टुप्
गवलं माहिषं शृङ्गं दृतिश्चर्मप्रसेवकः ।समुद्गः सम्पुटो ज्ञेयो वडिशं मत्स्यबन्धनम् ॥ ७६४ ॥
4.764 · p. 87
अनुष्टुप्
कृते प्रतिकृतं प्राज्ञैः प्रतिनिर्यातनं स्मृतम् ।सपत्त्राकरणं प्रोक्तं यत्परस्यातिपीडनम् ॥ ७६५ ॥
4.765 · p. 88
अनुष्टुप्
समासः स्यात्समाहारः संक्षेपः सङ्ग्रहस्तथा ।व्यासः प्रपञ्चो विस्तारः स च शब्दस्य विस्तरः ॥ ७६६ ॥
4.766 · p. 88
अनुष्टुप्
उन्नं क्लिन्नं स्मृतं नुन्नं क्षिप्तं तुन्नं च पीडितम् ।पन्नं तु पतितं प्रोक्तं सन्नं शान्तं च सूरिभिः ॥ ७६७ ॥
4.767 · p. 88
अनुष्टुप्
न्यञ्चितं स्यादधःक्षिप्तं क्षिप्तमूर्ध्वमुदञ्चितम् ।काचितं सज्जितं प्रोक्तं रूषितं गुण्डितं स्मृतम् ॥ ७६८ ॥
4.768 · p. 88
अनुष्टुप्
विष्कम्भः प्रतिबन्धो विश्रम्भः कथ्यते च विश्वासः ।सम्मर्दः स्यात्परिमल उपमर्दो विप्रकारः स्यात् ॥ ७६९ ॥
4.769 · p. 88
metre not recognised
उपाधिर्धर्मचिन्ता स्यान्निःशोध्यमनवस्करः ।कुप्रियं च जघन्यं स्यान्निःशेषं न्यक्षमिष्यते ॥ ७७० ॥
4.770 · p. 88
अनुष्टुप्
अपकारो भवेद्द्रोहो दोष आदीनवो मतः ।कषायं तुवरं प्रोक्तं सुरुङ्गा सन्धिरुच्यते ॥ ७७१ ॥
4.771 · p. 88
अनुष्टुप्
असौम्यं यद्भवेच्चक्षुरचक्षुस्तत्प्रचक्षते ।अवहित्थं च शब्दज्ञा आकारस्य निगूहनम् ॥ ७७२ ॥
4.772 · p. 88
अनुष्टुप्
संस्तवः स्यात्परिचयः प्रसादः प्रणयः स्मृतः ।प्रवारणं महादानं सङ्कल्पः कर्म मानसम् ॥ ७७३ ॥
4.773 · p. 88
अनुष्टुप्
अनायासार्थकं फाण्टमन्तर्गडु निरर्थकम् ।स्वाच्छन्द्यं निर्निमित्तं च यदृच्छेत्यभिधीयते ॥ ७७४ ॥
4.774 · p. 88
अनुष्टुप्
आद्यमादिममन्त्यं स्यादन्तिमं चाग्र्यमग्रिमम् ।मध्यमं मध्यमीयं च मध्यन्दिनमुदाहृतम् ॥ ७७५ ॥
4.775 · p. 89
अनुष्टुप्
नमस्या वन्दना प्रोक्ता तपस्या नियमस्थितिः ।परिव्रज्या व्रतादानं व्रज्याऽट्या च गतिः स्मृता ॥ ७७६ ॥
4.776 · p. 89
अनुष्टुप्
रिक्तं तुच्छमसारं तु फल्गु व्युष्टिः फलं स्मृतम् ।कलिलं गहनं प्रोक्तं श्लथं शिथिलमुच्यते ॥ ७७७ ॥
4.777 · p. 89
अनुष्टुप्
स्वतन्त्रवृत्तिर्व्युत्थानमभ्युत्थानं च गौरवम् ।संस्थानं संनिवेशः स्यादास्थानं नृपतेः सभा ॥ ७७८ ॥
4.778 · p. 89
अनुष्टुप्
सङ्कथान्योन्यसङ्गीतिः प्रतिपत्तिः प्रगल्भता ।उच्यत ऊर्ज उत्साहो भृकुटिर्भ्रुकुटिस्तथा ॥ ७७९ ॥
4.779 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
उपजापो भवेद्भेदः साम सान्त्वमिति स्मृतम् ।तथेति प्रत्ययः श्रद्धा संस्कारो वासना स्मृता ॥ ७८० ॥
4.780 · p. 89
अनुष्टुप्
स्मृतमास्थितमाक्रान्तं प्रतीष्टं पतदाहृतम् ।प्रच्छादितं स्यात्संवीतं प्रशस्तं संस्कृतं स्मृतम् ॥ ७८१ ॥
4.781 · p. 89
अनुष्टुप्
उन्माथः कूटयन्त्रं स्यादवपातोऽवटः स्मृतः ।धर्मः स्वभावः आत्मा स्यादवेक्षा प्रतिजागरः ॥ ७८२ ॥
4.782 · p. 89
अनुष्टुप्
स्मृतं परुषमस्निग्धमाचारातिक्रमः क्रिया ।उच्चण्डमप्रलम्बं स्यान्माढिः पत्त्रशिरा स्मृता ॥ ७८३ ॥
4.783 · p. 89
अनुष्टुप्
अहमहमिका तु सा स्याद्यत्क्रियते स्पर्धयाधिकं किञ्चित् ।यत्र वृथाभिनिवेशस्तामाहोपुरुषिकां विदुः प्राज्ञाः ॥ ७८४ ॥
4.784 · p. 90
गीतिः
सिंहनादो भवेत् क्ष्वेडा गण्डूषो मुखपूरणम् ।प्रभावतां वदन्त्यार्याः प्रभुतां प्रभविष्णुताम् ॥ ७८५ ॥
4.785 · p. 90
अनुष्टुप्
परभागो गुणोत्कर्षः स्पर्धा संहर्ष उच्यते ।आयामः स्मृत आनाहः परिणाहो विशालता ॥ ७८६ ॥
4.786 · p. 90
अनुष्टुप्