कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वन्दी

vandīस्त्री · fem.

In 5 kośas: 5 synonym verses.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.759 · p. 87
सौष्ठवं स्यादवष्टम्भो हठः प्रसभमुच्यते ।प्रग्रहो ग्रहको वन्दी पणोऽक्षेषु ग्लहः स्मृतः ॥ ७५९ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.267 · p. 90
कृष्णवृन्ते खलकुलः ताम्रवृन्तः कुलत्थकः ।आडकी तुवरी वन्दी सौराष्ट्री करवीरिका ॥ २६७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.385 · p. 131
उपग्रहः करमरी ग्राहो वन्दी च बन्धने ।प्राणोऽसुरसवः प्राणाः पुंसि भूम्न्येकभाषणे ॥ ३८५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.404 · p. 137
संस्क्रिया सत्क्रिया चेति संस्कारोऽपि निगद्यते ।वन्दिर्वन्दी वन्दिका च प्रग्रहोपग्रहौ तथा ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.62 · p. 71
चिता काष्ठमटी चैत्यं चिताचूडकमिष्यते ।चितं चाऽथान्तशय्यायां खटिर्वारुठ इत्यपि ।उपग्रहस्तु ग्राहः स्याद्वन्द्वी करमरीत्यपि ॥ ६२ ॥
अनुष्टुप्
genderस्त्रीfem.