कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पण

paṇaपुं · masc.

In 17 kośas: 43 synonym verses, 10 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.28 · p. 18
स निर्भृतिः कर्मकारो भृतिः स्यान्निष्क्रयः पणः ।कर्मण्या वेतनं मूल्यं निर्वेशो भरणं विधा ॥ ३६२ ॥भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभृतिः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.190 · p. 22
दुरोदरं कैतवं स्याद्द्यूतमक्षवती पणः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य द्वीन्द्रियाः Abhidhānacintāmaṇi 4.6.5 · p. 47
कपर्दस्तु हिरण्यः स्यात्पणास्थिकवराटकौ ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.152
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.38
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ।भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.44
द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.74
पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.759 · p. 87
सौष्ठवं स्यादवष्टम्भो हठः प्रसभमुच्यते ।प्रग्रहो ग्रहको वन्दी पणोऽक्षेषु ग्लहः स्मृतः ॥ ७५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.526 · p. 191
अपि स्यात्कार्षिकस्तत्र कार्षिके ताम्रिके पणः ।पणैश्चतुर्भिः कुडवस्तावद्भिः कुडवैरपि ॥ ५२६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.83 · p. 211
भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ।स्त्रियां कुटी तु तरला परिस्रुन्मादिनीवती ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.103 · p. 213
श्वेता कपर्दिका श्वेती चूर्णिः षण् कितवं पणः ।परिणायस्तु सारीणां समन्तान्नयने स्त्रियाम् ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.117 · p. 294
स जातरूपः सौवर्णो राजतः कलधौतकः ।दीनारस्य तु भागे स्याद्धाणको नरलिङ्गकः ।* * [पण-] कर्षापणावस्त्री कार्षिकस्ताम्रिकः पणः ॥ ११७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.18 · p. 294
पणश्चतुष्काकिणीको द्रम्मः षोडशभिः पणैः ।निष्कोऽस्त्री षोडशद्रम्मास्त्रिषु भागस्य वृद्धिमत् ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.39 · p. 298
तदालम्बि तु शिक्यं स्यात्काचो न त्र्यङ्कटोऽस्त्रियाम् ।भारिको भारवाहः स्याद्भृतकस्तु भरण्यभुक् ॥तथा कर्मकरो वैतनिकोऽपि धमको(?)ऽथ सः ।भृतिं विना कर्मकारोऽथ भरण्यं च वेतनम् ॥कर्मण्यं भर्म मूल्यं च भरणं निष्क्रयः पणः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.68 · p. 301
क्षीबश्चामी विशेष्यघ्ना मद्यरोगो मदात्ययः ।पणो ना स्यादक्षवती कैतवं च दुरोदरम् ।दरोदरं द्यूतमस्त्री * * * * * * * * ॥ ६८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.123 · p. 67
क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलमात्रजाः ।कपर्दस्तु वराटः स्यात्पणास्थिकवराटकाः ॥ १२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.28 · p. 105
भृतकः कर्मकारोऽपि खलपूर्बहुकर्मकृत् ।भृतिः पणस्तथा मूल्ये भरणावेतने मते ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.150 · p. 120
पणोऽथ पाशकः प्रोक्तः प्रासकः परिभावितः ।अष्टापदः शारिफलं खेलनी शारिरुच्यते ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.358 · p. 146
द्यूतं मांसं परस्त्री च सुराचौर्यपणाङ्गनाः ।पापर्धिरथ वा राज्ञां मृगयाक्षाः स्त्रियः पुनः ॥ ३५८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.13 · p. 26
पण्यवीथ्यां पणश्च स्यात्पनः पणिरिति स्मृतः ।आपणश्च निषद्या च निषिद्य इति कथ्यते ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.530 · p. 94
कार्षापणः कार्षिकश्च पणश्चाचित इत्यपि ।चतुःप्रस्थपरीमाणे त्वाढको द्रोण इष्यते ॥ ५३० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.617 · p. 106
कर्मण्या भर्म मूल्यं च निर्वेशो वेतनं पणम् ।सुरा हलिप्रिया हाला परिसृ(स्रु?)द्वरुणात्मजा ॥ ६१७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.11 · p. 39
एकवर्णे तु शकलं द्विवर्णे त्वटकं मतम् ।वसु त्रिवर्णे कथितं चतुर्वर्णे पणं स्मृतम् ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.64 · p. 40
द्यूतकारोऽक्षदेवी चाक्षधूर्तः कितवश्व सः ।द्यूतं दुरोदरं चाक्षवती पणश्च कैतवम् ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.536 · p. 68
भृतिः स्याद्वेतनं मूल्यं कर्मणां निष्क्रयः पणः ।भर्मण्या भर्म निर्वेशो भृत्या च भरणं विधा ॥ ५३६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.752 · p. 106
अक्षवती पणः द्यूतं कैतवं स्याद्दुरोदरम् ॥ ७५२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.173 · p. 149
विंशतिगण्डकामूल्यताम्रिके कार्षिके पणः ।कार्षापणः पुराणोऽस्त्री कार्षिकास्ते तु षोडशः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.67 · p. 157
भरण्यं भर्म निर्वेशो मूल्यञ्च पण इत्यपि ।सुरा कादम्बरी हाला मदिरा च हलिप्रिया ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.77 · p. 158
द्यूतोऽस्त्री कैतवञ्चाक्षवती पण-दुरोदरौ ।पणोऽक्षेषु ग्लहः पुंसि अक्षदेवनपाशकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.320 · p. 214
वैमेयोऽपि परदाने व्यवहारे पणं पणः ।न्यासार्पणे प्रतिदानं परिदानं, सत्यापने ॥ ३२० ॥
metre not recognised
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1499 · p. 181
कार्षापणः कार्षिकः स्यात्ताम्रिके कार्षिके पणः ।व्रीहिभिस्त्रिसहस्त्रैर्ना कुडुबस्तच्छतोत्तरैः ॥ १४९९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1502 · p. 182
नीवी परिपणमेषां मूलधनेऽथाधिकं फलं लाभः ।स्त्रियां वणिज्या वाणिज्यं व्यवहारो ग्लहः पणः ॥ १५०२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1503 · p. 182
वस्नोऽर्घोऽवक्रयो मूल्यं विक्रयः प्रक्रयः पणः ।विपणः पणयस्त्वाधिर्बन्धोऽथायो धनागमः ॥ १५०३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1507 · p. 182
भरण्यं भरणं मूल्यं पणो भृत्या विधा भृतिः ।कर्मण्याप्यथ रोषाणो हेमादिनिकषोपलः ॥ १५०७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1568 · p. 189
द्यूतकृत् कितवो धूर्तश्चाक्षदेव्यक्षदेवनः ।स्यादेवाक्षवती द्यूतमस्त्रियां कैतवं पणः ॥ १५६८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.69 · p. 128
विक्रेयं पणितव्यं च पण्येऽथ क्रपुकः क्रयः ।भेटकः प्रक्रयः क्रेणी विक्रयो विपणः पणः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.60 · p. 141
समाधिश्च समंगश्च परिवी रंजनं च तत् ।पणो ग्लहो देवनस्तु पाशकोऽक्षोऽथ शारयः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.38 · p. 189
बिन्दुकोऽस्त्री तद्द्वये तु पणपाणिकपादिकाः ।क्रमात्ततोंऽगजो रुच्यः कार्षिकश्च चतुर्गुणाः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.39 · p. 189
कार्षापणः कार्षिकः स्यात् स षोडशपणः क्वचित् ।लोहे विंशतिमाषोऽसौ कार्षिके ताम्रिके पणः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.40 · p. 189
ताम्रकर्षकृता मुद्रा क्वचित्कार्षापणः पणः ।स एव चाधिकेत्युक्तो धानका तच्चतुष्टयम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.45 · p. 189
शतमानं तु दशभिर्धरणैः पलमेव च ।माषस्तण्डुलमात्रो वा हेम्नस्तैरष्टभिः पणः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.46
पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास णश्लोकः Dharaṇikośa 14.3.2 · p. 56
पणो माने वराटानां मूल्ये कार्षापणे धने ।द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.3 · p. 193
धान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवेकृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे ।कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक-श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु ।व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो-ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः ।ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौमूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः ।संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणोघ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् ।काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौबाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.71 · p. 27
पणो विक्रय्यशाकादिबद्धमुष्टौ ग्लहे धने ।द्यूतेऽशीतौ वराटानां कार्षिकव्यवहारयोः ॥ ७१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.72 · p. 27
मूल्ये भृतौ व्यवस्थायां विक्रयेऽप्यथ पट्टवाक् ।प्रशस्तक्षौमकौशेयाद्यम्बरे व्रणबन्धने ॥ ७२ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.288 · p. 198
पणो ग्लहे भृतौ कार्षापणे मूल्ये वराटके ।पाको दैत्ये शिशौ पाके पात्रं भाजनदेहयोः ॥ २८८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.9 · p. 208
क्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् ।चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः ।झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च ।तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके ।द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् ।तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च ।क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च ।स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 2 ष्क (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1951 · p. 237
पणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने ।स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.34 · p. 216
पट्टो नेत्रेऽपि शाणे स्यात् पिण्डिः कल्केऽपि तैलजे ।पणो मूल्ये ग्लहे माने कार्षिकव्यवहारयोः ॥ ३४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.35 · p. 216
द्यूते विक्रय्यशाकादिबद्धमुष्टौ भृतौ धने ।पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु ॥ ३५ ॥
अनुष्टुप्
doubtful

पण as a meaning in nānārtha verses